Skip to main content

अष्टावक्र, उतथ्य, ऋभु गीता r

source :google
।।अष्टावक्र गीता ।।                      ।।श्री ।।
      अथ श्रीमदष्टावक्रगीता प्रारभ्यते ।।
                 जनक उवाच ।।
कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।
वैराग्यं च कथं प्राप्तं एतद् ब्रूहि मम प्रभो ।।१- १।।
                अष्टावक्र उवाच ।।
मुक्तिं इच्छसि चेत्तात विषयान् विषवत्त्यज ।
क्षमार्जवदयातोषसत्यं पीयूषवद् भज ।।१- २।।
न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् ।
एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ।।१- ३।।
यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि ।
अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ।।१- ४।।
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।
असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ।।१- ५।।
धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो ।
न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ।।१- ६।।
एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा ।
अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ।।१- ७।।
अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः ।
नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव ।।१- ८।।
एको विशुद्धबोधोऽहं इति निश्चयवह्निना ।
प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव ।।१- ९।।
यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् ।
आनन्दपरमानन्दः स बोधस्त्वं सुखं भव ।।१- १०।।
मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि ।
किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत् ।।१- ११।।
आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः ।
असंगो निःस्पृहः शान्तो भ्रमात्संसारवानिव ।।१- १२।।
कूटस्थं बोधमद्वैतमात्मानं परिभावय ।
आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ।।१- १३।।
देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक ।
बोधोऽहं ज्ञानखंगेन तःनिकृत्य सुखी भव ।।१- १४।।
निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः ।
अयमेव हि ते बन्धः समाधिमनुतिष्ठति ।।१- १५।।
त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः ।
शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम् ।।१- १६।।
निरपेक्षो निर्विकारो निर्भरः शीतलाशयः ।
अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ।।१- १७।।
साकारमनृतं विद्धि निराकारं तु निश्चलम् ।
एतत्तत्त्वोपदेशेन न पुनर्भवसंभवः ।।१- १८।।
यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः ।
तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः ।।१- १९।।
एकं सर्वगतं व्योम बहिरन्तर्यथा घटे ।
नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ।।१- २०।।
                 जनक उवाच ।।
अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः ।
एतावन्तमहं कालं मोहेनैव विडंबितः ।।२- १।।
यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।
अतो मम जगत्सर्वमथवा न च किंचन ।।२- २।।
स शरीरमहो विश्वं परित्यज्य मयाधुना ।
कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ।।२- ३।।
यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः ।
आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ।।२- ४।।
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः ।
आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ।।२- ५।।
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा ।
तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम् ।।२- ६।।
आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते ।
रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ।।२- ७।।
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।
यदा प्रकाशते विश्वं तदाहं भास एव हि ।।२- ८।।
अहो विकल्पितं विश्वमज्ञानान्मयि भासते ।
रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ।।२- ९।।
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति ।
मृदि कुंभो जले वीचिः  कनके कटकं यथा ।।२- १०।।
अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे ।
ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः ।।२- ११।।
अहो अहं नमो मह्यं एकोऽहं देहवानपि ।
क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ।।२- १२।।
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः ।
असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ।।२- १३।।
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन ।
अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ।।२- १४।।
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् ।
अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः ।।२- १५।।
द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् ।
दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः ।।२- १६।।
बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया ।
एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ।।२- १७।।
न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया ।
अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ।।२- १८।।
सशरीरमिदं विश्वं न किंचिदिति निश्चितम् ।
शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ।।२- १९।।
शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा ।
कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ।।२- २०।।
अहो जनसमूहेऽपि न द्वैतं पश्यतो मम ।
अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ।।२- २१।।
नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।
अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा ।।२- २२।।
अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् ।
मय्यनंतमहांभोधौ चित्तवाते समुद्यते ।।२- २३।।
मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति ।
अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ।।२- २४।।
मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः ।
उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ।।२- २५।। 
                अष्टावक्र उवाच ।।
अविनाशिनमात्मानं एकं विज्ञाय तत्त्वतः ।
तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ।।३- १।।
आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ।।३- २।।
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ।।३- ३।।
श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरम् ।
उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ।।३- ४।।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ।।३- ५।।
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः ।
आश्चर्यं कामवशगो विकलः केलिशिक्षया ।।३- ६।।
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः ।
आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ।।३- ७।।
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः ।
आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ।।३- ८।।
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा ।
आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ।।३- ९।।
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् ।
संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ।।३- १०।।
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः ।
अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ।।३- ११।।
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः ।
तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ।।३- १२।।
स्वभावाद् एव जानानो दृश्यमेतन्न किंचन ।
इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ।।३- १३।।
अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः ।
यदृच्छयागतो भोगो न दुःखाय न तुष्टये ।।३- १४।। 
                जनक उवाच ।।
हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया ।
न हि संसारवाहीकैर्मूढैः सह समानता ।।४- १।।
यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः ।
अहो तत्र स्थितो योगी न हर्षमुपगच्छति ।।४- २।।
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते ।
न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः ।।४- ३।।
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना ।
यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः ।।४- ४।।
आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे ।
विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने ।।४- ५।।
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरम् ।
यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित् ।।४- ६।। 
                अष्टावक्र उवाच ।।
न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि ।
संघातविलयं कुर्वन्नेवमेव लयं व्रज ।।५- १।।
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः ।
इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज ।।५- २।।
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि ।
रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज ।।५- ३।।
समदुःखसुखः पूर्ण आशानैराश्ययोः समः ।
समजीवितमृत्युः सन्नेवमेव लयं व्रज ।।५- ४।। 
                जनक उवाच ।।
आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।।६- १।।
महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।।६- २।।
अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।।६- ३।।
अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ।।६- ४।। 
                जनक उवाच ।।
मय्यनंतमहांभोधौ विश्वपोत इतस्ततः ।
भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता ।।७- १।।
मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः ।
उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ।।७- २।।
मय्यनंतमहांभोधौ विश्वं नाम विकल्पना ।
अतिशांतो निराकार एतदेवाहमास्थितः ।।७- ३।।
नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने ।
इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः ।।७- ४।।
अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत् ।
इति मम कथं कुत्र हेयोपादेयकल्पना ।।७- ५।। 
                अष्टावक्र उवाच ।।
तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति ।
किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति ।।८- १।।
तदा मुक्तिर्यदा चित्तं न वांछति न शोचति ।
न मुंचति न गृण्हाति न हृष्यति न कुप्यति ।।८- २।।
तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु ।
तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ।।८- ३।।
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा ।
मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा ।।८- ४।। 
                अष्टावक्र उवाच ।।
कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा ।
एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती ।।९- १।।
कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् ।
जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः ।।९- २।।
अनित्यं सर्वमेवेदं तापत्रयदूषितम् ।
असरं निन्दितं हेयमिति निश्चित्य शाम्यति ।।९- ३।।
कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणाम् ।
तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात् ।।९- ४।।
ना मतं महर्षीणां साधूनां योगिनां तथा ।
दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः ।।९- ५।।
कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः ।
निर्वेदसमतायुक्त्या यस्तारयति संसृतेः ।।९- ६।।
पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः ।
तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि ।।९- ७।।
वासना एव संसार इति सर्वा विमुंच ताः ।
तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा ।।९- ८।। 
                अष्टावक्र उवाच ।।
विहाय वैरिणं काममर्थं चानर्थसंकुलम् ।
धर्ममप्येतयोर्हेतुं सर्वत्रादरं कुरु ।।१०- १।।
स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पंच वा ।
मित्रक्षेत्रधनागारदारदायादिसंपदः ।।१०- २।।
यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै ।
प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ।।१०- ३।।
तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते ।
भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ।।१०- ४।।
त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा ।
अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते ।।१०- ५।।
राज्यं सुताः कलत्राणि शरीराणि सुखानि च ।
संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ।।१०- ६।।
अलमर्थेन कामेन सुकृतेनापि कर्मणा ।
एभ्यः संसारकान्तारे न विश्रान्तमभून् मनः ।।१०- ७।।
कृतं न कति जन्मानि कायेन मनसा गिरा ।
दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ।।१०- ८।। 
                अष्टावक्र उवाच ।।
भावाभावविकारश्च स्वभावादिति निश्चयी ।
निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ।।११- १।।
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।
अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ।।११- २।।
आपदः संपदः काले दैवादेवेति निश्चयी ।
तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति ।।११- ३।।
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी ।
साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ।।११- ४।।
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी ।
तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ।।११- ५।।
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी ।
कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम् ।।११- ६।।
आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी ।
निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ।।११- ७।।
नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ।।११- ८।। 
                जनक उवाच ।।
कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः ।
अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः ।।१२- १।।
प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः ।
विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ।।१२- २।।
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये ।
एवं विलोक्य नियमं एवमेवाहमास्थितः ।।१२- ३्र्र्र
हेयोपादेयविरहाद् एवं हर्षविषादयोः ।
अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः ।।१२- ४।।
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् ।
विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ।।१२- ५।।
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा ।
बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः ।।१२- ६।।
अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ ।
त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः ।।१२- ७।।
एवमेव कृतं येन स कृतार्थो भवेदसौ ।
एवमेव स्वभावो यः स कृतार्थो भवेदसौ ।।१२- ८।। 
                जनक उवाच ।।
अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभम् ।
त्यागादाने विहायास्मादहमासे यथासुखम् ।।१३- १।।
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते ।
मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ।।१३- २।।
कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः ।
यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम् ।।१३- ३।।
कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः ।
संयोगायोगविरहादहमासे यथासुखम् ।।१३- ४।।
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा ।
तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ।।१३- ५।।
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा ।
नाशोल्लासौ विहायास्मदहमासे यथासुखम् ।।१३- ६।।
सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः ।
शुभाशुभे विहायास्मादहमासे यथासुखम् ।।१३- ७।। 
                जनक उवाच ।।
प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः ।
निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ।।१४- १।।
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः ।
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ।।१४- २।।
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे ।
नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम ।।१४- ३।।
अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः ।
भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ।।१४- ४।। 
                अष्टावक्र उवाच ।।
यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् ।
आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ।।१५- १।।
मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः ।
एतावदेव विज्ञानं यथेच्छसि तथा कुरु ।।१५- २।।
वाग्मिप्राज्ञानमहोद्योगं जनं मूकजडालसम् ।
करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः ।।१५- ३।।
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् ।
चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ।।१५- ४।।
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन ।
निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ।।१५- ५।।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव ।।१५- ६।।
विश्वं स्फुरति यत्रेदं तरंगा इव सागरे ।
तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव ।।१५- ७।।
श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः ।
ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ।।१५- ८।।
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च ।
आत्मा न गंता नागंता किमेनमनुशोचसि ।।१५- ९।।
देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः ।
क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ।।१५- १०।।
त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः ।
उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ।।१५- ११।।
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् ।
अतः कस्य कथं कुत्र हेयोपादेयकल्पना ।।१५- १२।।
एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि ।
कुतो जन्म कुतो कर्म कुतोऽहंकार एव च ।।१५- १३।।
यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे ।
किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम् ।।१५- १४।।
अयं सोऽहमयं नाहं विभागमिति संत्यज ।
सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव ।।१५- १५।।
तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः ।
त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ।।१५- १६।।
भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ।।१५- १७।।
एक एव भवांभोधावासीदस्ति भविष्यति ।
न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर ।।१५- १८।।
मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय ।
उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे ।।१५- १९।।
त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय ।
आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ।।१५- २०।। 
                अष्टावक्र उवाच ।।
आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः ।
तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ।।१६- १।।
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते ।
चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ।।१६- २।।
आयासात्सकलो दुःखी नैनं जानाति कश्चन ।
अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ।।१६- ३।।
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि ।
तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित् ।।१६- ४।।
इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः ।
धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ।।१६- ५।।
विरक्तो विषयद्वेष्टा रागी विषयलोलुपः ।
ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ।।१६- ६।।
हेयोपादेयता तावत्संसारविटपांकुरः ।
स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ।।१६- ७।।
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि ।
निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः ।।१६- ८।।
हातुमिच्छति संसारं रागी दुःखजिहासया ।
वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ।।१६- ९।।
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा ।
न च ज्ञानी न वा योगी केवलं दुःखभागसौ ।।१६- १०।।
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।
तथापि न तव स्वाथ्यं सर्वविस्मरणादृते ।।१६- ११।। 
                अष्टावक्र उवाच ।।
तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।
तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः ।।१७- १।।
न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति ।
यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ।।१७- २।।
न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी ।
सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः ।।१७- ३।।
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता ।
अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः ।।१७- ४।।
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते ।
भोगमोक्षनिराकांक्षी विरलो हि महाशयः ।।१७- ५।।
धर्मार्थकाममोक्षेषु जीविते मरणे तथा ।
कस्याप्युदारचित्तस्य हेयोपादेयता न हि ।।१७- ६।।
वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ ।
यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम् ।।१७- ७।।
कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नास्ते यथा सुखम् ।।१७- ८।।
शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च ।
न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ।।१७- ९।।
न जागर्ति न निद्राति नोन्मीलति न मीलति ।
अहो परदशा क्वापि वर्तते मुक्तचेतसः ।।१७- १०।।
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः ।
समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ।।१७- ११।।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन् ।
ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ।।१७- १२।।
न निन्दति न च स्तौति न हृष्यति न कुप्यति ।
न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः ।।१७- १३।।
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् ।
अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ।।१७- १४।।
सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च ।
विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ।।१७- १५।।
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता ।
नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ।।१७- १६।।
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः ।
असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ।।१७- १७।।
समाधानसमाधानहिताहितविकल्पनाः ।
शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ।।१७- १८।।
निर्ममो निरहंकारो न किंचिदिति निश्चितः ।
अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न ।।१७- १९।।
मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः ।
दशां कामपि संप्राप्तो भवेद् गलितमानसः ।।१७- २०।। 
                अष्टावक्र उवाच ।।
यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।
तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ।।१८- १।।
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।
न हि सर्वपरित्याजमन्तरेण सुखी भवेत् ।।१८- २।।
कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः ।
कुतः प्रशमपीयूषधारासारमृते सुखम् ।।१८- ३।।
भवोऽयं भावनामात्रो न किंचित् परमर्थतः ।
नास्त्यभावः स्वभावनां भावाभावविभाविनाम् ।।१८- ४।।
न दूरं न च संकोचाल्लब्धमेवात्मनः पदम् ।
निर्विकल्पं निरायासं निर्विकारं निरंजनम् ।।१८- ५।।
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।
वीतशोका विराजन्ते निरावरणदृष्टयः ।।१८- ६।।
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः ।
इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ।।१८- ७।।
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
निष्कामः किं विजानाति किं ब्रूते च करोति किम् ।।१८- ८।।
अयं सोऽहमयं नाहं इति क्षीणा विकल्पना ।
सर्वमात्मेति निश्चित्य तूष्णींभूतस्य  योगिनः ।।१८- ९।।
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता ।
न सुखं न च वा दुःखं उपशान्तस्य योगिनः ।।१८- १०।।
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने ।
निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ।।१८- ११।।
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ।।१८- १२।।
कृत्यं किमपि नैवास्ति न कापि हृदि रंजना ।
यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ।।१८- १३।।
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता ।
सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः ।।१८- १४।।
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै ।
निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ।।१८- १५।।
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् ।
किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ।।१८- १६।।
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ ।
उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ।।१८- १७।।
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् ।
नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ।।१८- १८।।
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः ।
नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता ।।१८- १९।।
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः ।
यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम् ।।१८- २०।।
निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः ।
क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ।।१८- २१।।
असंसारस्य तु क्वापि न हर्षो न विषादिता ।
स शीतलहमना नित्यं विदेह इव राजये ।।१८- २२।।
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् ।
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ।।१८- २३।।
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया ।
प्राकृतस्येव धीरस्य न मानो नावमानता ।।१८- २४।।
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा ।
इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ।।१८- २५।।
अतद्वादीव कुरुते न भवेदपि बालिशः ।
जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ।।१८- २६।।
नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः ।
न कल्पते न जाति न शृणोति न पश्यति ।।१८- २७।।
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः ।
निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ।।१८- २८।।
यस्यान्तः स्यादहंकारो न करोति करोति सः ।
निरहंकारधीरेण न किंचिदकृतं कृतम् ।।१८- २९।।
नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् ।
निराशं गतसन्देहं चित्तं मुक्तस्य राजते ।।१८- ३०।।
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते ।
निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते ।।१८- ३१।।
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् ।
अथवा याति संकोचममूढः कोऽपि मूढवत् ।।१८- ३२।।
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् ।
धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ।।१८- ३३।।
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् ।
तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ।।१८- ३४।।
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयम् ।
आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ।।१८- ३५।।
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा ।
धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ।।१८- ३६।।
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति ।
अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ।।१८- ३७।।
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः ।
एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ।।१८- ३८।।
न शान्तिं लभते मूढो यतः शमितुमिच्छति ।
धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ।।१८- ३९।।
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते ।
धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ।।१८- ४०।।
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै ।
स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ।।१८- ४१।।
भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः ।
उभयाभावकः कश्चिद् एवमेव निराकुलः ।।१८- ४२।।
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः ।
न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ।।१८- ४३।।
मुमुक्षोर्बुद्धिरालंबमन्तरेण न विद्यते ।
निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ।।१८- ४४।।
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः ।
विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ।।१८- ४५।।
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः ।
पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ।।१८- ४६।।
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ।।१८- ४७।।
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः ।
नैवाचारमनाचारमौदास्यं वा प्रपश्यति ।।१८- ४८।।
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः ।
शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ।।१८- ४९।।
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परम् ।
स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम् ।।१८- ५०।।
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा ।
तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ।।१८- ५१।।
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते ।
न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ।।१८- ५२।।
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् ।
निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ।।१८- ५३।।
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् ।
दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना ।।१८- ५४।।
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः ।
विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ।।१८- ५५।।
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते ।
तस्याश्चर्यदशां तां तां तादृशा एव जानते ।।१८- ५६।।
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः ।
शून्याकारा निराकारा निर्विकारा निरामयाः ।।१८- ५७।।
अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः ।
कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ।।१८- ५८।।
सुखमास्ते सुखं शेते सुखमायाति याति च ।
सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः ।।१८- ५९।।
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः ।
महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते ।।१८- ६०।।
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते ।
प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ।।१८- ६१।।
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।
देहे विगलिताशस्य क्व रागः क्व विरागता ।।१८- ६२।।
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा ।
भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ।।१८- ६३।।
सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः ।
न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि ।।१८- ६४।।
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ।।१८- ६५।।
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् ।
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ।।१८- ६६।।
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः ।
अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ।।१८- ६७।।
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः ।
भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः ।।१८- ६८।।
महदादि जगद्द्वैतं नाममात्रविजृंभितम् ।
विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ।।१८- ६९।।
भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी ।
अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ।।१८- ७०।।
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः ।
क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा ।।१८- ७१।।
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः ।
क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ।।१८- ७२।।
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते ।
निर्ममो निरहंकारो निष्कामः शोभते बुधः ।।१८- ७३।।
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः ।
क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ।।१८- ७४।।
निरोधादीनि कर्माणि जहाति जडधीर्यदि ।
मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ।।१८- ७५।।
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् ।
निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ।।१८- ७६।।
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् ।
नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन ।।१८- ७७।।
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन ।
निर्विकारस्य धीरस्य निरातंकस्य सर्वदा ।।१८- ७८।।
क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा ।
अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ।।१८- ७९।।
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि ।
बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन ।।१८- ८०।।
नैव प्रार्थयते लाभं नालाभेनानुशोचति ।
धीरस्य शीतलं चित्तममृतेनैव पूरितम् ।।१८- ८१।।
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति ।
समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति ।।१८- ८२।।
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति ।
हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ।।१८- ८३।।
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च ।
निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ।।१८- ८४।।
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः ।
स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः ।।१८- ८५।।
पततूदेतु वा देहो नास्य चिन्ता महात्मनः ।
स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ।।१८- ८६।।
अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः ।
असक्तः सर्वभावेषु केवलो रमते बुधः ।।१८- ८७।।
निर्ममः शोभते धीरः समलोष्टाश्मकांचनः ।
सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ।।१८- ८८।।
सर्वत्रानवधानस्य न किंचिद् वासना हृदि ।
मुक्तात्मनो वितृप्तस्य तुलना केन जायते ।।१८- ८९।।
जानन्नपि न जानाति पश्यन्नपि न पश्यति ।
ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ।।१८- ९०।।
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते ।
भावेषु गलिता यस्य शोभनाशोभना मतिः ।।१८- ९१।।
क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः ।
निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ।।१८- ९२।।
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना ।
अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते ।।१८- ९३।।
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च ।
जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ।।१८- ९४।।
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः ।
सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः ।।१८- ९५।।
न सुखी न च वा दुःखी न विरक्तो न संगवान् ।
न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन ।।१८- ९६।।
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् ।
जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ।।१८- ९७।।
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः ।
समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ।।१८- ९८।।
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति ।
नैवोद्विजति मरणे जीवने नाभिनन्दति ।।१८- ९९।।
न धावति जनाकीर्णं नारण्यं उपशान्तधीः ।
यथातथा यत्रतत्र सम एवावतिष्ठते ।।१८- १००।।
                 जनक उवाच ।।
तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् ।
नाविधपरामर्शशल्योद्धारः कृतो मया ।।१९- १।।
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ।।१९- २।।
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा ।
क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ।।१९- ३।।
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा ।
क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ।।१९- ४।।
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा ।
क्व तुरीयं भयं वापि स्वमहिम्नि स्थितस्य मे ।।१९- ५।।
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा ।
क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ।।१९- ६।।
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम् ।
क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ।।१९- ७।।
अलं त्रिवर्गकथया योगस्य कथयाप्यलम् ।
अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ।।१९- ८।।
                जनक उवाच ।।
क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः ।
क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने ।।२०- १।।
क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः ।
क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा ।।२०- २।।
क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा ।
क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता ।।२०- ३।।
क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा ।
क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा ।।२०- ४।।
क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा ।
क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा ।।२०- ५।।
क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा ।
क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये ।।२०- ६।।
क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनम् ।
क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये ।।२०- ७।।
क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा ।
क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे ।।२०- ८।।
क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता ।
क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे ।।२०- ९।।
क्व चैष व्यवहारो वा क्व च सा परमार्थता ।
क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा ।।२०- १०।।
क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा ।
क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे ।।२०- ११।।
क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् ।
कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा ।।२०- १२।।
क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः ।
क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे ।।२०- १३।।
क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयम् ।
बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम ।।२०- १४।।
 
               ।।ॐ तत्सत् ।।
।। उतथ्यगीता।।
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्म वित्तमः . 
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ।। ।।
 यथानुशशासैनमुतथ्यो ब्रह्म वित्तमः . 
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ।। ।।
धर्माय राजा भवति  कामकरणाय तु . 
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ।। ।।
राजा चरति वै धर्मं देवत्वायैव गच्छति . 
 चेद्धर्मं  चरति नरकायैव गच्छति ।। ।।
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति . 
तं राजा साधु यः शास्ति  राजा पृथिवीपतिः ।। ।।
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते . 
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ।। ।।
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते . 
तदेव मङ्गलं सर्वं लोकः समनुवर्तते ।। ।।
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् . 
भयमाहुर्दिवारात्रं यदा पापो  वार्यते ।। ।।
 वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः . 
 यज्ञांस्तन्वते विप्रा यदा पापो  वार्यते ।। ।।
वध्यानामिव सर्वेषां मनो भवति विह्वलम् . 
मनुष्याणां महाराज यदा पापो  वार्यते ।। १०।।
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् . 
असृजन्सुमहद्भूतमयं धर्मो भविष्यति ।। ११।।
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते . 
यस्मिन्विलीयते धर्मं तं देवा वेषलं विदुः ।। १२।।
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् . 
वृषलं तं विदुर्देवास्तस्माद्धर्मं  लोपयेत् ।। १३।।
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा . 
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ।। १४।।
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः . 
अकार्याणां मनुष्येन्द्र  सीमान्त करः स्मृतः ।। १५।।
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयं भुवा . 
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रह कारणात् ।। १६।।
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः . 
 राजा यः प्रजाः शास्ति साधु कृत्पुरुषर्षभः ।। १७।।
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् . 
धर्मः श्रेयः करतमो राज्ञां भरतसत्तम ।। १८।।
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा . 
ब्राह्मणानां  मान्धातः कामान्कुर्यादमत्सरी ।। १९।।
तेषां ह्यकाम करणाद्राज्ञः सञ्जायते भयम् . 
मित्राणि   वर्धन्ते तथामित्री भवन्त्यपि ।। २०।।
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः . 
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ।। २१।।
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् . 
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ।। २२।।
एतत्फलमसूयाया अभिमानस्य चाभिभो . 
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ।। २३।।
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः . 
तेन देवासुरा राजन्नीताः सुबहुशो वशम् ।। २४।।
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव . 
राजा भवति तं जित्वा दासस्तेन पराजितः ।। २५।।
 यथा दर्पसहितमधर्मं नानुसेवते . 
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ।। २६।।
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः . 
तदभ्यासादुपावर्तादहितानां  सेवनात् ।। २७।।
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः . 
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ।। २८।।
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां  वर्जयेत् . 
अत्यायं चाति मानं  दम्भं क्रोधं  वर्जयेत् ।। २९।।
अविज्ञातासु  स्त्रीषु क्लीबासु स्वैरिणीषु  . 
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ।। ३०।।
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् . 
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ।। ३१।।
एते चान्ये  जायन्ते यदा राजा प्रमाद्यति . 
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ।। ३२।।
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् . 
अधर्माः सम्प्रवर्तन्ते प्रजा सङ्करकारकाः ।। ३३।।
अशीते विद्यते शीतं शीते शीतं  विद्यते . 
अवृष्टिरति वृष्टिश्च व्याधिश्चाविशति प्रजाः ।। ३४।।
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे . 
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ।। ३५।।
अरक्षितात्मा यो राजा प्रजाश्चापि  रक्षति . 
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ।। ३६।।
द्वावाददाते ह्येकस्य द्वयोश्  बहवोऽपरे . 
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् ।। ३७।।
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते . 
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ।। ३८।।
कालवर्षी  पर्जन्यो धर्मचारी  पार्थिवः . 
सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ।। ।।
यो  जानाति निर्हन्तुं वस्त्राणां रजको मलम् . 
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ।। ।।
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि . 
शूद्राश्चतुर्णां वर्णानां नाना कर्मस्ववस्थिताः ।। ।।
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि . 
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ।। ।।
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् . 
शीलदोषान्विनिर्हन्तुं  पिता  प्रजापतिः ।। ।।
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ . 
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ।। ।।
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव  . 
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ।। ।।
राजैव कर्ता भूतानां राजैव  विनाशकः . 
धर्मात्मा यः  कर्ता स्यादधर्मात्मा विनाशकः ।। ।।
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा . 
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ।। ।।
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतर गर्दभाः . 
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ।। १०।।
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते . 
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ।। ११।।
यच्च भूतं  भजते भूता ये  तदन्वयाः . 
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ।। १२।।
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य  . 
अविषह्य तमं मन्ये मा स्म दुर्बलमासदः ।। १३।।
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् . 
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः  बान्धवम् ।। १४।।
 हि दुर्बलदग्धस्य कुले किं चित्प्ररोहति . 
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ।। १५।।
अबलं वै बलाच्छ्रेयो यच्चाति बलवद्बलम् . 
बलस्याबल दग्धस्य  किं चिदवशिष्यते ।। १६।।
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति . 
अमानुष कृतस्तत्र दण्डो हन्ति नराधिपम् ।। १७।।
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् . 
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ।। १८।।
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् . 
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ।। १९।।
यदि नात्मनि पुत्रेषु  चेत्पौत्रेषु नप्तृषु . 
 हि पापं कृतं कर्म सद्यः फलति गौरिव ।। २०।।
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति . 
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ।। २१।।
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव . 
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ।। २२।।
राज्ञो यदा जनपदे बहवो राजपूरुषाः . 
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ।। २३।।
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा . 
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ।। २४।।
महावृक्षो जायते वर्धते  
तं चैव भूतानि समाश्रयन्ति . 
यदा वृक्षश्छिद्यते दह्यते वा 
तदाश्रया अनिकेता भवन्ति ।। २५।।
यदा राष्ट्रे धर्ममग्र्यं चरन्ति 
संस्कारं वा राजगुणं ब्रुवाणाः . 
तैरेवाधर्मश्चरितो धर्ममोहात् 
तूर्णं जह्यात्सुकृतं दुष्कृतं  ।। २६।।
यत्र पापा ज्यायमानाश् चरन्ति 
सतां कलिर्विन्दति तत्र राज्ञः . 
यदा राजा शास्ति नरान्नशिष्यान् 
 तद्राज्ञ्य वर्धते भूमिपाल ।। २७।।
यश्चामात्यं मानयित्वा यथार्हं 
मन्त्रे  युद्धे  नृपो नियुज्ञ्यात् . 
प्रवर्धते तस्य राष्ट्रं नृपस्य 
भुङ्क्ते महीं चाप्यखिलां चिराय ।। २८।।
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् . 
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ।। २९।।
संविभज्य यदा भुङ्क्ते  चान्यानवमन्यते . 
निहन्ति बलिनं दृप्तं  राज्ञो धर्म उच्यते ।। ३०।।
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा . 
पुत्रस्यापि  मृष्येच्च  राज्ञो धर्म उच्यते ।। ३१।।
यदा शारणिकान्राजा पुत्र वत्परिरक्षति . 
भिनत्ति   मर्यादां  राज्ञो धर्म उच्यते ।। ३२।।
यदाप्त दक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः . 
कामद्वेषावनादृत्य  राज्ञो धर्म उच्यते ।। ३३।।
कृपणानाथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै . 
हर्षं सञ्जनयन्नॄणां  राज्ञो धर्म उच्यते ।। ३४।।
विवर्धयति मित्राणि तथारींश्चापकर्षति . 
सम्पूजयति साधूंश्च  राज्ञो धर्म उच्यते ।। ३५।।
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति . 
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ।। ३६।।
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ . 
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ।। ३७।।
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः . 
संयच्छन्भवति प्राणान्न संयच्छंस्तु पापकः ।। ३८।।
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य  . 
यदा सम्यक्प्रगृह्णाति  राज्ञो धर्म उच्यते ।। ३९।।
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः . 
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ।। ४०।।
सहस्राक्षेण राजा हि सर्व एवोपमीयते . 
 पश्यति हि यं धर्मं  धर्मः पुरुषर्षभ ।। ४१।।
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् . 
भूतानां सत्त्वजिज्ञासां साध्वसाधु  सर्वदा ।। ४२।।
सङ्ग्रहः सर्वभूतानां दानं  मधुरा  वाक् . 
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ।। ४३।।
 जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् . 
भरो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ।। ४४।।
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् . 
 हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ।। ४५।।
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः . 
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणाम् अपि ।। ४६।।
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् . 
स्वदेशे परदेशे वा  ते धर्मो विनश्यति ।। ४७।।
धर्मश्चार्थश्च कामश्  धर्म एवोत्तरो भवेत् . 
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ।। ४८।।
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः . 
सङ्ग्रहश्चैव भूतानां दानं  मधुरा  वाक् ।। ४९।।
अप्रमादश्च शौचं  तात भूतिकरं महत् . 
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ।। ५०।।
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः . 
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ।। ५१।।
एतद्वृत्तं वासवस्य यमस्य वरुणस्य  . 
राजर्षीणां  सर्वेषां तत्त्वमप्यनुपालय ।। ५२।।
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् . 
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ।। ५३।।
धर्मवृत्तं हि राजानं प्रेत्य चेह  भारत . 
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ।। ५४।।
 एवमुक्तो मान्धाता तेनोतथ्येन भारत . 
कृतवानविशङ्कस्तदेकः प्राप  मेदिनीम् ।। ५५।।
भवानपि तथा सम्यङ्मान्धातेव महीपतिः . 
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ।। ५६।।
 ।। इति उतथ्यगीता समाप्ता ।।
।। श्री  ऋभुगीता ।।
प्रथमोऽध्यायः ।
 
        श्री गुरुमूर्तिः ।
 
पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव ।
येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् ।। १। ०१।।
 
विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम् ।
ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना ।। १। ०२।।
 
          निदाघः ।
 
आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो ।
येन संसारपादोधिं तरिष्यामि सुखेन वै ।। १। ०३।।
 
ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् ।
सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः ।। १। ०४।।
 
          ऋभुः ।
 
सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः ।
सर्वकारणकार्यात्मा कार्यकारणवर्जितः ।। १। ०५।।
 
सर्वसंकल्परहितस्सर्वनादमयश्शिवः ।
सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः ।। १। ०६।।
 
सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः ।
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ।। १। ०७।।
 
सर्वनादकलातीत एष आत्माऽहमव्ययः ।
आत्मानात्मविवेकादि भेदाभेदविवर्जितः ।। १। ०८।।
 
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः ।
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः ।। १। ०९।।
 
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ।। १। १०।।
 
अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः ।
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ।। १। ११।।
 
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।
सच्चिदानन्दहीनो य एषैवात्मा सनातनः ।। १। १२।।
 
ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः ।
यस्य किन्चिद्बहिर्नास्ति किन्चिदन्तः कियन्नच ।। १। १३।।
 
यस्य लिगं प्रपंचं वा ब्रह्मैवात्मा न संशयः ।
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ।। १। १४।।
 
नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा ।
स्द्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् ।। १। १५।।
 
गुणं वा विगुणं वाऽपि सम आसीन् न संशयः ।
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ।। १। १६।।
 
गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः ।
यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि ।। १। १७।।
 
यत्र कालमकालं वा निश्चयं संशयं नहि ।
यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते ।। १। १८।।
 
द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् ।
अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा ।। १। १९।।
 
अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु ।
सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् ।। १। २०।।
 
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ।
देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ।। १। २१।।
 
लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् ।
चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च ।। १। २२।।
 
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च ।
मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम् ।। १। २३।।
 
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।
अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि ।। १। २४।।
 
एकाभावे द्वितीयं न न द्वितीये नचैकता ।
सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत् ।। १। २५।।
 
असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति ।
शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते ।। १। २६।।
 
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता ।। १। २७।।
 
मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच ।
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।। १। २८।।
 
इदं यदि तदेवास्ति तदभावादिदं न च ।
अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किन्चन ।। १। २९।।
 
कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम् ।
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च ।। १। ३०।।
 
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ।
अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच ।। १। ३१।।
 
पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते ।
तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ।। १। ३२।।
 
नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे ।
परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि ।। १। ३३।।
 
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ।
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ।। १। ३४।।
 
इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् ।
चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा ।। १। ३५।।
 
न प्रपंचं न चित्तदि नाहंकारो न जीवकः ।
मायाकार्यादिकं नास्ति माया नास्ति भयं न च ।। १। ३६।।
 
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि ।
समाधि द्वितयं नास्ति मातृमानादि नास्ति हि ।। १। ३७।।
 
अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न ।
अनुबन्धचतुष्कं न संबन्धत्रयमेव न ।। १। ३८।।
 
न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि ।
न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् ।। १। ३९।।
 
न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् ।
न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम् ।। १। ४०।।
 
नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न ।
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ।। १। ४१।।
 
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि ।। १। ४२।।
 
चिदित्येवेति नास्त्येव चिदहं भाषणं नहि ।
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित् ।। १। ४३।।
 
वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित् ।
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ।। १। ४४।।
 
योगियोगादिकं नास्ति सदा सर्वं सदा न च ।
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ।। १। ४५।।
 
भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु ।
वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः ।। १। ४६।।
 
लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ।
वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् ।। १। ४७।।
 
मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः ।
बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित् ।। १। ४८।।
 
शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते ।
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ।। १। ४९।।
 
त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च ।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ।। १। ५०।।
 
इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते ।
यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः ।। १। ५१।।
 
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ।
सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु ।। १। ५२।।
 
मदीयं च त्वदीयं च ममेति च तवेति च ।
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ।। १। ५३।।
 
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ।
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ।। १। ५४।।
 
स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् ।
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम् ।। १। ५५।।
 
अन्तःकरण सद्भावोऽविद्यायाश्च संभवः ।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ।। १। ५६।।
 
सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता ।
दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते ।। १। ५७।।
 
वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु ।
येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् ।। १। ५८।।
 
येनेकेनापि गदितं येनेकेनापि मोदितम् ।
येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् ।। १। ५९।।
 
यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् ।
यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु ।। १। ६०।।
 
इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ।। १। ६१।।
 
     श्री गुरुमूर्तिः ।
 
एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः ।
ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये ।। १। ६२।।
 
     निदाघः ।
 
स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना ।
प्रपंचितेन न फलं भवेदिति मे मतिः ।। १। ६३।।
 
यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम् ।
अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो ।। १। ६४।।
 
ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा ।
तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः ।। १। ६५।।
 
फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः ।
त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते ।। १। ६६।।
 
यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता ।
हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति ।। १। ६७।।
 
शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम् ।
अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः ।। १। ६८।।
 
अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो ।
यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् ।। १। ६९।।
 
एवम् उक्तो निदाघेन कुशाग्रमतिना परम् ।
ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् ।। १। ७०।।
 
     ऋभुः ।
 
निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम् ।
तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः ।। १। ७१।।
 
सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम् ।
ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम् ।। १। ७२।।
 
तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः ।
तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः ।। १। ७३।।
 
जीवेश्वरविभागेन सगुणं द्विविधं भवेत् ।
जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा ।। १। ७४।।
 
उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः ।
तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः ।। १। ७५।।
 
हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः ।
मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः ।। १। ७६।।
 
इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता ।
तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता ।। १। ७७।।
 
मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति ।
तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् ।। १। ७८।।
 
अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि ।
शशशृंगसमानत्वं निदाघाशक्यमीरितुम् ।। १। ७९।।
 
विशेषसत्ताऽभावेपि सत्तासामान्यता यतः ।
निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् ।। १। ८०।।
 
अथवा शशशृंगादि सादृश्यं भवतु स्वतः ।
सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत ।। १। ८१।।
 
न तावता विरोधोस्ति कश्चिदप्यधुना तव ।
संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया ।। १। ८२।।
 
।। इति  श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ।।
 द्वितीयोऽध्यायः ।
 अथातस्संप्रवक्ष्यामि निदाघ शृणु सादरम् ।
संसारमोक्षसिद्ध्यर्थं सरूपं ब्रह्म निर्गुणम्  ।। २। ०१ ।।
 
तत्त्वमस्यादिवाक्यैर्यल्लक्ष्यं जीवादिकारणम् ।
नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम् ।। २। ०२ ।।
 
यत्सर्ववेदसिद्धान्तं यज्ज्ञानेनैव मुक्तता ।
जीवस्य यच्च संपूर्णं तत्त्वमेवासि निर्मलम् ।। २। ०३ ।।
 
त्वमेव परमात्मासि त्वमेव परमोगुरुः ।
त्वमेवाकाशरूपोसि साक्षिहीनोसि सर्वदा ।। २। ०४ ।। 
 
त्वमेव सर्वभावोसि त्वं ब्रह्मासि नसंशयः ।
कालहीनोसि कालोसि सदा ब्रह्मासि चिद्घनः ।। २। ०५ ।।
 
सर्वतस्सर्वरूपोसि चैतन्यघनवानसि ।
सर्वभूतान्तरस्थोसि कर्माध्यक्षोसि निर्गुणः ।। २। ०६ ।।
 
सत्योसि सिद्धोसि सनातनोसि मुक्तोसि मोक्षोसि मुदाऽमृतोसि ।
देवोसि शान्तोसि निरामयोसि ब्रह्मासि पूर्णोसि परात्परोसि ।। २। ०७ ।।
 
समोसि सच्चसि चिरन्तनोसि सत्यादिवक्यैः प्रतिबोधितोसि ।
सर्वाङ्गहीनोसि सदास्थितोसि ब्रह्मेन्द्ररुद्रादिविभावितोसि ।। २। ०८ ।।
 
सर्वप्रपंचभ्रमवर्जितोसि सर्वेषु भूतेषु च भावितोसि ।
सर्वत्र सङ्कल्पविवर्जितोसि सर्वागमान्तार्थविभावितोसि ।। २। ०९ ।।
 
सर्वत्र सन्तोषसुखासनोसि सर्वत्र गत्यादिविवर्जितोसि ।
सर्वत्र लक्ष्यादि विवर्जितोसि ध्यातोसि विष्ण्वादिसुरैरजस्रम् ।। २। १० ।।
 
चिदाकार स्वरूपोसि चिन्मात्रोसि निरङ्कुशः ।
आत्मन्येव स्थितोसि त्वं सर्वशून्योसि निश्चलः ।। २। ११ ।।
 
आनन्दोसि परोसि त्वमेकमेवाद्वितीयकः । 
चिद्घनानन्दरूपोसि परिपूर्णस्वरूपकः ।। २। १२ ।।
 
सदसि त्वमभिज्ञोसि सोसि जानासि वीक्ष्यसि । 
सच्चिदानन्दरूपोसि वासुदेवोसि वै प्रभुः ।। २। १३ ।।
 
अमृतोसि विभुश्चसि चञ्चलोस्यचलोह्यसि । 
सर्वोसि सर्वहीनोसि शान्ताशान्तविवर्जितः ।। २। १४ ।।
 
सत्तामात्रप्रकाशोसि सत्तासामान्यकोह्यसि ।
नित्यसिद्धस्वरूपोसि सर्वसिद्धिविवर्जितः ।। २। १५ ।।
 
ईषण्मात्रविशून्योसि ह्यणुमात्रविवर्जितः । 
अस्तित्ववर्जितोसि त्वं नास्तित्वादिविवर्जितः ।। २। १६ ।।
 
लक्ष्यलक्षणहीनोसि निर्विकारो निरामयः । 
सर्वनादान्तरोसि त्वं कलाकाष्ठादिवर्जितः ।। २। १७ ।।
 
ब्रह्मविष्ण्वीशहीनोसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपावशेषोसि स्वानन्दाब्धौ निमज्जसि ।। २। १८ ।।
 
स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः । 
शिष्टपूर्णस्वरूपोसि स्वस्मात्किञ्चिन्नपश्यसि ।। २। १९ ।। 
 
स्वस्वरूपान्नचलसि स्वस्वरूपेण जृंभसि ।
स्वस्वरूपादनन्योसि ह्यहमेवासि निश्चिनु ।। २। २० ।।
 
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ।। २। २१ ।।
 
लक्ष्यलक्षणहीनत्वाद्युक्त्यानिष्प्रतियोगिकम् ।
न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु ।। २। २२ ।।
 
निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् ।
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु ।। २। २३ ।। 
 
आत्मस्त्वं सच्चिदानन्दलक्ष्णैर्लक्ष्यमद्वयम् ।
ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय ।। २। २४ ।।
 
देहोऽहमिति सङ्कल्पस्तदन्तःकरणं  स्मृतम् ।
देहोऽहमिति सङ्कल्पो महान् संसार उच्यते ।। २। २५ ।।
 
देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते ।
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोचय्ते ।। २। २६ ।।
 
देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।
देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते ।। २। २७ ।।
 
देहोऽहमिति सङ्कल्पो हृदयग्रन्धिरीरितः ।
देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेवच ।। २। २८ ।।
 
देहोऽहमिति यद्बुद्धिः साचविद्येति भण्यते ।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ।। २। २९ ।।
 
देहोऽहमिति सङ्कल्पस्सत्यजीवस्स एव च ।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ।। २। ३० ।।
 
देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् ।
देहोऽहमिति या बुद्धिस्तृष्णादोषाऽऽमयः किल ।। २। ३१ ।।
 
यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् ।
तच्च सर्वं मनुष्याणां मानसं हि निगद्यते ।। २। ३२ ।।
 
कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् ।
यत्किञ्चेदं सर्वसङ्कल्पजातं तत्किञ्चेदं मानसं सोम्य विद्धि ।। २। ३३ ।।
 
मन एव जगत्सर्वं मन एव महारिपुः ।
मन एव हि संसारो मन एव जगत्त्रयम् ।। २। ३४ ।।
 
मन एव महद्दुःखं मन एव जरादिकम् ।
मन एव हि कालश्च मन एव मलं तथा ।। २। ३५ ।।
 
मन एव हि सङ्कल्पो मन एव च जीवकः ।
मन एव हि चित्तं च मनोऽहङ्कार एव च ।। २। ३६ ।।
 
मन एव महान् बन्धो मनोऽन्तःकरणं च तत् ।
मन एव हि भूमिश्च मन एव हि तज्जलम् ।। २। ३७ ।।
 
मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चकाशो मन एव हि शब्दकः ।। २। ३८ ।।
 
स्पर्शरूपरसा गन्धः कोशाः पञ्च मनोभवाः ।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् ।। २। ३९ ।।
 
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ।। २। ४० ।।
 
सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु ।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं निहि ।। २। ४१ ।।
 
व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् ।
परमार्थदशायां तत् कथं मुक्तौ प्रसिद्ध्यति ।। २। ४२ ।।
 
मुक्त्यतीत दशायां च प्रोच्यते परमार्थता ।
तथाप्यसत्यहंतृत्वान्मुक्तेरेवास्ति मुख्ययाः ।। २। ४३ ।।
 
मनसा कल्पितं सर्वं मनसा परिपालितम् ।
मनसा संस्मृतं तस्मान्मन एवास्ति कारणम् ।। २। ४४ ।।
 
मनसा संस्मृतं सर्वं मनसैव च विस्मृतम् ।
मनसा भावितं सर्वं मनसैव ह्यभावितं ।। २। ४५ ।।
 
मनसा दूषितं सर्वं मनसैव च भूषितम् ।
मनसा सुखवृत्तिस्स्यान्मनसा दुःखसञ्चयः ।। २। ४६ ।।
 
तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि ।
त्वयि सच्चित्सुखांबोधौ कल्पितं विद्धि मायया ।। २। ४७ ।।
 
त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः ।
त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् ।। २। ४८ ।।
 
तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः ।
मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् ।। २। ४९ ।।
 
नित्यबोधस्वरूपस्त्वं ह्यबोधप्रतियोगिकः ।
त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा ।। २। ५० ।।
 
ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि ।
तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता ।। २। ५१ ।।
 
मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः ।
सन्मयश्चिन्मयश्चत्मा तथानन्दमयो यतः ।। २। ५२ ।।
 
चिद्रूपस्य तवात्मत्वादनात्मानस्त्वचिन्मयाः ।
अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे ।। २। ५३ ।।
 
विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः ।
विलये निर्विकारस्त्वं विद्यावानवशिष्यसे ।। २। ५४ ।।
 
बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः ।
यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् ।। २। ५५ ।।
 
शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् ।
शेषिणस्तु तवान्यत्वान्न शेषस्यास्ति नित्यता ।। २। ५६ ।।
 
शेषिणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेषिता ।
इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः ।। २। ५७ ।।
 
स्वस्यैष महिमा सर्वव्यापकत्वादिलक्षणः ।
सर्वशृत्यादि संसिद्धः काभीर्हीयेत युक्तिभिः ।। २। ५८ ।।
 
व्याप्यसापेक्षता तस्य व्यापकस्येतिचेच्छृणु ।
व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् ।। २। ५९ ।।
 
व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा ।
व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु ।। २। ६० ।।
 
विकारालंबनाभावात्स्वालंबनतयापि च ।
सर्वालंबनता सिद्धा न स्वहानेश्च सङ्गतिः ।। २। ६१ ।।
 
सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः ।
स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् ।। २। ६२ ।।
 
सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते ।
तथात्मनोपि कश्चित्स्यादिति चेद्बाढमुच्यते ।। २। ६३ ।।
 
आत्मैवात्मन आधार आत्मन्येवात्मनस्स्थितेः ।
अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चश्रयः ।। २। ६४ ।।
 
आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता ।
इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् ।। २। ६५ ।।
 
यथा भवति देहस्य प्राण एवाश्रयः पुनः ।
प्राणस्य चश्रयो देहस्तथात्माऽनात्मनोरपि ।। २। ६६ ।।
 
अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि ।
इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः ।। २। ६७ ।।
 
आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते ।
परमार्थदशायां तु स्वस्मादन्यन्नविद्यते ।। २। ६८ ।।
 
आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते ।
स किं नित्योस्त्यनित्योवेत्येवं प्रश्ने तु कथ्यते ।। २। ६९ ।।
 
लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः ।
तावत्तस्याविनाशित्वान्नित्य एवेति निर्णयः ।। २। ७० ।।
 
पश्चदनित्यतायाश्च तव प्रष्टुरभावतः ।
स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते ।। २। ७१ ।।
 
आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् ।
द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते ।। २। ७२ ।।
 
दृश्यत्वे तु घटादीनामिवस्याद्विषयात्मता ।
दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते ।। २। ७३ ।।
 
असंसारी परात्माऽसौ स्वयं निर्विषयस्तथा ।
चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु ।। २। ७४ ।।
 
द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षितृत्वतः ।
दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः ।। २। ७५ ।।
 
दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै ।
संसारित्वादयो दोषाः प्रसज्यन्ते न तत्र वै ।। २। ७६ ।।
 
असंसारिणमात्मानं संसार्यात्मा यदि स्वयं ।
पश्येत्तदाक्षिरोगी संप्रपश्येच्च निरङ्कुशम् ।। २। ७७ ।।
 
असम्भवानि सर्वाणि संभवेयुश्च वैदिकाः ।
सिद्धान्तानियमापेतास्स्वेच्छाव्याहार संभवात् ।। २। ७८ ।।
 
इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः ।
विशुद्धसत्वसंपन्नस्संसारी निर्मलो हि सः ।। २। ७९ ।।
 
यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः ।
उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते ।। २। ८० ।।
 
जीवस्य यदि संसारो ब्रह्मणस्तदभावतः ।
ब्रह्मात्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु ।। २। ८१ ।।
 
उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहम् ।
ततस्तत्त्वोपदेशेस्मिन् निदाघास्त्यनवद्यता ।। २। ८२ ।।
 
तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणम् ।
ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयम् ।। २। ८३ ।।
 
मुक्त्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणम् ।
नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर ।। २। ८४ ।।
 
।। इति  श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ।।
 तृतीयोऽध्यायः 
 
पुनर्ज्ञानं प्रवक्ष्यामि निदाघ शृणु सादरम् ।
ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत् ।। ३। ०१ ।।
 
सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।
सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् ।। ३। ०२ ।।
 
सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ।। ३। ०३ ।।
 
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।
मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ।। ३। ०४ ।।
 
न त्वं नाहं नचन्यद्वा सर्वं ब्रह्मैव केवलम् ।
न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ।। ३। ०५ ।।
 
न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् ।
न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ।। ३। ०६ ।।
 
न देहं न मुखं घ्राणं न जिह्वा न च तालुनी ।
न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ।। ३। ०७ ।।
 
न स्वेदमस्थिमासं च न रक्तं न च मूत्रकम् ।
न दूरं नान्तिकं नाहं नोदरं न किरीटकम् ।। ३। ०८ ।।
 
न हस्तपादचलनं न शास्त्रं न च शासनम् ।
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ।। ३। ०९ ।।
 
तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् ।
नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ।। ३। १० ।।
 
न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः ।
न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम् ।। ३। ११ ।।
 
त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा ।
न पीनं न कृशं क्लेदं न कालं देशभाषणम् ।। ३। १२ ।।
 
न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः ।
न ध्यानं योगसंसिद्धिर्नब्रह्मक्षत्रवैश्यकम् ।। ३। १३ ।।
 
न पक्षी न मृगो नागी न लोभो मोह एव च ।
न मदो न च मात्सर्यं कामक्रोधादयस्तथा ।। ३। १४ ।।
 
न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् ।
न प्रौढहीननास्तिक्यं न वार्तावसरोस्ति हि ।। ३। १५ ।।
 
न लौकिको न लोकोवा न व्यापारो न मूढता ।
न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् ।। ३। १६।।
 
न शत्रुमित्रपुत्रादि न माता न पिता स्वसा्र
न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ।। ३। १७ ।।
 
न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः ।
न रात्रिर्नदिवा नक्तं न ब्रह्मा न हरिश्शिवः ।। ३। १८ ।।
 
न वारपक्षमासादि वत्सरं न च चञ्चलम् ।
न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः ।। ३। १९ ।।
 
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चग्निकः ।
न यमो न यमलोको वा न लोका लोकपालकाः ।। ३। २० ।।
 
न भूर्भुवस्स्वस्त्रैलोक्यं न पाताळं न भूतलं ।
नाविद्या न च विद्या च न माया प्रकृतिर्न च ।। ३। २१ ।।
 
न स्थिरं क्षणिकं नाशो न गतिर्न च धावनम् ।
न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् ।। ३। २२ ।।
 
न पदार्थं न पूजार्हं नाभिषेकं न चर्चनं ।
न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ।। ३। २३ ।।
 
न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि ।
न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनम् ।। ३। २४ ।।
 
न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् ।
न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ।। ३। २५ ।।
 
न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः ।
न दुस्सहं दुरालापं न किरातो न कैतवम् ।। ३। २६ ।।
 
न पक्षपातं पक्षं वा न विभूषणतस्करौ ।
न च डंभो डांभिको वा न हीनो नाधिको नरः ।। ३। २७ ।।
 
नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता ।
न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ।। ३। २८ ।।
 
न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता ।
न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका ।। ३। २९ ।।
 
न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
न महावाक्यमैक्यं वा नाणिमादिविभूतयः ।। ३। ३० ।।
 
एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै ।
निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः ।। ३। ३१ ।।
 
ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनं ।
असन्निषेधरूपं सद्विधिरूपं च तत्र तु ।। ३। ३२ ।।
 
आत्मा निषेधरूपेण तुभ्यं संप्रतिपादितः ।
अथाद्य विधिरूपेण शृणु संप्रतिपाद्यते ।। ३। ३३ ।। 
 
सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदानहि ।
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् ।। ३। ३४ ।।
 
ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा ।
तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ।। ३। ३५ ।।
 
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् ।। ३। ३६ ।।
 
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः ।। ३। ३७ ।।
 
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् ।। ३। ३८ ।।
 
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ।। ३। ३९ ।।
 
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः ।। ३। ४० ।।
 
लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ।। ३। ४१ ।।
 
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ।। ३। ४२ ।।
 
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् ।। ३। ४३ ।।
 
नित्यनिर्मलरूपात्मा ह्यात्मनोन्यन्न किञ्चन ।
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ।। ३। ४४ ।।
 
अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।
अणुमात्रं मनश्चित्तमणुमत्राप्यहङ्कृतिः ।। ३। ४५ ।।
 
अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम् ।
अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम् ।। ३। ४६ ।।
 
ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।
आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन ।। ३। ४७ ।।
 
चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयम् ।
अहमेव जगत्सर्वमहमेव परंपदम् ।। ३। ४८ ।।
 
अहमेव गुणातीतोस्म्यहमेव परात्परः ।
अहमेव परंब्रह्म ह्यहमेव गुरोर्गुरुः ।। ३। ४९ ।।
 
अहमेवाखिलाधारोस्म्यहमेव सुखात्सुखम् ।
आत्मनोन्यज्जगन्नास्ति ह्यात्मनोन्यत्सुखं न च ।। ३। ५० ।।
 
आत्मनोन्या गतिर्नास्ति सर्वमात्ममयं जगत् ।
आत्मनोन्यन्नहि क्वापि आतमनोन्यत्तृणं न हि ।। ३। ५१ ।।
 
आत्मनोन्यत्तुषं नास्ति सर्वमात्ममयं जगत् ।
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ।। ३। ५२ ।।
 
ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम् ।
ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् ।। ३। ५३ ।।
 
ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयंम् ।
ब्रह्मणोन्यतरं नास्ति ब्रह्मणोन्यन्न किञ्चन ।। ३। ५४ ।।
 
ब्रह्मणोन्यदहं नास्ति ब्रह्मणोन्यत्फलं नहि ।
ब्रह्मणोन्यत्पदं नास्ति ब्रह्मणोन्यत्पदं नहि ।। ३। ५५ ।।
 
ब्रह्मणोन्यद्गुरुर्नास्ति ब्रह्मणोन्यदसद्वपुः ।
ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन हि क्वचित् ।। ३। ५६ ।।
 
स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन ।
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ।। ३। ५७ ।।
 
यत्किञ्चित्क्रियते नित्यं यत्किञ्चिद्गम्यते जनैः ।
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ।। ३। ५८ ।।
 
कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ।
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ।। ३। ५९ ।।
 
कालभेदं देशभेदं वस्तुभेदं जयाजयम् ।
यद्यद्भेदं च तत्सर्वमसदेवहि केवलम् ।। ३। ६० ।।
 
असदन्तःकरणमसदेवेन्द्रियादिकम् ।
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ।। ३। ६१ ।।
 
असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः ।
असत्यं षड्विकारादि ह्यसत्यमरिवर्गकम् ।।३। ६२ ।।
 
असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा ।
सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः ।। ३। ६३ ।।
 
सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत् ।
आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः ।। ३। ६४ ।।
 
सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः ।
अहमेव परानन्दोऽस्म्यहमेव परात्परः ।। ३। ६५ ।।
 
ज्ञानाकारमिदं सर्वं ज्ञानानन्दोहमद्वयः ।
ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः ।। ३। ६६ ।।
 
येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः ।
ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते ।।३। ६७ ।।
 
ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं वृत्तिरित्यपि ।
अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्कम् ।। ३। ६८ ।।
 
यथा ज्ञानं विना लोके किञ्चिदेव न सिद्ध्यति ।
तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति ।। ३। ६९ ।।
 
ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ष्मणि ।
सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात् ।। ३। ७० ।।
 
ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भवस्तथा ।
दृष्टस्सर्वत्र लोकेस्मिन् दुर्लभोहि विपर्ययः ।। ३। ७१ ।।
 
ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम् ।
प्रज्ञामात्रमिदं सूक्ष्मं कोऽपि जानाति पुण्यकृत् ।। ३। ७२ ।।
 
प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः ।
प्रज्ञामात्रेण सन्तिष्टेत् स प्रज्ञावानितीर्यते ।। ३। ७३ ।।
 
बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः ।
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ।। ३। ७४ ।।
 
प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रमिन्द्रियम् ।
अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः ।। ३। ७५ ।।
 
प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् ।
प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय ।। ३। ७६ ।।
 
प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु ।
प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय ।। ३। ७७ ।।
 
न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना ।
विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय ।। ३। ७८ ।।
 
सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसञ्ज्ञिकाम् ।
ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् ।। ३। ७९ ।।
 
जाग्रदाद्यास्ववस्थासु या ज्ञप्तिस्त्रिसृषु स्वयम् ।
आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः ।। ३। ८० ।।
 
ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता ।
विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः ।। ३। ८१ ।।
 
ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् ।
ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् ।। ३। ८२ ।।
 
ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् ।
ज्ञप्तिरेव परातृप्तिर्ज्ञप्तिरेव परागतिः ।। ३। ८३ ।।
 
तस्मात्ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज ।
अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय ।। ३। ८४ ।।
 
अज्ञप्ति वोषयो जीवः कूटस्थो ज्ञप्ति गोचरः ।
हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः ।। ३। ८५ ।।
 
अहंप्रत्ययशब्दाभ्यां विज्ञेयो जीवसञ्ज्ञकः ।
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः ।। ३। ८६ ।।
 
यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः ।
त्वमहं शब्दयोरैक्यात्तत्साक्षी प्रत्यगाह्वयः ।। ३। ८७ ।।
 
अस्मत्प्रत्ययिनं साक्षिचैतन्यात्मकमद्वयम् ।
कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् ।। ३। ८८ ।।
 
जहि ज्ञात्वा तदन्यं त्वमहंप्रत्ययिनं बहिः ।
साक्ष्यं जीवं चिदाभासं  पराञ्चं विषयं स्वतः ।। ३। ८९ ।। 
 
दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः ।
विवेकेन परं सौख्यं निदाघ व्रज सन्ततम् ।। ३। ९० ।।
 
।। इति  श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः ।।
 
 चतुर्थोऽध्यायः 
 
पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम् ।
तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। ४। ०१ ।।
 
ऊर्णनाभिर्यथातन्तून् सृजते संहरत्यपि ।
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ।। ४। ०२ ।।
 
नेत्रे जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ।। ४। ०३ ।।
 
यतो वचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः ।। ४। ०४ ।।
 
सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम् ।
आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदं ।। ४। ०५ ।।
 
     श्री गुरुमूर्तिः ।
 
ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः ।
पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा ।। ४। ०६ ।।
 
     निदाघः ।
 
भगवन् भवता पूर्वं यतोवाच इति श्रुतेः ।
आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते ।। ४। ०७ ।।
 
आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यपि ।
श्रुतौ तथापि हेयत्वान्नतदीयो भवेद्धि सः ।। ४। ०८ ।।
 
नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते ।
नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत् ।। ४। ०९ ।।
 
एवं पृष्टो मुनिश्रेष्टो निदाघेन महात्मना ।
ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात् ।। ४। १० ।।
 
ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम् ।
मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् ।। ४। ११ ।।
 
पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत् ।
श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु ।। ४। १२ ।।
 
उपसंक्रमितव्यो यदानन्दमय उच्यते ।
वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः ।। ४। १३ ।।
 
तस्मात्स्वयं सदापूर्णः पञ्चमस्य विकारिणः ।
आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः ।। ४। १४ ।।
 
भृगवे वरुणेनैवं तैत्तिरीयाभिदश्रुतौ ।
पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु ।। ४। १५ ।।
 
मयट्प्रयोगाभावेन हेतुना निर्विकारता ।
न शङ्क्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात् ।। ४। १६ ।।
 
अतष्षष्टं परंब्रह्म पञ्चमेनोपलक्षितम् ।
निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय ।। ४। १७ ।।
 
प्राचुर्यार्थकतायां तु  मयटो निर्विकारिणः ।
सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् ।। ४। १८ ।।
 
शारीरत्वाभिदानेन पूर्वानन्दमयस्य तु ।
विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च ।। ४। १९ ।।
 
नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते ।
उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात् ।। ४। २० ।।
 
उपसंक्रमणं चोक्तं मयडन्तस्य केवलम् ।
आनन्दस्य ततोन्यस्य न परात्मतया खलु ।। ४। २१ ।।
 
ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितम् ।
यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु ।। ४। २२ ।।
 
आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने ।
प्रारब्धान्ते पुच्छभूताऽरूपब्रह्माप्तिरिष्यते ।। ४। २३ ।।
 
प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोपि च ।
शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितम् ।। ४। २४ ।।
 
तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः ।
आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते ।। ४। २५ ।।
 
मोदप्रमोदयोश्चैवं सति वेद्यत्वमापतेत् ।
इतिचेन्नैष दोषोस्ति तयोर्ब्रह्मांशता यतः ।। ४। २६ ।।
 
ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः ।
उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते ।। ४। २७ ।।
 
स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः ।
तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि ।। ४। २८ ।।
 
न तावता त्रिपाच्छ्रुत्याद्यनुरोधेन निश्चितम् ।
स्वभेदं विदुषां किञ्चिच्छिद्यते मुक्तजन्मनाम् ।। ४। २९ ।।
 
सूक्ष्मबुद्ध्या विचरे हि स्वात्मभेदः प्रकाशते ।
अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु ।। ४। ३० ।।
 
एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः ।
जाग्रदाद्याः क्रमेणैतद्भेदं च शृणु सादरम् ।। ४। ३१ ।।
 
आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका ।
तृतीया सुप्तिरूपान्या तुरीया चित्सुखात्मिका ।। ४। ३२ ।।
 
आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः ।
तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः ।। ४। ३३ ।।
 
बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिथा स्थितः ।। ४। ३४ ।।
 
दक्षिणाक्षिमुखे विश्वो मनस्यतन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिथा देहे व्यवस्थितः ।। ४। ३५ ।।
 
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञस्त्रिथा भोगं निबोध च ।। ४। ३६ ।।
 
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिथा तृप्तिं निबोध च ।। ४। ३७ ।।
 
त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ।। ४। ३८ ।।
 
प्रभवस्सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ।। ४। ३९ ।।
 
विभूतिं प्रसवन्त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ।। ४। ४० ।।
 
इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ।। ४। ४१ ।।
 
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचपरे ।
देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा ।। ४। ४२ ।।
 
आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत ।
स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः ।। ४। ४३ ।। 
 
नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकं ।
न प्रज्ञानघनं प्रज्ञं  नाप्रज्ञं न च केवलम् ।। ४। ४४ ।।
 
इदंत्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम् ।
अचिन्त्याव्यवहार्यं चव्यपदेशं पृथक्तया ।। ४। ४५ ।।
 
एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवं ।
शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः ।। ४। ४६ ।।
 
स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः ।
तुर्यात्मज्ञानहीनानां न मुक्तिस्याद्कदाचन ।। ४। ४७ ।।
 
निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः ।। ४। ४८ ।।
 
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्यतः ।। ४। ४९ ।।
 
नात्मानं न परं चैव न सत्यं नापिचनृतं ।
प्राज्ञः किंच न संवेत्ति  तुर्यं तत्सर्वदृक्सदा ।। ४। ५० ।।
 
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते ।। ४। ५१ ।।
 
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ।। ४। ५२ ।।
 
अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ।। ४। ५३ ।।
 
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा ।। ४। ५४ ।।
 
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।। ४। ५५ ।।
 
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।। ४। ५६ ।।
 
     निदाघः ।
 
भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः ।
भवतोभिमतं तत्र संशयो मे भवत्यलम् ।। ४। ५७ ।।
 
     ऋभुः ।
 
द्वैतप्रपञ्चशून्येस्मिन् निर्गुणे पूर्णचिद्घने ।
ब्रह्मण्यद्वैतसंसिद्धिर्यतो नान्यत्र सर्वधा ।। ४। ५८ ।।
 
अतस्सरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः ।
ममैवाद्वैतवादित्वन्नारूपाद्वैतवादिनः ।। ४। ५९ ।।
 
द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे ।
नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत् ।। ४। ६० ।।
 
द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात् ।
निवृत्तिस्याद्यथादीपात्तमसो नत्वरूपतः ।। ४। ६१ ।।
 
अतो नाद्वैतसिद्धिस्यात्कथञ्चिदपि सत्तम ।
अरूपागोचरब्रह्मवादिनां तादृशे मते ।। ४। ६२ ।।
 
चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम् ।
नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम् ।। ४। ६३ ।।
 
यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिद्ध्यति ।
तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः ।। ४। ६४ ।।
 
वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते ।
कथमद्वैतशब्दोयं सावकाशो भवेन्मुने ।। ४। ६५ ।।
 
     निदाघः ।
 
देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते ।
तस्यौपनिषदत्वस्याव्यभिचरोस्त्यरूपिणः ।। ४। ६६ ।।
 
ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् ।
वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक ।। ४। ६७ ।।
 
     ऋभुः ।
 
अरूपब्रह्मविषयाश्श्ब्दास्सन्त्येव यद्यपि ।
तेनौपनिषदत्वं च कथञ्चित्तस्य सिद्ध्यति ।। ४। ६८ ।।
 
तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिद्ध्यति ।
रूढ्यर्थमात्रवत्त्वेनालक्षकत्वादयोगतः ।। ४। ६९ ।।
 
योगार्थवद्भिश्शब्दैर्हि लक्षकैर्वाचकैश्च वा ।
शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः ।। ४। ७० ।।
 
अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्श्रुतौ यतः ।
याज्ञवल्क्येन गार्ग्यै तन्नत्वं प्रष्टुमिहार्हसि ।। ४। ७१ ।।
 
तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः ।
सच्चिदानन्दपूर्वैस्त्वं मदुक्तं विद्धि मुक्तये ।। ४। ७२ ।।
 
जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै ।
स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः ।। ४। ७३ ।।
 
सुषुप्तौ कारणं देहमानन्दमयकोशकम् ।
तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितम् ।। ४। ७४ ।।
 
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
स्त्र्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति ।। ४। ७५ ।।
 
स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके ।
सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति ।। ४। ७६ ।।
 
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः ।
पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् ।। ४। ७७ ।।
 
आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ।
यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं ।। ४। ७८ ।।
 
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी ।। ४। ७९ ।।
 
यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ।। ४। ८० ।।
 
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते ।। ४। ८१ ।।
 
त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणस्साक्षि चिन्मात्रोहं सदाशिवः ।। ४। ८२ ।।
 
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम् ।। ४। ८३ ।।
 
अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।। ४। ८४ ।।
 
अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सश्रुणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चस्ति वेत्ता मम चित्सदाऽहं ।। ४। ८५ ।।
 
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचहम् ।
न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति ।। ४। ८६ ।।
 
न भूमिरापो मम वह्निरस्ति न चनिलोमेऽस्ति न चम्बरं च ।
एवं विदित्वा परमार्थरूपं गुहाशयं निष्कळमद्वितीयम् ।। ४। ८७ ।।
 
अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपम् ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वम् ।। ४। ८८ ।।
 
     श्री गुरुमूर्तिः ।
 
एवं श्रुत्वा निदाघस्स ऋभुवक्त्राद्यदार्थतः ।
ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे ।। ४। ८९ ।।
 
यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात् ।
त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत् ।। ४। ९० ।।
 
।। इति  श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ।।
 
 ।। ॐ तत्सत् ।।

Comments

Popular Posts

Send a message

Name

Email *

Message *