Skip to main content

अवधूत गीता r


source :google


।। अवधूत गीता ।।
अथ प्रथमोऽध्यायः ।।
ईश्वरानुग्रहादेव पुंसामद्वैतवासना ।
महद्भयपरित्राणाद्विप्राणामुपजायते ।। १।।
येनेदं पूरितं सर्वमात्मनैवाअत्मनात्मनि ।
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ।। २।।
पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् ।
कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः ।। ३।।
आत्मैव केवलं सर्वं भेदाभेदो न विद्यते ।
अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे ।। ४।।
वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च ।
अहमात्मा निराकारः सर्वव्यापी स्वभावतः ।। ५।।
यो वै सर्वात्मको देवो निष्कलो गगनोपमः ।
स्वभावनिर्मलः शुद्धः स एवायं न संशयः ।। ६।।
अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः ।
सुखं दुःखं न जानामि कथं कस्यापि वर्तते ।। ७।।
न मानसं कर्म शुभाशुभं मे
     न कायिकं कर्म शुभाशुभं मे ।
न वाचिकं कर्म शुभाशुभं मे
     ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ।। ८।।
मनो वै गगनाकारं मनो वै सर्वतोमुखम् ।
मनोऽतीतं मनः सर्वं न मनः परमार्थतः ।। ९।।
अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् ।
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् ।। १०।।
त्वमेवमेकं हि कथं न बुध्यसे
     समं हि सर्वेषु विमृष्टमव्ययम् ।
सदोदितोऽसि त्वमखण्डितः प्रभो
     दिवा च नक्तं च कथं हि मन्यसे ।। ११।।
आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम् ।
अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् ।। १२।।
न जातो न मृतोऽसि त्वं न ते देहः कदाचन ।
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः ।। १३।।
स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा ।
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ।। १४।।
संयोगश्च वियोगश्च वर्तते न च ते न मे ।
न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् ।। १५।।
शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः ।
त्वमेव परमं तत्त्वमतः किं परितप्यसे ।। १६।।
जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ ।
कथं रोदिषि रे वत्स नामरूपं न ते न मे ।। १७।।
अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत् ।
अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ।। १८।।
त्वमेव तत्त्वं हि विकारवर्जितं
     निष्कम्पमेकं हि विमोक्षविग्रहम् ।
न ते च रागो ह्यथवा विरागः
     कथं हि सन्तप्यसि कामकामतः ।। १९।।
वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ।
अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः ।। २०।।
साकारमनृतं विद्धि निराकारं निरन्तरम् ।
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ।। २१।।
एकमेव समं तत्त्वं वदन्ति हि विपश्चितः ।
रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते ।। २२।।
अनात्मरूपं च कथं समाधि-
     रात्मस्वरूपं च कथं समाधिः ।
अस्तीति नास्तीति कथं समाधि-
     र्मोक्षस्वरूपं यदि सर्वमेकम् ।। २३।।
विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः ।
जानामीह न जानामीत्यात्मानं मन्यसे कथम् ।। २४।।
तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः ।
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ।। २५।।
आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम् ।
ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम् ।। २६।।
शिवं न जानामि कथं वदामि
     शिवं न जानामि कथं भजामि ।
अहं शिवश्चेत्परमार्थथतत्त्वं
     समस्वरूपं गगनोपमं च ।। २७।।
नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम् ।
ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत् ।। २८।।
अनन्तरूपं न हि वस्तु किंचि-
     त्तत्त्वस्वरूपं न हि वस्तु किंचित् ।
आत्मैकरूपं परमार्थतत्त्वं
     न हिंसको वापि न चाप्यहिंसा ।। २९।।
विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम् ।
विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः ।। ३०।।
घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ।
शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे ।। ३१।।
न घटो न घटाकाशो न जीवो न जीवविग्रहः ।
केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम् ।। ३२।।
सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम् ।
सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः ।। ३३।।
वेदा न लोका न सुरा न यज्ञा
     वर्णाश्रमो नैव कुलं न जातिः ।
न धूममार्गो न च दीप्तिमार्गो
     ब्रह्मैकरूपं परमार्थतत्त्वम् ।। ३४।।
व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि ।
प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम् ।। ३५।।
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।
समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ।। ३६।।
श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ।
कथयन्ति कथं तत्त्वं मनोवाचामगोचरम् ।। ३७।।
यदाऽनृतमिदं सर्वं देहादिगगनोपमम् ।
तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा ।। ३८।।
परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे ।
व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत् ।। ३९।।
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् ।
एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः ।। ४०।।
सर्वं जगद्विद्धि निराकृतीदं
     सर्वं जगद्विद्धि विकारहीनम् ।
सर्वं जगद्विद्धि विशुद्धदेहं
     सर्वं जगद्विद्धि शिवैकरूपम् ।। ४१।।
तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः ।
असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् ।। ४२।।
मायाऽमाया कथं तात छायाऽछाया न विद्यते ।
तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ।। ४३।।
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः ।। ४४।।
महदादि जगत्सर्वं न किंचित्प्रतिभाति मे ।
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः ।। ४५।।
जानामि सर्वथा सर्वमहमेको निरन्तरम् ।
निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम् ।। ४६।।
न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना ।
सानन्दो वा निरानन्दमात्मानं मन्यसे कथम् ।। ४७।।
षडङ्गयोगान्न तु नैव शुद्धं
     मनोविनाशान्न तु नैव शुद्धम् ।
गुरूपदेशान्न तु नैव शुद्धं
     स्वयं च तत्त्वं स्वयमेव बुद्धम् ।। ४८।।
न हि पञ्चात्मको देहो विदेहो वर्तते न हि ।
आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम् ।। ४९।।
न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् ।
न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः ।। ५०।।
यथा जलं जले न्यस्तं सलिलं भेदवर्जितम् ।
प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे ।। ५१।।
यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन ।
साकारं च निराकारमात्मानं मन्यसे कथम् ।। ५२।।
जानामि ते परं रूपं प्रत्यक्षं गगनोपमम् ।
यथा परं हि रूपं यन्मरीचिजलसन्निभम् ।। ५३।।
न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया ।
विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः ।। ५४।।
विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम् ।
अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे ।। ५५।।
कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव ।
पिब वत्स कलातीतमद्वैतं परमामृतम् ।। ५६।।
नैव बोधो न चाबोधो न बोधाबोध एव च ।
यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत् ।। ५७।।
ज्ञानं न तर्को न समाधियोगो
     न देशकालौ न गुरूपदेशः ।
स्वभावसंवित्तरहं च तत्त्व-
     माकाशकल्पं सहजं ध्रुवं च ।। ५८।।
न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम् ।
विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम ।। ५९।।
यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः ।
अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम् ।। ६०।।
स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम् ।
अहो मायामहामोहो द्वैताद्वैतविकल्पना ।। ६१।।
साकारं च निराकारं नेति नेतीति सर्वदा ।
भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः ।। ६२।।
न ते च माता च पिता च बन्धुः
     न ते च पत्नी न सुतश्च मित्रम् ।
न पक्षपाती न विपक्षपातः
     कथं हि संतप्तिरियं हि चित्ते ।। ६३।।
दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि ।
विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः ।। ६४।।
नाविभक्तं विभक्तं च न हि दुःखसुखादि च ।
न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ।। ६५।।
नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना ।
न मे देहो विदेहो वा निर्ममेति ममेति किम् ।। ६६।।
न मे रागादिको दोषो दुःखं देहादिकं न मे ।
आत्मानं विद्धि मामेकं विशालं गगनोपमम् ।। ६७।।
सखे मनः किं बहुजल्पितेन
     सखे मनः सर्वमिदं वितर्क्यम् ।
यत्सारभूतं कथितं मया ते
     त्वमेव तत्त्वं गगनोपमोऽसि ।। ६८।।
येन केनापि भावेन यत्र कुत्र मृता अपि ।
योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ।। ६९।।
तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन् ।
समकाले तनुं मुक्तः कैवल्यव्यापको भवेत् ।। ७०।।
धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम् ।
मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम् ।। ७१।।
अतीतानागतं कर्म वर्तमानं तथैव च ।
न करोमि न भुञ्जामि इति मे निश्चला मतिः ।। ७२।।
शून्यागारे समरसपूत-
     स्तिष्ठन्नेकः सुखमवधूतः ।
चरति हि नग्नस्त्यक्त्वा गर्वं
     विन्दति केवलमात्मनि सर्वम् ।। ७३।।
त्रितयतुरीयं नहि नहि यत्र
     विन्दति केवलमात्मनि तत्र ।
धर्माधर्मौ नहि नहि यत्र
     बद्धो मुक्तः कथमिह तत्र ।। ७४।।
विन्दति विन्दति नहि नहि मन्त्रं
     छन्दोलक्षणं नहि नहि तन्त्रम् ।
समरसमग्नो भावितपूतः
     प्रलपितमेतत्परमवधूतः ।। ७५।।
सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते ।
स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम् ।। ७६।।
इति प्रथमोऽध्यायः ।। १
।। अथ द्वितीयोऽध्यायः ।।
बालस्य वा विषयभोगरतस्य वापि
     मूर्खस्य सेवकजनस्य गृहस्थितस्य .
एतद्गुरोः किमपि नैव चिन्तनीयं
     रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ।। ।।
नैवात्र काव्यगुण एव तु चिन्तनीयो
     ग्राह्यः परं गुणवता खलु सार एव .
सिन्दूरचित्ररहिता भुवि रूपशून्या
     पारं किं नयति नौरिह गन्तुकामान् ।। ।।
प्रयत्नेन विना येन निश्चलेन चलाचलम् .
ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ।। ।।
अयत्नाछालयेद्यस्तु एकमेव चराचरम् .
सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ।। ।।
अहमेव परं यस्मात्सारात्सारतरं शिवम् .
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ।। ।।
सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम् .
संपूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम् ।। ।।
प्रमादेन सन्देहः किं करिष्यामि वृत्तिमान् .
उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले ।। ।।
महदादीनि भूतानि समाप्यैवं सदैव हि .
मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु ।। ।।
कटुत्वं चैव शैत्यत्वं मृदुत्वं यथा जले .
प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ।। ।।
सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् .
मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ।। १०।।
ईदृशं सहजं यत्र अहं तत्र कथं भवेत् .
त्वमेव हि कथं तत्र कथं तत्र चराचरम् ।। ११।।
गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् .
चैतन्यं दोषहीनं सर्वज्ञं पूर्णमेव ।। १२।।
पृथिव्यां चरितं नैव मारुतेन वाहितम् .
वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ।। १३।।
आकाशं तेन संव्याप्तं तद्व्याप्तं केनचित् .
बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम् ।। १४।।
सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः .
आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ।। १५।।
सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् .
तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ।। १६।।
विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य .
एकमेव विनाशाय ह्यमोघं सहजामृतम् ।। १७।।
भावगम्यं निराकारं साकारं दृष्टिगोचरम् .
भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ।। १८।।
बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते .
अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ।। १९।।
भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं मध्यगम् .
मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ।। २०।।
पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः .
तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः ।। २१।।
अनेनैव प्रकारेण बुद्धिभेदो सर्वगः .
दाता धीरतामेति गीयते नामकोटिभिः ।। २२।।
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः .
यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ।। २३।।
रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः .
दृढबोधश्च धीरश्च गच्छेत्परमं पदम् ।। २४।।
घटे भिन्ने घटाकाश आकाशे लीयते यथा .
देहाभावे तथा योगी स्वरूपे परमात्मनि ।। २५।।
उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः .
चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ।। २६।।
या गतिः कर्मयुक्तानां सा वागिन्द्रियाद्वदेत् .
योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता ।। २७।।
एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् .
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ।। २८।।
तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा .
योगी पश्यते गर्भं परे ब्रह्मणि लीयते ।। २९।।
सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं
     घटति यदि यथेष्टं लिप्यते नैव दोषैः .
सकृदपि तदभावात्कर्म किंचिन्नकुर्यात्
     तदपि विबद्धः संयमी वा तपस्वी ।। ३०।।
निरामयं निष्प्रतिमं निराकृतिं
     निराश्रयं निर्वपुषं निराशिषम् .
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं
     तमीशमात्मानमुपैति शाश्वतम् ।। ३१।।
वेदो दीक्षा मुण्डनक्रिया
     गुरुर्न शिष्यो यन्त्रसम्पदः .
मुद्रादिकं चापि यत्र भासते
     तमीशमात्मानमुपैति शाश्वतम् ।। ३२।।
शाम्भवं शाक्तिकमानवं वा
     पिण्डं रूपं पदादिकं वा .
आरम्भनिष्पत्तिघटादिकं नो
     तमीशमात्मानमुपैति शाश्वतम् ।। ३३।।
यस्य स्वरूपात्सचराचरं जग-
     दुत्पद्यते तिष्ठति लीयतेऽपि वा .
पयोविकारादिव फेनबुद्बुदा-
     स्तमीशमात्मानमुपैति शाश्वतम् ।। ३४।।
नासानिरोधो दृष्टिरासनं
     बोधोऽप्यबोधोऽपि यत्र भासते .
नाडीप्रचारोऽपि यत्र किञ्चि-
     त्तमीशमात्मानमुपैति शाश्वतम् ।। ३५।।
नानात्वमेकत्वमुभत्वमन्यता
     अणुत्वदीर्घत्वमहत्त्वशून्यता .
मानत्वमेयत्वसमत्ववर्जितं
     तमीशमात्मानमुपैति शाश्वतम् ।। ३६।।
सुसंयमी वा यदि वा संयमी
     सुसंग्रही वा यदि वा संग्रही .
निष्कर्मको वा यदि वा सकर्मक-
     स्तमीशमात्मानमुपैति शाश्वतम् ।। ३७।।
मनो बुद्धिर्न शरीरमिन्द्रियं
     तन्मात्रभूतानि भूतपञ्चकम् .
अहंकृतिश्चापि वियत्स्वरूपकं
     तमीशमात्मानमुपैति शाश्वतम् ।। ३८।।
विधौ निरोधे परमात्मतां गते
     योगिनश्चेतसि भेदवर्जिते .
शौचं वाशौचमलिङ्गभावना
     सर्वं विधेयं यदि वा निषिध्यते ।। ३९।।
मनो वचो यत्र शक्तमीरितुं
     नूनं कथं तत्र गुरूपदेशता .
इमां कथामुक्तवतो गुरोस्त-
     द्युक्तस्य तत्त्वं हि समं प्रकाशते ।। ४०।।
इति द्वितीयोऽध्यायः ।।
।।अथ तृतीयोऽध्यायः ।।
गुणविगुणविभागो वर्तते नैव किञ्चित्
     रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम् .
गुणविगुणविहीनं व्यापकं विश्वरूपं
     कथमहमिह वन्दे व्योमरूपं शिवं वै ।। ।।
श्वेतादिवर्णरहितो नियतं शिवश्च
     कार्यं हि कारणमिदं हि परं शिवश्च .
एवं विकल्परहितोऽहमलं शिवश्च
     स्वात्मानमात्मनि सुमित्र कथं नमामि ।। ।।
निर्मूलमूलरहितो हि सदोदितोऽहं
     निर्धूमधूमरहितो हि सदोदितोऽहम् .
निर्दीपदीपरहितो हि सदोदितोऽहं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ।।
निष्कामकाममिह नाम कथं वदामि
     निःसङ्गसङ्गमिह नाम कथं वदामि .
निःसारसाररहितं कथं वदामि
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ।।
अद्वैतरूपमखिलं हि कथं वदामि
     द्वैतस्वरूपमखिलं हि कथं वदामि .
नित्यं त्वनित्यमखिलं हि कथं वदामि
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ।।
स्थूलं हि नो नहि कृशं गतागतं हि
     आद्यन्तमध्यरहितं परापरं हि .
सत्यं वदामि खलु वै परमार्थतत्त्वं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ।।
संविद्धि सर्वकरणानि नभोनिभानि
     संविद्धि सर्वविषयांश्च नभोनिभांश्च .
संविद्धि चैकममलं हि बन्धमुक्तं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ।।
दुर्बोधबोधगहनो भवामि तात
     दुर्लक्ष्यलक्ष्यगहनो भवामि तात .
आसन्नरूपगहनो भवामि तात
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ।।
निष्कर्मदहनो ज्वलनो भवामि
     निर्दुःखदुःखदहनो ज्वलनो भवामि .
निर्देहदेहदहनो ज्वलनो भवामि
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ।।
निष्पापपापदहनो हि हुताशनोऽहं
     निर्धर्मधर्मदहनो हि हुताशनोऽहम् .
निर्बन्धबन्धदहनो हि हुताशनोऽहं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १०।।
निर्भावभावरहितो भवामि वत्स
     निर्योगयोगरहितो भवामि वत्स .
निश्चित्तचित्तरहितो भवामि वत्स
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ११।।
निर्मोहमोहपदवीति मे विकल्पो
     निःशोकशोकपदवीति मे विकल्पः .
निर्लोभलोभपदवीति मे विकल्पो
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १२।।
संसारसन्ततिलता मे कदाचित्
     सन्तोषसन्ततिसुखो मे कदाचित् .
अज्ञानबन्धनमिदं मे कदाचित्
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १३।।
संसारसन्ततिरजो मे विकारः
     सन्तापसन्ततितमो मे विकारः .
सत्त्वं स्वधर्मजनकं मे विकारो
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १४।।
सन्तापदुःखजनको विधिः कदाचित्
     सन्तापयोगजनितं मनः कदाचित् .
यस्मादहङ्कृतिरियं मे कदाचित्
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १५।।
निष्कम्पकम्पनिधनं विकल्पकल्पं
     स्वप्नप्रबोधनिधनं हिताहितं हि .
निःसारसारनिधनं चराचरं हि
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १६।।
नो वेद्यवेदकमिदं हेतुतर्क्यं
     वाचामगोचरमिदं मनो बुद्धिः .
एवं कथं हि भवतः कथयामि तत्त्वं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १७।।
निर्भिन्नभिन्नरहितं परमार्थतत्त्व-
     मन्तर्बहिर्न हि कथं परमार्थतत्त्वम् .
प्राक्सम्भवं रतं नहि वस्तु किञ्चित्
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १८।।
रागादिदोषरहितं त्वहमेव तत्त्वं
     दैवादिदोषरहितं त्वहमेव तत्त्वम् .
संसारशोकरहितं त्वहमेव तत्त्वं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १९।।
स्थानत्रयं यदि नेति कथं तुरीयं
     कालत्रयं यदि नेति कथं दिशश्च .
शान्तं पदं हि परमं परमार्थतत्त्वं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २०।।
दीर्घो लघुः पुनरितीह नमे विभागो
     विस्तारसंकटमितीह मे विभागः .
कोणं हि वर्तुलमितीह मे विभागो
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २१।।
मातापितादि तनयादि मे कदाचित्
     जातं मृतं मनो मे कदाचित् .
निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २२।।
शुद्धं विशुद्धमविचारमनन्तरूपं
     निर्लेपलेपमविचारमनन्तरूपम् .
निष्खण्डखण्डमविचारमनन्तरूपं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २३।।
ब्रह्मादयः सुरगणाः कथमत्र सन्ति
    स्वर्गादयो वसतयः कथमत्र सन्ति .
यद्येकरूपममलं परमार्थतत्त्वं
      ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २४।।
निर्नेति नेति विमलो हि कथं वदामि
     निःशेषशेषविमलो हि कथं वदामि .
निर्लिङ्गलिङ्गविमलो हि कथं वदामि
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २५।।
निष्कर्मकर्मपरमं सततं करोमि
     निःसङ्गसङ्गरहितं परमं विनोदम् .
निर्देहदेहरहितं सततं विनोदं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २६।।
मायाप्रपञ्चरचना मे विकारः .
     कौटिल्यदम्भरचना मे विकारः .
सत्यानृतेति रचना मे विकारो
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २७।।
सन्ध्यादिकालरहितं मे वियोगो-
     ह्यन्तः प्रबोधरहितं बधिरो मूकः .
एवं विकल्परहितं भावशुद्धं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २८।।
निर्नाथनाथरहितं हि निराकुलं वै
     निश्चित्तचित्तविगतं हि निराकुलं वै .
संविद्धि सर्वविगतं हि निराकुअलं वै
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २९।।
कान्तारमन्दिरमिदं हि कथं वदामि
     संसिद्धसंशयमिदं हि कथं वदामि .
एवं निरन्तरसमं हि निराकुलं वै
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३०।।
निर्जीवजीवरहितं सततं विभाति
     निर्बीजबीजरहितं सततं विभाति .
निर्वाणबन्धरहितं सततं विभाति
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३१।।
सम्भूतिवर्जितमिदं सततं विभाति
     संसारवर्जितमिदं सततं विभाति .
संहारवर्जितमिअदं सततं विभाति
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३२।।
उल्लेखमात्रमपि ते नामरूपं
     निर्भिन्नभिन्नमपि ते हि वस्तु किञ्चित् .
निर्लज्जमानस करोषि कथं विषादं
      ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३३।।
किं नाम रोदिषि सखे जरा मृत्युः
     किं नाम रोदिषि सखे जन्म दुःखम् .
किं नाम रोदिषि सखे ते विकारो
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३४।।
किं नाम रोदिषि सखे ते स्वरूपं
     किं नाम रोदिषि सखे ते विरूपम् .
किं नाम रोदिषि सखे ते वयांसि
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३५।।
किं नाम रोदिषि सखे ते वयांसि
     किं नाम रोदिषि सखे ते मनांसि .
किं नाम रोदिषि सखे तवेन्द्रियाणि
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३६।।
किं नाम रोदिषि सखे तेऽस्ति कामः
     किं नाम रोदिषि सखे ते प्रलोभः .
किं नाम रोदिषि सखे ते विमोहो
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३७।।
ऐश्वर्यमिच्छसि कथं ते धनानि
     ऐश्वर्यमिच्छसि कथं ते हि पत्नी .
ऐश्वर्यमिच्छसि कथं ते ममेति
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३८।।
लिङ्गप्रपञ्चजनुषी ते मे
     निर्लज्जमानसमिदं विभाति भिन्नम् .
निर्भेदभेदरहितं ते मे
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३९।।
नो वाणुमात्रमपि ते हि विरागरूपं
     नो वाणुमात्रमपि ते हि सरागरूपम् .
नो वाणुमात्रमपि ते हि सकामरूपं
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४०।।
ध्याता ते हि हृदये ते समाधि-
     र्ध्यानं ते हि हृदये बहिः प्रदेशः .
ध्येयं चेति हृदये हि वस्तु कालो
     ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४१।।
यत्सारभूतमखिलं कथितं मया ते
     त्वं मे महतो गुरुर्न शिष्यः .
स्वच्छन्दरूपसहजं परमार्थतत्त्वं
    ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४२।।
कथमिह परमार्थं तत्त्वमानन्दरूपं
     कथमिह परमार्थं नैवमानन्दरूपम् .
कथमिह परमार्थं ज्ञानविज्ञानरूपं
     यदि परमहमेकं वर्तते व्योमरूपम् ।। ४३।।
दहनपवनहीनं विद्धि विज्ञानमेक-
     मवनिजलविहीनं विद्धि विज्ञानरूपम् .
समगमनविहीनं विद्धि विज्ञानमेकं
     गगनमिव विशालं विद्धि विज्ञानमेकम् ।। ४४।।
शून्यरूपं विशून्यरूपं
     शुद्धरूपं विशुद्धरूपम् .
रूपं विरूपं भवामि किञ्चित्
     स्वरूपरूपं परमार्थतत्त्वम् ।। ४५।।
मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा .
त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम् ।। ४६।।
इति तृतीयोऽध्यायः ।। ।।
अथ चतुर्थोऽध्यायः ।।
नावाहनं नैव विसर्जनं वा
     पुष्पाणि पत्राणि कथं भवन्ति .
ध्यानानि मन्त्राणि कथं भवन्ति
     समासमं चैव शिवार्चनं ।। ।।
केवलं बन्धविबन्धमुक्तो
     केवलं शुद्धविशुद्धमुक्तः .
केवलं योगवियोगमुक्तः
     वै विमुक्तो गगनोपमोऽहम् ।। ।।
सञ्जायते सर्वमिदं हि तथ्यं
     सञ्जायते सर्वमिदं वितथ्यम् .
एवं विकल्पो मम नैव जातः
     स्वरूपनिर्वाणमनामयोऽहम् ।। ।।
साञ्जनं चैव निरञ्जनं वा
     चान्तरं वापि निरन्तरं वा .
अन्तर्विभन्नं हि मे विभाति
     स्वरूपनिर्वाणमनामयोऽहम् ।। ।।
अबोधबोधो मम नैव जातो
     बोधस्वरूपं मम नैव जातम् .
निर्बोधबोधं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। ।।
धर्मयुक्तो पापयुक्तो
     बन्धयुक्तो मोक्षयुक्तः .
युक्तं त्वयुक्तं मे विभाति
     स्वरूपनिर्वाणमनामयोऽहम् ।। ।।
परापरं वा मे कदाचित्
     मध्यस्थभावो हि चारिमित्रम् .
हिताहितं चापि कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। ।।
नोपासको नैवमुपास्यरूपं
     चोपदेशो मे क्रिया .
संवित्स्वरूपं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। ।।
नो व्यापकं व्याप्यमिहास्ति किञ्चित्
     चालयं वापि निरालयं वा .
अशून्यशून्यं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। ।।
ग्राहको ग्राह्यकमेव किञ्चित्
     कारणं वा मम नैव कार्यम् .
अचिन्त्यचिन्त्यं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १०।।
भेदकं वापि चैव भेद्यं
     वेदकं वा मम नैव वेद्यम् .
गतागतं तात कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। ११।।
चास्ति देहो मे विदेहो
     बुद्दिर्मनो मे हि चेन्द्रियाणि .
रागो विरागश्च कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १२।।
उल्लेखमात्रं हि भिन्नमुच्चै-
     रुल्लेखमात्रं तिरोहितं वै .
समासमं मित्र कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १३।।
जितेन्द्रियोऽहं त्वजितेन्द्रियो वा
     संयमो मे नियमो जातः .
जयाजयौ मित्र कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १४।।
अमूर्तमूर्तिर्न मे कदाचि-
     दाद्यन्तमध्यं मे कदाचित् .
बलाबलं मित्र कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १५।।
मृतामृतं वापि विषाविषं
     सञ्जायते तात मे कदाचित् .
अशुद्धशुद्धं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १६।।
स्वप्नः प्रबोधो योगमुद्रा
     नक्तं दिवा वापि मे कदाचित् .
अतुर्यतुर्यं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १७।।
संविद्धि मां सर्वविसर्वमुक्तं
     माया विमाया मे कदाचित् .
सन्ध्यादिकं कर्म कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १८।।
संविद्धि मां सर्वसमाधियुक्तं
     संविद्धि मां लक्ष्यविलक्ष्यमुक्तम् .
योगं वियोगं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। १९।।
मूर्खोऽपि नाहं पण्डितोऽहं
     मौनं विमौनं मे कदाचित् .
तर्कं वितर्कं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। २०।।
पिता माता कुलं जाति-
     र्जन्मादि मृत्युर्न मे कदाचित् .
स्नेहं विमोहं कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। २१।।
अस्तं गतो नैव सदोदितोऽहं
     तेजोवितेजो मे कदाचित् .
सन्ध्यादिकं कर्म कथं वदामि
     स्वरूपनिर्वाणमनामयोऽहम् ।। २२।।
असंशयं विद्धि निराकुलं मां
     असंशयं विद्धि निरन्तरं माम् .
असंशयं विद्धि निरञ्जनं मां
     स्वरूपनिर्वाणमनामयोऽहम् ।। २३।।
ध्यानानि सर्वाणि परित्यजन्ति
     शुभाशुभं कर्म परित्यजन्ति .
त्यागामृतं तात पिबन्ति धीराः
     स्वरूपनिर्वाणमनामयोऽहम् ।। २४।।
विन्दति विन्दति हि हि यत्र
     छन्दोलक्षणं हि हि तत्र .
समरसमग्नो भावितपूतः
     प्रलपति तत्त्वं परमवधूतः ।। २५।।
इति चतुर्थोऽध्यायः ।। ।।
अथ पञ्चमोध्यायः ।।
इति गदितं गगनसमं तत्
     परापरसारविचार इति .
अविलासविलासनिराकरणं
     कथमक्षरबिन्दुसमुच्चरणम् ।। ।।
इति तत्त्वमसिप्रभृतिश्रुतिभिः
     प्रतिपादितमात्मनि तत्त्वमसि .
त्वमुपाधिविवर्जितसर्वसमं
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
अधऊर्ध्वविवर्जितसर्वसमं
     बहिरन्तरवर्जितसर्वसमम् .
यदि चैकविवर्जितसर्वसमं
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
हि कल्पितकल्पविचार इति
     हि कारणकार्यविचार इति .
पदसन्धिविवर्जितसर्वसमं
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
हि बोधविबोधसमाधिरिति
     हि देशविदेशसमाधिरिति .
हि कालविकालसमाधिरिति
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
हि कुम्भनभो हि कुम्भ इति
     हि जीववपुर्न हि जीव इति .
हि कारणकार्यविभाग इति
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
इह सर्वनिरन्तरमोक्षपदं
     लघुदीर्घविचारविहीन इति .
हि वर्तुलकोणविभाग इति
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
इह शून्यविशून्यविहीन इति
     इह शुद्धविशुद्धविहीन इति .
इह सर्वविसर्वविहीन इति
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
हि भिन्नविभिन्नविचार इति
     बहिरन्तरसन्धिविचार इति .
अरिमित्रविवर्जितसर्वसमं
     किमु रोदिषि मानसि सर्वसमम् ।। ।।
हि शिष्यविशिष्यस्वरूपैति
     चराचरभेदविचार इति .
इह सर्वनिरन्तरमोक्षपदं
     किमु रोदिषि मानसि सर्वसमम् ।। १०।।
ननु रूपविरूपविहीन इति
     ननु भिन्नविभिन्नविहीन इति .
ननु सर्गविसर्गविहीन इति
     किमु रोदिषि मानसि सर्वसमम् ।। ११।।
गुणागुणपाशनिबन्ध इति
     मृतजीवनकर्म करोमि कथम् .
इति शुद्धनिरञ्जनसर्वसमं
     किमु रोदिषि मानसि सर्वसमम् ।। १२।।
इह भावविभावविहीन इति
     इह कामविकामविहीन इति .
इह बोधतमं खलु मोक्षसमं
     किमु रोदिषि मानसि सर्वसमम् ।। १३।।
इह तत्त्वनिरन्तरतत्त्वमिति
     हि सन्धिविसन्धिविहीन इति .
यदि सर्वविवर्जितसर्वसमं
     किमु रोदिषि मानसि सर्वसमम् ।। १४।।
अनिकेतकुटी परिवारसमं
     इहसङ्गविसङ्गविहीनपरम् .
इह बोधविबोधविहीनपरं
     किमु रोदिषि मानसि सर्वसमम् ।। १५।।
अविकारविकारमसत्यमिति
     अविलक्षविलक्षमसत्यमिति .
यदि केवलमात्मनि सत्यमिति
     किमु रोदिषि मानसि सर्वसमम् ।। १६।।
इह सर्वसमं खलु जीव इति
     इह सर्वनिरन्तरजीव इति .
इह केवलनिश्चलजीव इति
     किमु रोदिषि मानसि सर्वसमम् ।। १७।।
अविवेकविवेकमबोध इति
     अविकल्पविकल्पमबोध इति .
यदि चैकनिरन्तरबोध इति
     किमु रोदिषि मानसि सर्वसमम् ।। १८।।
हि मोक्षपदं हि बन्धपदं
     हि पुण्यपदं हि पापपदम् .
हि पूर्णपदं हि रिक्तपदं
     किमु रोदिषि मानसि सर्वसमम् ।। १९।।
यदि वर्णविवर्णविहीनसमं
     यदि कारणकार्यविहीनसमम् .
यदिभेदविभेदविहीनसमं
     किमु रोदिषि मानसि सर्वसमम् ।। २०।।
इह सर्वनिरन्तरसर्वचिते
     इह केवलनिश्चलसर्वचिते .
द्विपदादिविवर्जितसर्वचिते
     किमु रोदिषि मानसि सर्वसमम् ।। २१।।
अतिसर्वनिरन्तरसर्वगतं
     अतिनिर्मलनिश्चलसर्वगतम् .
दिनरात्रिविवर्जितसर्वगतं
     किमु रोदिषि मानसि सर्वसमम् ।। २२।।
हि बन्धविबन्धसमागमनं
     हि योगवियोगसमागमनम् .
हि तर्कवितर्कसमागमनं
     किमु रोदिषि मानसि सर्वसमम् ।। २३।।
इह कालविकालनिराकरणं
     अणुमात्रकृशानुनिराकरणम् .
हि केवलसत्यनिराकरणं
     किमु रोदिषि मानसि सर्वसमम् ।। २४।।
इह देहविदेहविहीन इति
     ननु स्वप्नसुषुप्तिविहीनपरम् .
अभिधानविधानविहीनपरं
     किमु रोदिषि मानसि सर्वसमम् ।। २५।।
गगनोपमशुद्धविशालसमं
     अतिसर्वविवर्जितसर्वसमम् .
गतसारविसारविकारसमं
     किमु रोदिषि मानसि सर्वसमम् ।। २६।।
इह धर्मविधर्मविरागतर-
     मिह वस्तुविवस्तुविरागतरम् .
इह कामविकामविरागतरं
     किमु रोदिषि मानसि सर्वसमम् ।। २७।।
सुखदुःखविवर्जितसर्वसम-
     मिह शोकविशोकविहीनपरम् .
गुरुशिष्यविवर्जिततत्त्वपरं
     किमु रोदिषि मानसि सर्वसमम् ।। २८।।
किलाङ्कुरसारविसार इति
     चलाचलसाम्यविसाम्यमिति .
अविचारविचारविहीनमिति
     किमु रोदिषि मानसि सर्वसमम् ।। २९।।
इह सारसमुच्चयसारमिति .
     कथितं निजभावविभेद इति .
विषये करणत्वमसत्यमिति
     किमु रोदिषि मानसि सर्वसमम् ।। ३०।।
बहुधा श्रुतयः प्रवदन्ति यतो
     वियदादिरिदं मृगतोयसमम् .
यदि चैकनिरन्तरसर्वसमं
     किमु रोदिषि मानसि सर्वसमम् ।। ३१।।
विन्दति विन्दति हि हि यत्र
     छन्दोलक्षणं हि हि तत्र .
समरसमग्नो भावितपूतः
     प्रलपति तत्त्वं परमवधूतः ।। ३२।।
इति पञ्चमोऽध्यायः ।। ।।
अथ षष्ठमोऽध्यायः ।।
बहुधा श्रुतयः प्रवदन्ति वयं
     वियदादिरिदं मृगतोयसमम् .
यदि चैकनिरन्तरसर्वशिव-
     मुपमेयमथोह्युपमा कथम् ।। ।।
अविभक्तिविभक्तिविहीनपरं
     ननु कार्यविकार्यविहीनपरम् .
यदि चैकनिरन्तरसर्वशिवं
     यजनं कथं तपनं कथम् ।। ।।
मन एव निरन्तरसर्वगतं
     ह्यविशालविशालविहीनपरम् .
मन एव निरन्तरसर्वशिवं
     मनसापि कथं वचसा कथम् ।। ।।
दिनरात्रिविभेदनिराकरण-
     मुदितानुदितस्य निराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
     रविचन्द्रमसौ ज्वलनश्च कथम् ।। ।।
गतकामविकामविभेद इति
     गतचेष्टविचेष्टविभेद इति .
यदि चैकनिरन्तरसर्वशिवं
     बहिरन्तरभिन्नमतिश्च कथम् ।। ।।
यदि सारविसारविहीन इति
     यदि शून्यविशून्यविहीन इति .
यदि चैकनिरन्तरसर्वशिवं
     प्रथमं कथं चरमं कथम् ।। ।।
यदिभेदविभेदनिराकरणं
     यदि वेदकवेद्यनिराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
     तृतीयं कथं तुरीयं कथम् ।। ।।
गदिताविदितं हि सत्यमिति
     विदिताविदितं नहि सत्यमिति .
यदि चैकनिरन्तरसर्वशिवं
     विषयेन्द्रियबुद्धिमनांसि कथम् ।। ।।
गगनं पवनो हि सत्यमिति
     धरणी दहनो हि सत्यमिति .
यदि चैकनिरन्तरसर्वशिवं
     जलदश्च कथं सलिलं कथम् ।। ।।
यदि कल्पितलोकनिराकरणं
     यदि कल्पितदेवनिराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
     गुणदोषविचारमतिश्च कथम् ।। १०।।
मरणामरणं हि निराकरणं
     करणाकरणं हि निराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
     गमनागमनं हि कथं वदति ।। ११।।
प्रकृतिः पुरुषो हि भेद इति
     हि कारणकार्यविभेद इति .
यदि चैकनिरन्तरसर्वशिवं
     पुरुषापुरुषं कथं वदति ।। १२।।
तृतीयं हि दुःखसमागमनं
     गुणाद्द्वितीयस्य समागमनम् .
यदि चैकनिरन्तरसर्वशिवं
     स्थविरश्च युवा शिशुश्च कथम् ।। १३।।
ननु आश्रमवर्णविहीनपरं
     ननु कारणकर्तृविहीनपरम् .
यदि चैकनिरन्तरसर्वशिव-
     मविनष्टविनष्टमतिश्च कथम् ।। १४।।
ग्रसिताग्रसितं वितथ्यमिति
     जनिताजनितं वितथ्यमिति .
यदि चैकनिरन्तरसर्वशिव-
     मविनाशि विनाशि कथं हि भवेत् ।। १५।।
पुरुषापुरुषस्य विनष्टमिति
     वनितावनितस्य विनष्टमिति .
यदि चैकनिरन्तरसर्वशिव-
     मविनोदविनोदमतिश्च कथम् ।। १६।।
यदि मोहविषादविहीनपरो
     यदि संशयशोकविहीनपरः .
यदि चैकनिरन्तरसर्वशिव-
     महमेति ममेति कथं पुनः ।। १७।।
ननु धर्मविधर्मविनाश इति
     ननु बन्धविबन्धविनाश इति .
यदि चैकनिरन्तरसर्वशिवं-
     मिहदुःखविदुःखमतिश्च कथम् ।। १८।।
हि याज्ञिकयज्ञविभाग इति
     हुताशनवस्तुविभाग इति .
यदि चैकनिरन्तरसर्वशिवं
     वद कर्मफलानि भवन्ति कथम् ।। १९।।
ननु शोकविशोकविमुक्त इति
     ननु दर्पविदर्पविमुक्त इति .
यदि चैकनिरन्तरसर्वशिवं
     ननु रागविरागमतिश्च कथम् ।। २०।।
हि मोहविमोहविकार इति
     हि लोभविलोभविकार इति .
यदि चैकनिरन्तरसर्वशिवं
     ह्यविवेकविवेकमतिश्च कथम् ।। २१।।
त्वमहं हि हन्त कदाचिदपि
     कुलजातिविचारमसत्यमिति .
अहमेव शिवः परमार्थ इति
     अभिवादनमत्र करोमि कथम् ।। २२।।
गुरुशिष्यविचारविशीर्ण इति
     उपदेशविचारविशीर्ण इति .
अहमेव शिवः परमार्थ इति
     अभिवादनमत्र करोमि कथम् ।। २३।।
हि कल्पितदेहविभाग इति
     हि कल्पितलोकविभाग इति .
अहमेव शिवः परमार्थ इति
     अभिवादनमत्र करोमि कथम् ।। २४।।
सरजो विरजो कदाचिदपि
     ननु निर्मलनिश्चलशुद्ध इति .
अहमेव शिवः परमार्थ इति
     अभिवादनमत्र करोमि कथम् ।। २५।।
हि देहविदेहविकल्प इति
     अनृतं चरितं हि सत्यमिति .
अहमेव शिवः परमार्थ इति
     अभिवादनमत्र करोमि कथम् ।। २६।।
विन्दति विन्दति हि हि यत्र
     छन्दोलक्षणं हि हि तत्र .
समरसमग्नो भावितपूतः
     प्रलपति तत्त्वं परमवधूतः ।। २७।।
इति षष्ठमोऽध्यायः ।। ।।
अथ सप्तमोऽध्यायः ।।
रथ्याकर्पटविरचितकन्थः
     पुण्यापुण्यविवर्जितपन्थः .
शून्यागारे तिष्ठति नग्नो
     शुद्धनिरञ्जनसमरसमग्नः ।। ।।
लक्ष्यालक्ष्यविवर्जितलक्ष्यो
     युक्तायुक्तविवर्जितदक्षः .
केवलतत्त्वनिरञ्जनपूतो
     वादविवादः कथमवधूतः ।। ।।
आशापाशविबन्धनमुक्ताः
     शौचाचारविवर्जितयुक्ताः .
एवं सर्वविवर्जितशान्त-
     स्तत्त्वं शुद्धनिरञ्जनवन्तः ।। ।।
कथमिह देहविदेहविचारः
     कथमिह रागविरागविचारः .
निर्मलनिश्चलगगनाकारं
     स्वयमिह तत्त्वं सहजाकारम् ।। ।।
कथमिह तत्त्वं विन्दति यत्र
     रूपमरूपं कथमिह तत्र .
गगनाकारः परमो यत्र
     विषयीकरणं कथमिह तत्र ।। ।।
गगनाकारनिरन्तरहंस-
     स्तत्त्वविशुद्धनिरञ्जनहंसः .
एवं कथमिह भिन्नविभिन्नं
     बन्धविबन्धविकारविभिन्नम् ।। ।।
केवलतत्त्वनिरन्तरसर्वं
     योगवियोगौ कथमिह गर्वम् .
एवं परमनिरन्तरसर्व-
     मेवं कथमिह सारविसारम् ।। ।।
केवलतत्त्वनिरञ्जनसर्वं
     गगनाकारनिरन्तरशुद्धम् .
एवं कथमिह सङ्गविसङ्गं
     सत्यं कथमिह रङ्गविरङ्गम् ।। ।।
योगवियोगै रहितो योगी
     भोगविभोगै रहितो भोगी .
एवं चरति हि मन्दं मन्दं
     मनसा कल्पितसहजानन्दम् ।। ।।
बोधविबोधैः सततं युक्तो
     द्वैताद्वैतैः कथमिह मुक्तः .
सहजो विरजः कथमिह योगी
     शुद्धनिरञ्जनसमरसभोगी ।। १०।।
भग्नाभग्नविवर्जितभग्नो
     लग्नालग्नविवर्जितलग्नः .
एवं कथमिह सारविसारः
     समरसतत्त्वं गगनाकारः ।। ११।।
सततं सर्वविवर्जितयुक्तः
     सर्वं तत्त्वविवर्जितमुक्तः .
एवं कथमिह जीवितमरणं
     ध्यानाध्यानैः कथमिह करणम् ।। १२।।
इन्द्रजालमिदं सर्वं यथा मरुमरीचिका .
अखण्डितमनाकारो वर्तते केवलः शिवः ।। १३।।
धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम् .
कथं रागविरागैश्च कल्पयन्ति विपश्चितः ।। १४।।
विन्दति विन्दति हि हि यत्र
     छन्दोलक्षणं हि हि तत्र .
समरसमग्नो भावितपूतः
     प्रलपति तत्त्वं परमवधूतः ।। १५।।
इति सप्तमोऽध्यायः ।। ।।
अथ अष्टमोऽध्यायः ।।
त्वद्यात्रया व्यापकता हता ते
     ध्यानेन चेतःपरता हता ते .
स्तुत्या मया वाक्परता हता ते
     क्षमस्व नित्यं त्रिविधापराधान् ।। ।।
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः .
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ।। ।।
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः .
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ।। ।।
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् .
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ।। ।।
अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः .
वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः ।। ।।
आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः .
आनन्दे वर्तते नित्यमकारं तस्य लक्षणम् ।। ।।
वासना वर्जिता येन वक्तव्यं निरामयम् .
वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् ।। ।।
धूलिधूसरगात्राणि धूतचित्तो निरामयः .
धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम् ।। ।।
तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः .
तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम् ।। ।।
दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा .
ये पठन्ति शृण्वन्ति तेषां नैव पुनर्भवः ।। १०।।
इति अष्टमोऽध्यायः ।। ।।
इति अवधूतगीता समाप्ता ।।

Comments

Popular Posts

Send a message

Name

Email *

Message *