Skip to main content

Posts

Showing posts with the label सेढाई परिवार गीता

अवधूत गीता r

source :google ।। अवधूत गीता ।। अथ प्रथमोऽध्यायः ।। ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महद्भयपरित्राणाद्विप्राणामुपजायते ।। १।। येनेदं पूरितं सर्वमात्मनैवाअत्मनात्मनि । निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ।। २।। पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् । कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः ।। ३।। आत्मैव केवलं सर्वं भेदाभेदो न विद्यते । अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे ।। ४।। वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च । अहमात्मा निराकारः सर्वव्यापी स्वभावतः ।। ५।। यो वै सर्वात्मको देवो निष्कलो गगनोपमः । स्वभावनिर्मलः शुद्धः स एवायं न संशयः ।। ६।। अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः । सुखं दुःखं न जानामि कथं कस्यापि वर्तते ।। ७।। न मानसं कर्म शुभाशुभं मे      न कायिकं कर्म शुभाशुभं मे । न वाचिकं कर्म शुभाशुभं मे      ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ।। ८।। मनो वै गगनाकारं मनो वै सर्वतोमुखम् । मनोऽतीतं मनः सर्वं न मनः परमार्थतः ।। ९।। अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् । पश्यामि कथम...

Popular Posts

Send a message

Name

Email *

Message *