श्रीराजानकानन्द,ब्रह्मानुचिन्तनम्,ब्रह्मज्ञानावलीमाला,पञ्चिकरणं,प्रश्नोत्तररत्नमालिका,धन्याष्टकं,कौपीन पंचकं,ध्वन्यालोक r
श्रीरामचरितमानस
प्रथम
सोपान
बालकाण्ड
श्लोक वर्णानामर्थसंघानां रसानां छन्दसामपि।
मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ॥१॥
भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ।
याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम्॥२॥
वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम्।
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते॥३॥
सीतारामगुणग्रामपुण्यारण्यविहारिणौ।
वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ॥४॥
उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम्।
सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम्॥५॥
यन्मायावशवर्तिं विश्वमखिलं ब्रह्मादिदेवासुरा
यत्सत्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः।
यत्पादप्लवमेकमेव हि भवाम्भोधेस्तितीर्षावतां
वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम्॥६॥
नानापुराणनिगमागमसम्मतं यद्
रामायणे निगदितं क्वचिदन्यतोऽपि।
स्वान्तःसुखाय तुलसी रघुनाथगाथा-
भाषानिबन्धमतिमञ्जुलमातनोति॥७॥
||ब्रह्मानुचिन्तनम्
||
अहमेव परं ब्रह्म
वासुदेवाख्यमव्ययम् |
इति स्यान्निश्चितो
मुक्तो बद्ध एवान्यथा भवेत् ||१||
अहमेव परं ब्रह्म
निश्चितं चित्त चिन्त्यताम् |
चिद्रूपत्वादसञ्गत्वादबाध्यत्वात्
प्रयत्नतः ||२||
अहमेव परं ब्रह्म
न चाहं ब्रह्मणः पृथक् |
इत्येवं समुपासीत
ब्राह्मणो ब्रह्मणि स्थितः ||३||
सर्वोपाधिविनिर्मुक्तं
चैतन्यं च निरन्तरम् |
तद्ब्रह्माहमिति
ज्ञात्वा कथं वर्णाश्रमी भवेत् ||४||
अहं ब्रह्मास्मि
यो वेद स सर्वं भवति त्विदम् |
नाभूत्या ईशते देवास्तेओआमात्मा
भवेद्धि सः ||५||
अन्यो असावहमन्यो
अस्मीत्युपास्ते यो अन्यदेवताम् |
न स वेद नरो ब्रह्म
स देवानां यथा पशुः ||६||
अहमात्मा न चान्योऽस्मि
ब्रह्मैवाहं न शोकभाक् |
सच्चिदानन्दरूपोऽहं
नित्यमुक्तस्वभाववान् ||७||
आत्मानं सततं ब्रह्म
संभाव्य विहरन्ति ये |
न तेषां दुष्कृतं
किञ्चिद्दुष्कृतोत्था न चापदः ||
आत्मानं सततं ब्रह्म
संभाव्य विहरेत्सुखम् ||८,९||
क्षणं ब्रह्माहमस्मीति
यः कुर्यादात्मचिन्तनम् |
तन्महापातकं हन्ति
तमः सूर्योदयो यथा ||१०||
अज्ञानाद्ब्रह्मणो
ज्ञातमाकाशं बुद्बुदोपमम् |
आकाशाद्वायुरुत्पन्नो
वायोस्तेजस्ततः पयः ||११||
अद्भ्यश्च पृथिवी
ज्ञाता ततो व्रीहियवादिकम् |
पृथिव्यप्सु पयो
वह्नौ वह्निर्वायौ नभस्यसौ |
नभोऽप्यव्याकृते
तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ||१२||
अहं विष्णुरहं विष्णुरहं
विष्णुरहं हरिः |
कर्तृभोक्त्रादिकं
सर्वं तदविद्योत्थमेव च ||१३||
अच्युतोऽहमनन्तोऽहं
गोविन्दोऽहमहंहरिः |
आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम्
||१४||
नित्योऽहं निर्विकल्पोऽहं
निराकारोऽहमव्ययः |
सच्चिदानन्दरूपोऽहं
पङ्चकोशातिगोऽस्म्यहम् ||१५||
अकर्ताऽहमभोक्ताऽहमसङ्गः
परमेश्वरः |
सदा मत्सन्निधानेन
चेष्टते सर्वमिन्द्रियं ||१६||
आदिमध्यान्तमुक्तोऽहं
न बद्धोऽहं कदाचन |
स्वभावनिर्मलः शुद्धः
स एवाहं न संशयः ||१७||
ब्रह्मैवाहं न संसारी
मुक्तोऽहमिति भावयेत् |
अशक्नुवन्भावयितुं
वाक्यमेतत्सदाऽभ्यसेत् ||१८||
यदभ्यासेन तद्भावो
भवेद्भ्रमरकीटवत् |
अत्रापहाय सन्देहमभ्यसेत्कृतनिश्चयः
||१९||
ध्यानयोगेन मासैकाद्ब्रह्महत्यां
व्यपोहति |
संवत्सरं सदाऽभ्यासात्सिद्ध्यष्टकमवाप्नुयात्
|
यावज्जीवं सदाऽभ्यासाज्जीवन्मुक्तो
भवेद्यतिः ||२०||
नाहं देहो न च प्राणो
नेन्द्रियाणि तथैव च |
न मनोऽहं न बुद्धिश्च
नैव चित्तमहङ्कृतिः ||२१||
नाहं पृथ्वी न सलिलं
न च वह्निस्तथाऽनिलः |
न चाकाशो न शब्दश्च
न च स्पर्शस्तथा रसः ||२२||
नाहं गन्धो न रूपं
च न मायाऽहं न संसृतिः |
सदा साक्षिस्वरूपत्वाच्छिव
एवास्मि केवलः ||२३||
मय्येव सकलं जातं
मयि सर्वं प्रतिष्ठितम् |
मयि सर्वं लयं याति
तद्ब्रह्मास्म्यहमद्वयम् ||२४||
सर्वज्ञोऽहमनन्तोऽहं
सर्वेशः सर्वशक्तिमान् |
आनन्दः सत्यबोधोऽहमिति
ब्रह्मानुचिन्तनम् ||२५||
अयं प्रपञ्चो मिथ्यैव
सत्यं ब्रह्माहमव्ययम् |
अत्र प्रमाणं वेदान्ता
गुरवोऽनुभवस्तथा ||२६||
ब्रह्मैवाहं न संसारी
न चाहं ब्रह्मणः पृथक् |
नाहं देहो न मे देहः
केवलोऽहं सनातनः ||२७||
||इति श्रीमद् शङ्कराचार्यविरचितं ब्रह्मानुचिन्तनं
समाप्तं ||
.. ब्रह्मज्ञानावलीमाला ..
सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् .
ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये .. १..
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः .
सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः .. २..
नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः .
भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः .. ३..
नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते .
परमानन्दरूपोऽहमहमेवाहमव्ययः .. ४..
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च .
अखण्डानन्दरूपोऽहमहमेवाहमव्ययः .. ५..
प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः .
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः .. ६..
तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः .
मायातीतः परंज्योतिरहमेवाहमव्ययः .. ७..
नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः .
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः .. ८..
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा .
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः .. ९..
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् .
अनन्तानन्तरूपोऽहमहमेवाहमव्ययः .. १०..
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् .
परमात्मस्वरूपोऽहमहमेवाहमव्ययः .. ११..
निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः .
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः .. १२..
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः .
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः .. १३..
प्रज्ञानघन एवाहं विज्ञानघन एव च .
अकर्ताहमभोक्ताहमहमेवाहमव्ययः .. १४..
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च .
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः .. १५..
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः .
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः .. १६..
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ .
दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः .. १७..
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः .
स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः .. १८..
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च .
तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः .. १९..
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः .
अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः .. २०..
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः .
ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् .. २१..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
ब्रह्मज्ञानावलीमाला संपूर्णा ..
||पञ्चिकरणं ||
ॐ
श्रीमच्छंकराचार्यविरचितम् पञ्चीकरणम्
ॐ पञ्चीकृतंपञ्चमहाभूतानि तत्कार्यं
च सर्वं विराडित्युच्यते |
एतत्स्थुलशरिरमात्मनः |
ईन्द्रियैरर्थोपलब्धिर्जागरितम् |
तदुभयाभिमान्यात्मा विश्वः |
एतत् त्रयमकारः ||१||
अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्रणि
तत्कार्यं च पञ्च प्राणाः दशेन्द्रियाणि
मनोबुद्धिश्चेति सप्तदशकं लिंजम् भौतिकं
हिरण्यगर्भ इत्युच्यते |
एतत्सूक्ष्मशरिरमात्मनः ||२||
करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः
सविषयः स्वप्न इत्युच्यते |
यदुभयाभिमान्यात्मा तैजसः |
एतत् त्रयमुकारः ||३||
शरीरद्वयकारणमात्माज्ञानं
साभासमव्याकृतमित्युच्यते |
एतत् कारणशरीरमात्मनः |
तच्च न सन्नासन्नापि सदसन्न भिन्नं नाभिन्नं
नापि भिन्नाभिन्नं कुतश्चित्
न निरवयवं न सावयवं
नोभयं किंतु
केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् ||४||
सर्वप्रकारज्ञानोपसंहारे बुद्धेः
कारणात्मनाऽवस्थानं सुषुप्तिः |
तदुभयामिमान्यात्मा प्राज्ञः |
एतत् त्रयम् मकारः ||५||
अकार उकारे उकारो मकारे मकार ओंकारे
ओंकारोऽहम्येव |
अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः
नाज्ञानं नापि तत्कार्यं किंतु
नित्यशुद्धबुद्धमुक्तसत्यस्भावं
परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मै
वाहमस्मीत्यभेदेनावस्थानं समाधिः ||६||
तत्त्वमसि ब्रह्महमस्मि प्रज्ञानमानन्दं ब्रह्म
अयमात्मा ब्रह्म इत्यादिश्रुतिभ्यः ||७||
इति पञ्चीकरणं भवति ||
इति श्रीशङ्कराचार्यविरचितं पञ्चीकरणम् ||
पञ्चीकरणवार्त्तिकम्
श्रीसुरेश्वराचार्यकृत
ओंकारः सर्ववेदानां सारस्तत्त्वप्रकाशकः |
तेन चित्तसमाधानं मुमुक्षूणां प्रकाश्यते ||१||
आसीदेकं परं ब्रह्म नित्यमुक्तमवीक्रियम् |
तत्स्वमायासमावेशाद् बीजमव्याकृतात्मकम् ||२||
तस्मादाकाशमुत्पन्नं शब्दतन्मात्ररूपकम् |
स्पर्शात्मकस्ततो वायुस्तेजोरूपात्मकं ततः ||३||
आपो रसात्मिकास्तस्मात्ताभ्यो गन्धात्मिका महि |
शब्दैकगुणमाकाशं शब्दस्पर्शगुणो मरूत् ||४||
शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज उच्यते |
शब्दस्पर्शरूपरसगुणैरापश्चतुर्गुणाः ||५||
शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही |
तेभ्यः समभवत्सूत्रं भूतं सर्वात्मकं महत् ||६||
ततः स्थूलानि भूतानि पञ्च तेभ्यो विराडभूत् |
पञ्चीकृतानि भूतानि स्थूलानीत्युच्यते बुधैः ||७||
पृथिव्यादीनि भूतानि प्रत्येकं विभजेद् द्विधा |
एकैकं भागमादाय चतुर्धा विभजेत्पुनः ||८||
एकैकं भागमेकस्मिन् भूते संवेशयेत्क्रमात् |
ततश्चाकाशभूतस्य भागाः पञ्च भवन्ति हि ||९||
वाय्वादिभागाश्च्त्वारो वाय्वादिष्वेवमादिशेत् |
पञ्चीकरणमेतत्स्यादित्यहुस्तत्त्ववेदिनः ||१०||
पञ्चकृतानि भूतानि तत्कार्यं च विराड् भवेत् |
स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः ||११||
अधिदैवतमध्यात्ममधिभूतमिति त्रिधा |
एकं ब्रह्म विभागेन भ्रमाद्माति न तत्त्वत्तः ||१२||
इन्द्रियैरर्थविज्ञानं देवतानुग्रहान्तिवतैः |
शब्दादिविषयं ज्ञानं तज्जागरितमुच्यते ||१३||
श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यं शब्दलक्षणम् |
अधिभूतं तदित्युक्तं दिशस्तत्राधिदैवतम् ||१४||
त्वगध्यात्ममिति प्रोक्तं स्प्रष्टव्यं स्पर्शलक्षणम्
अधिभूतं तदित्युक्तं वायुस्तत्रधिदैवतम् ||१५||
चक्षुरध्यात्ममित्युक्तं द्रष्टव्यं रूपलक्षणम् |
अधिभूतं तदित्युक्तमादित्योऽत्राधिदैवतम् ||१६||
जिह्वाऽध्यात्मं तयाऽस्वाद्यमाधिभूतं रसात्मकम् |
वरूणो देवता तत्र जिह्वायामधिदैवतम् ||१७||
ध्राणमध्यात्ममित्युक्तं ध्रातव्यं गन्धलक्षणम् |
अधिभूतं तदित्युक्तं पृथिव्यत्राधिदैवतम् ||१८||
वागध्यात्ममिति प्रोक्तं वक्त्वयं शब्दलक्षणम् |
अधिभूतं तदित्युक्तमग्निस्तत्राधिदैवतम् ||१९||
हस्तावध्यात्ममित्युक्तमादातव्यं च यद्मवेत् |
अधिभूतं तदित्य्युक्तमिन्द्रस्तत्राधिदैचतम् ||२०||
पादावध्यात्ममित्युक्तं गन्तव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तं विष्णुस्तत्राधिदैवतम् ||२१||
पायुरिन्द्रियमध्यात्मं विसर्गस्तत्र यो भवेत् |
अधिभूतं तदित्युक्तम्ं मृत्युस्तत्राधिदैवतम् ||२२||
उपस्थेन्द्रियमध्यात्मं स्त्र्याद्यानन्दस्य कारणम्
अदिभूतं तदित्युक्तमधिदैवं प्रजापतिः ||२३||
मनोऽध्यात्ममिति प्रोक्तं मन्तव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तं चन्द्रस्तत्राधिदैवतम् ||२४||
बुद्धिरध्यात्ममित्युक्तं बोद्धव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तमधिदैवं बृहस्पतिः ||२५||
अहंकारस्तथाऽध्यात्ममहंकर्तव्यमेव च |
अधिभूतं तदित्युक्तं रूद्रस्तत्राधिदैवतम् ||२६||
चितमध्यात्ममित्युक्तं चेतव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तं क्षेत्रज्ञोऽत्राअधिदैवतम् ||२७||
तमोऽध्यात्ममत्मिति प्रोक्तं विकारस्तत्र यो भवेत् |
अधिभूतं तदित्युक्तमीश्वरोऽत्राधिदैवतम् ||२८||
बाह्यान्तःकरणैरेवं देवतानुग्रहान्वितैः |
स्वं स्वं च विष्यज्ञानं तज्जागरितमुच्यते ||२९
येयं जागरितावस्था शरीरं करणाश्रयम् |
यस्तयोरभिमानी स्यद्विश्व इत्यभिधीयते ||३०||
विश्वं वैराजरूपेण पश्येद्मेदनिवृत्तये |
ज्ञानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ||३१||
श्रोत्रत्वङ्नयनघ्राणजिह्वा धीन्द्रियपञ्चकम् |
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ||३२||
मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् |
संकल्पारव्यं मनोरूपं बुद्धिर्निश्चयरूपिणी ||३३||
अभिमानाअत्मकस्तद्वदहंकारः प्रकीर्तितः |
अनुसंधानरूपम्ं च चित्तमित्यभिधीयते ||३४||
प्राणोऽपानस्तथा व्यान उदानारव्यस्तथैव च |
समानश्चेति पञ्चैताः किर्तिताः प्रणवृत्तयः ||३५||
खवाव्यग्न्यम्बुक्षितयो भूतसूक्ष्माणि पञ्च च |
अविद्याकामकर्माणि लिङ्गं पुयेष्टकं विदुः ||३६||
एतत्सूक्ष्मशरीरं स्यान्मायिकं प्रात्यगात्मनः |
करणोपरमे जाग्रत्संकारोत्थं प्रबोधवत् ||३७||
ग्राह्यग्राहकरूपेण स्फुरणं स्वप्न उच्यते |
अभिमानी तयोर्यस्तु तैजसः परिकीर्तितः ||३८||
हिरण्यगर्भरूपेण तैजसं चिन्तयेद् बुधः |
चैतन्याभासखचितं शरीरद्वयकारणम् ||३९||
आत्माज्ञानं तदव्यक्तमव्याकृतमितीर्यते |
न सन्नासन्न सदसद्मिन्नाभिन्नं न चात्मनः ||४०||
न सभागं न निर्भागं न चाप्युभयरूपकम् |
ब्रह्मात्मैकत्वविज्ञानहेयं मिथ्यात्वकारणात् ||४१||
ज्ञानानामुपसंहारो बुद्वेः करणतास्थितिः |
वटबीजे वटस्येव सुषुप्तिरभिधीयते ||४२||
अभिमानी तयोर्यस्तु प्राज्ञ इत्यभिधीयते |
जगत्कारणरूपेण प्राज्ञात्मानं विचिन्तयेत् ||४३||
विश्वतैजससौषुप्त विराट् सूत्राक्षरात्मभिः |
विभिन्नमिव संमोहादेकं तत्त्वं चिदात्मकम् ||४४||
विश्वादिकत्रयं यस्माद्वैराजादित्रयात्मकम् |
एकत्वेनैव संपश्येदन्याभावप्रसिद्धये ||४५||
ॐकारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् |
वाच्यवाचकताभेदाद्मे देनानुपलाब्धितः ||४६||
अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः |
प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ||४७||
समाधिकालात्प्रगेवं विचिन्त्यातिप्रयत्नतः |
स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ||४८||
अकारं पुरूषं विश्वमुकारे प्रविलापयेत् |
उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत् ||४९||
मकारं करणं प्राज्ञं चिदात्मनि विलापयेत् |
चिदात्माऽहं नित्यशुद्धबुद्धमुक्तसदद्वयः ||५०||
परमानन्दसंदोहवासुदेवोऽहमोमिति |
ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत् ||५१||
चिदात्मनि विलीनं चेत्तच्चित्तं नैव चालयेत् |
पूर्णबोधात्मनाऽसीत पूर्णाचलसमुद्रवत् ||५२||
एवं समाहितो योगी श्रद्धभक्तिसमन्वितः |
जितेन्द्रियो जितक्रोधः पश्येदात्मानमद्वयम् ||५३||
आदिमध्यावसानेषु दुःखं सर्वमिदं यतः |
तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवेत्सदा ||५४||
यः पश्येत्सर्वगं शान्तमानन्दात्मानमद्वयम् |
न तेन किंचिदाप्तत्यं ज्ञातव्यं वावशिष्यते ||५५||
कृतकृत्यो भवेद्विद्वाञ्जीवन्मुक्तो भवेत्सदा |
आत्मन्येवारूढभावो जगदेतन्न वीक्षते ||५६||
कदाचिदव्यवहारे तु द्वैतं यद्यपि पश्यति |
बोधात्मव्यतिरेकेण न पश्यति चिदन्वयात् ||५७||
किन्तु पश्यति मिथयैव दिङ् मोहेन्दुविभागवत् |
प्रतिभासः शरीरस्य तदाऽप्रारब्धसंक्षयात् ||५८||
तस्य तावदेव चिरमित्यादि श्रुतिरब्रवीत् |
प्रारब्धस्यानुवृत्तिस्तु मुक्तस्याभासमात्रतः ||५९||
सर्वदा मुक्त एव स्याज्ज्ञाततत्त्वः पुमानसौ |
प्रारब्धभोगशेषस्य संक्षये तदनन्तरम् ||६०||
अविद्यातिमिरातीतं सर्वाभासविवर्जितम् |
चितन्यममलं शुद्धं मनोवाचामगोचरम् ||६१||
वाच्यवाचकनिर्मुक्तं हेयोपादेयवर्जितम् |
प्रज्ञानघनमानन्दं वैष्णवं पदमश्नुते ||६२||
इदं प्रकरणं यत्नाज्ज्ञातव्यं भगवत्तमैः |
अमानित्वादिनियमैर्गुरूभक्तिप्रसादतह् ||६३||
इमां विद्यां प्रयत्नेन योगी संध्यासु सर्वदा |
समभ्यसेदिहामुत्रभोगानासक्तधीः सुधीः ||६४||
इति श्रीमत्सुरेश्वराचार्यविरचितं पञ्चीकरणवार्त्तिकं संपूर्णम् ||
||प्रश्नोत्तररत्नमालिका
||
कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् |
अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ||१||
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं |
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ||२||
त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः |
किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ||३||
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं |
कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ||४||
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव |
किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ||५||
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः |
का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ||६||
कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी |
कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ||७||
पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः |
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ||८||
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन |
किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ||९||
किं जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः |
को जागर्ति विवेकी को निद्रा मूढता जन्तोः ||१०||
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः |
कथय पुनः के शशिनः किरणसमाः सज्जना एव ||११||
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या |
किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ||१२||
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री |
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ||१३||
किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं |
आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ||१४||
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने |
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ||१५||
काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा |
का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ||१६||
कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं |
मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ||१७||
कः साधुः सदवृत्तः कमधममाचक्षते त्वसद्वृत्तं |
केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ||१८||
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय |
कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ||१९||
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य |
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ||२०||
कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति |
को मूको यः काले प्रियाणि वक्तुं न जानाति ||२१||
किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् |
कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ||२२||
विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च |
कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ||२३||
चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं |
किं तद्वदन्ति भूयो विधुततमसा विशेषेण ||२४||
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं |
वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ||२५||
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं |
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ||२६||
कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः |
कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ||२७||
विद्वन्मनोहरा का सत्कविता बोधवनिता च |
कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ||२८||
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय |
त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ||२९||
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां |
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ||३०||
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन |
इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ||३१||
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा |
रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ||३२||
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः |
चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ||३३||
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं |
किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ||३४||
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा |
को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ||३५||
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं |
कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ||३६||
का च सभा परिहार्या हीना या वृद्धसचिवेन |
इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ||३७||
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च |
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ||३८||
का कल्पलता लोके सच्छिष्यायार्पिता विद्या |
कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ||३९||
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः |
किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ||४०||
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां |
किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ||४१||
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा |
को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ||४२||
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः |
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ||४३||
संभावितस्य मरणादधिकं किं दुर्यशो भवति |
लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ||४४||
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् |
कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ||४५||
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः |
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ||४६||
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं |
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ||४७||
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः |
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ||४८||
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते |
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ||४९||
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः |
कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ||५०||
को धन्यः संन्यासी को मान्यः पण्डितः साधुः |
कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ||५१||
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् |
कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ||५२||
किं दुष्करं नराणां यन्मनसो निग्रहः सततं |
को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ||५३||
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता |
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ||५४||
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः |
को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ||५५||
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः |
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ||५६||
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः |
को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ||५७||
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं |
कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ||५८||
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि |
का चानिर्वाच्या माया किं कल्पितं द्वैतं ||५९||
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः |
वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ||६०||
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः |
गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ||६१||
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः |
कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ||६२||
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि |
केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ||६३||
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् |
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ||६४||
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः |
कश्च भगवान्महेशः शञ्करनारायणात्मैकः ||६५||
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं |
मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ||६६||
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां |
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ||६७||
||इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ||
||धन्याष्टकं
||
तज्ज्ञानं प्रशमकरं यदिन्द्रियाणां
तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् |
ते धन्या भुवि परमार्थनिश्चितेहाः
शेषास्तु भ्रमनिलये परिभ्रमन्तः ||१||
आदौ विजित्य विषयान्मदमोहराग-
द्वेषादिशत्रुगणमाहृतयोगराज्याः |
ज्ञात्वा मतं समनुभूयपरात्मविद्या-
कान्तासुखं वनगृहे विचरन्ति धन्याः ||२||
त्यक्त्वा गृहे रतिमधोगतिहेतुभूताम्
आत्मेच्छयोपनिषदर्थरसं पिबन्तः |
वीतस्पृहा विषयभोगपदे विरक्ता
धन्याश्चरन्ति विजनेषु विरक्तसङ्गाः ||३||
त्यक्त्वा ममाहमिति बन्धकरे पदे द्वे
मानावमानसदृशाः समदर्शिनश्च |
कर्तारमन्यमवगम्य तदर्पितानि
कुर्वन्ति कर्मपरिपाकफलानि धन्याः ||४||
त्यक्त्वईषणात्रयमवेक्षितमोक्षमर्गा
भैक्षामृतेन परिकल्पितदेहयात्राः |
ज्योतिः परात्परतरं परमात्मसंज्ञं
धन्या द्विजारहसि हृद्यवलोकयन्ति ||५||
नासन्न सन्न सदसन्न महसन्नचाणु
न स्त्री पुमान्न च नपुंसकमेकबीजम् |
यैर्ब्रह्म तत्सममुपासितमेकचित्तैः
धन्या विरेजुरित्तरेभवपाशबद्धाः ||६||
अज्ञानपङ्कपरिमग्नमपेतसारं
दुःखालयं मरणजन्मजरावसक्तम् |
संसारबन्धनमनित्यमवेक्ष्य धन्या
ज्ञानासिना तदवशीर्य विनिश्चयन्ति ||७||
शान्तैरनन्यमतिभिर्मधुरस्वभावैः
एकत्वनिश्चितमनोभिरपेतमोहैः |
साकं वनेषु विजितात्मपदस्वरुपं
तद्वस्तु सम्यगनिशं विमृशन्ति धन्याः ||८||
||इति श्रीमद् शङ्कराचार्यविरचितं धन्याष्टकं समाप्तम् ||
||कौपीन
पंचकं ( शंकराचार्य) ||
कौपीन पंचकम्
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः |
विशोकमन्तःकरणे चरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||१||
Roaming ever in the grove of Vedanta,
Ever pleased with his beggar's morsel,
Wandering onward, his heart free from sorrow,
Blest indeed is the wearer of the loin-cloth | (1)
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः |
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||२||
Sitting at the foot of a tree for shelter,
Eating from his hands his meagre portion,
Spurning wealth like a patched-up garment,
Blest indeed is the wearer of the loin-cloth | (2)
स्वानन्दभावे परितुष्टिमन्तः
सुशान्तसर्वेन्द्रियवृत्तिमन्तः |
अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||३||
Satisfied fully by the Bliss within him,
Curbing wholly the cravings of his senses,
Delighting day and night in the bliss of Brahman,
Blest indeed is the wearer of the loin-cloth | (3)
देहादिभावं परिवर्तयन्तः
स्वात्मानमात्मन्यवलोकयन्तः |
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||४||
Witnessing the changes of mind and body,
Naught but the Self within him beholding,
Heedless of outer, of inner, of middle,
Blest indeed is the wearer of the loin-cloth | (4)
ब्रह्माक्षरं पावनमुच्चरन्तो
ब्रह्माहमस्मीति विभावयन्तः |
भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||५||
Chanting Brahman, the word of redemption,
Meditating only on `I am Brahman',
Living on alms and wandering freely,
Blest indeed is the wearer of the loin-cloth | (5)
||इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं संपूर्णम् ||
.. ध्वन्यालोकः ४ ..
एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने
प्रयोजनान्तरमुच्यते - - -
ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः .
अनेनानन्त्यमायाति कवीनां प्रतिभागुणः .. १..
य एष ध्वनेर्गुणीभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फला-
न्तरं कविप्रतिभानन्त्यम् .
कथमिति चेत् - - -
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता .
वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि .. २..
अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती
वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति . तथाह्यविव-
क्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयेण नवत्वं पूर्वार्थानुगमेऽपि
यथा - - -
स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोर्मिसरसः .
गतानामारम्भः किसलयितलीलापरिमलः
स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ..
इत्यस्य,
सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः .
नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ..
इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणा-
पूर्वत्वमेव प्रतिभासते. तथा - - -
यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी .
श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ..
इत्यस्य,
स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते .
महद्भिरपि मातङ्गैः सिंहः किमभिभूयते ..
इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्र-
येण नवत्वम् . विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं
यथा - - -
निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधू-
र्बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता .
वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः
साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ..
इत्यादेः श्लोकस्य,
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् .
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ..
इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् . यथा वा - - - ' तरङ्गभ्रूभङ्गा'
इत्यादिश्लोकस्य ' नानाभङ्गिभ्रमद्भ्रूः' इत्यादिश्लोकापेक्षयान्यत्वम् .. २..
युक्त्याऽनयानुसर्तव्यो रसादिर्बहुविस्तरः .
मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् .. ३..
बहुविस्तारोऽयं रसभावतदाभासतत्प्रशमलक्षणो मार्गो यथास्वं
विभावानुभावप्रभेदकलनया यथोक्तं प्राक् . स सर्व एवानया युक्त्यानु-
सर्तव्यः . यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्र-
संख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मितोऽप्यनन्ततामेति . रसभावा-
दीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् .
तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्त-
दिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते . प्रतिपादितं चैतच्चित्र-
विचारावसरे . गाथा चात्र कृतैव महाकविना - - -
अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति .
अर्थविशेषान् सा जयति विकटकविगोचरा वाणी ..
तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादितम् .
एतदेवोपपादयितुमुच्यते - - -
दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् .
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः .. ४..
तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणन-
रूपव्यङ्ग्यप्रकारसमाश्रयेण नवत्वम् . यथा - - - ' धरणीधारणायाधुना
त्वं शेषः' इत्यादेः .
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः .
यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् ..
इत्यादिषु सत्स्वपि . तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यसमाश्र-
येण नवत्वम् . यथा - - - ' एवंवादिनि देवर्षौ' इत्यादि श्लोकस्य .
कृते वरकथालापे कुमार्यः पुलकोद्गमैः .
सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ..
इत्यादिषु सत्सु अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविप्रौढो-
क्तिनिर्मितशरीरत्वेन नवत्वम् . यथा - - - ' सज्जयति सुरभिमासो' इत्यादेः .
सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः .
रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ..
इत्यादिषु सत्स्वप्यपूर्वत्वमेव .
अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविनिबद्धवक्तृप्रौढोक्तिमात्र-
निष्पन्नशरीरत्वेन नवत्वम् . यथा ' ' वाणिज्य हस्तिदन्ताः' इत्यादिगा-
थार्थस्य .
करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती .
हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ..
एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव .
यथा व्यङ्ग्यभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते,
तथा व्यञ्जकभेदसमाश्रयेणापि . तत्तु ग्रन्थविस्तरभयान्न लिख्यते,
स्वयमेव सहृदयैरभ्यूह्यम् . अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते - - -
व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि .
रसादिमय एकस्मिन् कविः स्यादवधानवान् .. ५..
अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रे शब्दानां सम्भव-
त्यपि कविरपूर्वार्थलाभार्थी रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे
यत्नादवदधीत . रसभावतदाभासरूपे हि व्यङ्ग्ये तद्व्यञ्जकेषु च यथा-
निर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वं काव्यं
सम्पद्यते . तथा च रामायणमहाभारतादिषु सङ्ग्रामादयः पुनःपुनर-
भिहिता अपि नवनवाः प्रकाशन्ते . प्रबन्धे चाङ्गी रस एक एवोपनि-
बध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति . कस्मिन्निवेति
चेत् - - - यथा रामायणे यथा वा महाभारते . रामायणे हि करुणो रसः
स्वयमादिकविना सूत्रितः ' शोकः श्लोकत्वमागतः' इत्येवंवादिना .
निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता .
महाभारतेऽपि शास्त्रकाव्यरूपच्छायान्वयिनि वृष्णिपाण्डवविरसावसा-
नवैमनस्यदायिनीं समाप्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्यं
प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च
मुख्यतया विवक्षाविषयत्वेन सूचितः . एतच्चांशेन विवृतमेवान्यैर्व्या-
ख्याविधायिभिः . स्वयमेव चैतदुद्गीर्णं तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता
लोकमतिविमलज्ञानालोकदायिना लोकनाथेन - - -
यथा यथा विपर्येति लोकतन्त्रमसारवत् .
तथा तथा विरागोऽत्र जायते नात्र संशयः ..
इत्यादि बहुशः कथयता . ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः
पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षा-
विषय इति महाभारततात्पर्यं सुव्यक्तमेवावभासते . अङ्गाङ्गिभावश्च
यथा रसानां तथा प्रतिपादितमेव .
पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषा-
र्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् . ननु महाभारते यावान्वि-
वक्षाविषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत्तत्र दृश्यते, प्रत्युत
सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भत्वं च महाभारतस्य तस्मिन्नुद्देशे
स्वशब्दनिवेदितत्वेन प्रतीयते . अत्रोच्यते - - - सत्यं शान्तस्यैव रसस्या-
ङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न स्व-
शब्दाभिधेयत्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन - - -
' भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः'
इत्यस्मिन् वाक्ये . अनेन ह्ययमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र
महाभारते पाण्डवादिचरितं यत्कीर्त्यते तत्सर्वमवसानविरसमविद्याप्र-
पञ्चरूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान्वासुदेवोऽत्र कीर्त्यते .
तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभू-
तिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु
केषुचित्सर्वात्मना प्रतिनिविष्टधियः . तथा चाग्रे - - पश्यत निःसारतां
संसारस्येत्यमुमेवार्थं द्योतयन् स्फुटमेवावभासते व्यञ्जकशक्त्यनुगृहीतश्च
शब्दः . एवंविधमेवार्थं गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते - -
' स हि सत्यम्' इत्यादयः .
अयं च निगूढरमणीयोऽर्थो महाभारतावसाने हरिवंशवर्णनेन
समाप्तिं विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः .
अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल
एव सांसारिको व्यवहारः पूर्वपक्षीकृतो न्यक्षेण प्रकाशते . देवतातीर्थ-
तपःप्रभृतीनां च प्रभावातिशयवर्णनं तस्यैव परब्रह्मणः प्राप्त्युपायत्वेन
तद्विभूतित्वेनैव देवताविशेषाणामन्येषां च . पाण्डवादिचरितवर्णन-
स्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च
भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्यु-
पायत्वमेव परम्परया . वासुदेवादिसञ्ज्ञाभिधेयत्वेन चापरिमितशक्त्या-
स्पदं परं ब्रह्म गीतादिप्रदेशान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथु-
रप्रादुर्भावानुकृतसकलस्वरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव,
सनातनशब्दविशेषितत्वात् . रामायणादिषु चानया सञ्ज्ञया भगवन्मू-
र्त्यन्तरे व्यवहारदर्शनात् . निर्णीतश्चायमर्थः शब्दतत्त्वविद्भिरेव .
तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवद्व्यतिरेकिणः सर्वस्यान्य-
स्यानित्यतां प्रकाशयता मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये,
काव्यनये च तृष्णाक्षयसुखपरिपोषलक्षणः शान्तो रसो महाभारतस्या-
ङ्गित्वेन विवक्षित इति सुप्रतिपादितम् . अत्यन्तसारभूतत्वाच्चायमर्थो
व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन . सारभूतो ह्यर्थः स्वशब्दानभि-
धेयत्वेन प्रकाशितः सुतरामेव शोभामावहति . प्रसिद्धिश्चेयमस्त्येव
विदग्धविद्वत्परिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न
साक्षाच्छब्दवाच्यत्वेन . तस्मात्स्थितमेतत् - - - अङ्गिभूतरसाद्याश्रयेण
काव्ये क्रियमाणे नवार्थलाभो भवति बन्धच्छाया च महती सम्पद्यत
इति . अत एव च रसानुगुणार्थविशेषोपनिबन्धमलङ्कारान्तरविरहेऽपि
छायातिशययोगि लक्ष्ये दृश्यते . यथा - - -
मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः .
येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ ..
इत्यादौ . अत्र ह्यद्भुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं
छायातिशयं पुष्णाति . तत्र ह्येकचुलके सकलजलधिसन्निधानादपि
दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् . क्षुण्णं हि
वस्तु लोकप्रसिद्ध्याद्भुतमपि नाश्चर्यकारि भवति . न चाक्षुण्णं वस्तूप-
निबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि . तद्यथा - - -
स्विद्यति रोमाञ्चते वेपते रथ्यायान्तुलाग्रेण .
स पार्श्वोऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ..
एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति, सा त्वां स्पृष्ट्वा स्विद्य-
ति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानान्मनागपि नो जायते .
तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा
प्रतिपादितम् . गुणीभूतव्यङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारा-
स्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव . तत्त्वतिविस्तारका-
रीति नोदाहृतं सहृदयैः स्वयमुत्प्रेक्षणीयम् .. ५..
ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् .
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः .. ६..
सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः, तस्मिंस्त्व-
सति न किञ्चिदेव कवेर्वस्त्वस्ति . बन्धच्छायाप्यर्थद्वयानुरूपशब्द-
सन्निवेशोऽर्थप्रतिभानाभावे कथमुपपद्यते . अनपेक्षितार्थविशेषाक्षररचनैव
बन्धच्छायेति नेदं नेदीयः सहृदयानाम् . एवं हि सत्यर्थानपेक्षचतुर-
मधुरवचनरचनायामपि काव्यव्यपदेशः प्रवर्तेत . शब्दार्थयोः साहित्येन
काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत् - - - परोपनिबद्धार्थ-
विरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्द- र्भाणाम् .. ६..
न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति
प्रतिपादयितुमुच्यते - - -
अवस्थादेशकालादिविशेषैरपि जायते .
आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः .. ७..
शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभा-
वतः . स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदा-
द्देशभेदात्कालभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति . तैश्च तथाव्यव-
स्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि ताव-
दुपनिबध्यमानैर्निरवधिः काव्यार्थः सम्पद्यते . तथा ह्यवस्थाभेदान्नवत्वं
यथा - - - भगवती पार्वती कुमारसम्भवे ' सर्वोपमाद्रव्यसमुच्चयेन' इत्या-
दिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शम्भो-
र्लोचनगोचरमायान्ती ' वसन्तपुष्पाभरणं वहन्ती' मन्मथोपकरणभूतेन
भङ्ग्यन्तरेणोपवर्णिता . सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना ' तां
प्राङ्मुखीं तत्र निवेश्य तन्वीम्' इत्याद्युक्तिभिर्नवेनैव प्रकारेण निरूपि-
तरूपसौष्ठवा . न च ते तस्य कवेरेकत्रैवासकृत्कृता वर्णनप्रकारा अपुन-
रुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते . दर्शितमेव चैतद्वि-
षमबाणलीलायाम् - - -
न च तेषां घटतेऽवधिः, न च ते दृश्यन्ते कथमपि पुनरुक्ताः .
ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ..
अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं
रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम् . तच्चोचितचेतनविषयस्वरूप-
योजनयोपनिबध्यमानमन्यदेव सम्पद्यते . यथा कुमारसम्भव एव
पर्वतस्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षिप्रियोक्तिषु चेतनतत्स्वरूपा-
पेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति . प्रसिद्धश्चायं सत्कवीनां मार्गः .
इदं च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् .
चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव . चेतना-
नामवस्थाभेदेऽप्यवान्तरावस्थाभेदान्नानात्वम् . यथा कुमारीणां कुसुम-
शरभिन्नहृदयानामन्यासां च . तत्रापि विनीतानामविनीतानां च .
अचेतनानां च भावानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुप-
निबध्यमानमानन्त्यमेवोपयाति . यथा - - -
हंसानां निनदेषु यैः कवलितैरासज्यते कूजता-
मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः .
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ..
एवमन्यत्रापि दिशानयानुसर्तव्यम् .
देशभेदान्नानात्वमचेतनानां तावत् . यथा वायूनां नानादिग्देश-
चारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव . चेतनानामपि
मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेधितानां परस्परं महा-
न्विशेषः समुपलक्ष्यत एव . स च विविच्य यथायथमुपनिबध्यमान-
स्तथैवानन्त्यमायाति . तथा हि - - - मानुषाणामेव तावद्दिग्देशादि-
भिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः
शक्यते गन्तुम्, विशेषतो योषिताम् . उपनिबध्यते च तत्सर्वमेव
सुकविभिर्यथाप्रतिभम् .
कालभेदाच्च नानात्वम् . यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतना-
नाम् . चेतनानां चौत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव .
स्वालक्षण्यप्रभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनं प्रसिद्धमेव .
तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थ-
स्यापादयति .
अत्र केचिदाचक्षीरन् - - - यथा सामान्यात्मना वस्तूनि वाच्यतां
प्रतिपद्यन्ते न विशेषात्मना ; तानि हि स्वयमनुभूतानां सुखादीनां
तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वपरानुभूतरूपसामान्य-
मात्राश्रयेणोपनिबध्यन्ते कविभिः . न हि तैरतीतमनागतं वर्तमानञ्च
परिचितादिस्वलक्षणं योगिभिरिव प्रत्यक्षीक्रियते ; तच्चानुभाव्यानु-
भवसामान्यं सर्वप्रतिपत्तृसाधारणं परिमितत्वात्पुरातनानामेव गोचरी-
भूतम्, तस्याविषयत्वानुपपत्तेः . अत एव स प्रकारविशेषो यैरद्यतनै-
रभिनवत्वेन प्रतीयते तेषामभिमानमात्रमेव भणितिकृतं वैचित्र्यमात्रम-
त्रास्तीति .
तत्रोच्यते - - - यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च
परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति,
तदयुक्तम् ; यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किङ्कृत-
स्तर्हि महाकविनिबध्यमानानां काव्यार्थानामतिशयः . वाल्मीकिव्य-
तिरिक्तस्यान्यस्य कविव्यपदेश एव वा सामान्यव्यतिरिक्तस्या-
न्यस्य काव्यार्थस्याभावात्, सामान्यस्य चादिकविनैव प्रदर्शित-
त्वात् . उक्तिवैचित्र्यान्नैष दोष इति चेत् - - - किमिदमुक्तिवैचित्र्यम् ?
उक्तिर्हि वाच्यविशेषप्रतिपादि वचनम् . तद्वैचित्र्ये कथं न वाच्यवै-
चित्र्यम् . वाच्यवाचकयोरविनाभावेन प्रवृत्तेः . वाच्यानां च काव्ये-
प्रतिभासमानानां यद्रूपं तत्तु ग्राह्यविशेषाभेदेनैव प्रतीयते . तेनो-
क्तिवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् .
तदयमत्र सङ्क्षेपः - - -
वाल्मीकिव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् .
इष्यते प्रतिभार्थेषु तत्तदानन्त्यमक्षयम् ..
किञ्च, उक्तिवैचित्र्यं यत्काव्यनवत्वे निबन्धनमुच्यते तदस्मत्पक्षा-
नुगुणमेव . यतो यावानयं काव्यार्थानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः
स सर्व एव पुनरुक्तिवैचित्र्याद् द्विगुणतामापद्यते . यश्चायमुपमाश्लेषादि-
रलङ्कारवर्गः प्रसिद्धः स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानव-
धिर्धत्ते पुनः शतशाखताम्. भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती
प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामान-
न्त्यमापादयति . यथा ममैव - - -
मम मम इति भणतो व्रजति कालो जनस्य .
तथापि न देवो जनार्दनो गोचरो भवति मनसः .. ७..
इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्था-
नाम् . इदं तूच्यते - - -
अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् .
यत्प्रदर्शितं प्राक्
भूम्नैव दृश्यते लक्ष्ये - -
न तच्छक्यमपोहितुम् .
- - तत्तु भाति रसाश्रयात् .. ८..
तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय - - -
रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी .
अन्वीयते वस्तुगतिर्देशकालादिभेदिनी .. ९..
तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् .
वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः .
निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव .. १०..
यथा हि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा
सती पुनरिदानीं परिक्षीणा परपदार्थनिर्माणशक्तिरिति न शक्यतेऽभि-
धातुम् . तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदा-
नीं परिहीयते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते . इत्थं
स्थितेऽपि
संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् .
स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः . किन्तु - - -
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता .. ११..
कथमिति चेत् - - -
संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् .
आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् .. १२..
संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना
सादृश्यम् . तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च
त्रिधा व्यवस्थितम् . किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः
प्रतिबिम्बकल्पम्, अन्यदालेख्यप्रख्यम्, अन्यत्तुल्येन शरीरिणा
सदृशम् .
तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् .
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः .. १३..
तत्र पूर्वं प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना . यत-
स्तदनन्यात्म तात्त्विकशरीरशून्यम् . तदनन्तरमालेख्यप्रख्यमन्यसाम्यं
शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् . तृतीयं तु विभिन्नकम-
नीयशरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना .
न हि शरीरी शरीरिणान्येन सदृशोऽप्येक एवेति शक्यते वक्तुम् .. १३..
एतदेवोपपादयितुमुच्यते - - -
आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि .
वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् .. १४..
तत्त्वस्य सारभूतस्यात्मनः सद्भावेऽन्यस्य पूर्वस्थित्यनुयाय्यपि
वस्तु भातितराम् . पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां
शोभां पुष्यति . न तु पुनरुक्तत्वेनावभासते . तन्व्याः शशिच्छायमि-
वाननम् .
एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सी-
मानः . पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव
दोष इति प्रतिपादयितुमुच्यते - - -
अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी .
नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सा न दुष्यति .. १५..
न हि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घट-
यितुं शक्यन्ते . तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां
विरुध्यन्ति . तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि .
तस्मात् - -
यदपि तदपि रम्यं यत्र लोकस्य किञ्चित्-
स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते .
स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते .
अनुगतमपि पूर्वच्छायया वस्तु तादृक्
सुकविरुपनिबध्नन्निन्द्यतां नोपयाति .. १६..
तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृक्षं सुकविर्विवक्षितव्य-
ङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्द्यतां
नैव याति . तदित्थं स्थितम् - - -
प्रतीयन्तां वाचो निमितविविधार्थामृतरसा
न सादः कर्तव्यः कविभिरनवद्ये स्वविषये .
सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण
इति भावयित्वा .
परस्वादानेच्छाविरतमनसो वस्तु सुकवेः
सरस्वत्येवैषा घटयति यथेष्टं भगवती .. १७..
परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेष्टं
घटयति वस्तु . येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन
प्रवृत्तिस्तेषां परोपरचितार्थपरिग्रहनिःस्पृहाणां स्वव्यापारो न क्वचिदु-
पयुज्यते . सैव भगवती सरस्वती स्वयमभिमतमर्थमाविर्भावयति .
एतदेव हि महाकवित्वं महाकवीनामित्योम् .
इत्यक्लिष्टरसाश्रयोचितगुणालङ्कारशोभाभृतो
यस्माद्वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते .
काव्याख्येऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः
सोऽयं कल्पतरूपमानमहिमा भोग्योऽस्तु भव्यात्मनाम् ..
सत्काव्यतत्त्वनयवर्त्मचिरप्रसुप्त
कल्पं मनस्सु परिपक्वधियां यदासीत् .
तद्व्याकरोत्सहृदयोदयलाभहेतो-
रानन्दवर्धन इति प्रथिताभिधानः ..
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः .
google useful site:

विरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्द-
र्भाणाम् .. ६..

.. भर्तृहरिविरचित शृंगारशतक ..
|| श्री ||
वसंततिलका
शम्भुः स्वयम्भुहरयो हरिणेक्षणानांयेनाक्रियन्त सततं गृहकर्मदासाः ||
वाचामगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते कुसुमायुधाय || १||
शिखरिणीक्वचित्सुभ्रूभङ्गैः क्वचिदपि च लज्जापरिणतैःक्वचिद् भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ||
कुमारीणामेभिर्वदनकमलैर्नेत्रचलितैः
स्फुरन्नीलाब्जानां प्रकरपरिपूर्णा इव दिशः || २||
अनुष्टुभ्मुग्धे!धानुष्कता केयमपूर्वा त्वयि दृश्यते |यया विध्यसि चेतांसि गुणैरेव न सायकैः || ३||
शिखरिणीअनाघ्रातं पुष्पं;किसलयमलूनं कररुहै-रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ||
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः || ४||
शिखरिणी
स्मितं किञ्चिद् वक्त्रे सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ||
गतानामारम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः?|| ५||
शार्दूलविक्रीडित
व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाऽहिना वरमहं दष्टो, न तच्चक्षुषा ||
दष्टे सन्ति चिकित्सका दिशि- दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् || ६||
वंशस्थ
स्मितेन भावेन च लज्जया भिया
पराङ्मुखैरर्धकटाक्षवीक्षणैः ||
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः || ७||
शालिनीभ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाःस्निग्धा वाचो लज्जिताश्चैव हासाः ||
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद् भूषणं चायुधं च || ८||
शार्दूलविक्रीडितवक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचनेवर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ||
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् || ९||
शार्दूलविक्रीडितद्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखंघ्रातव्येष्वपि किं?तदास्यपवनः, श्रव्येषु किं?तद्वचः ||
किं स्वाद्येषु?तदोष्ठपल्लवरसः;स्पृश्येषु किं ?तद्वपुः
ध्येयं किं?नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमाः || १०||
वसन्ततिलकाएताश्चलद्वलयसंहतिमेखलोत्थझंकारनूपुरपराजितराजहंस्यः ||
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः || ११||
दोधककुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा |नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ?|| १२||
वसन्ततिलकानूनं हि ते कविवरा विपरीतबोधाये नित्यमाहुरबला इति कामिनीस्ताः ||
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ?|| १३||
अनुष्टुभ्नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः |यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते || १४||
शार्दूलविक्रीडितकेशाः संयमिनः श्रुतेरपि परं पारं गते लोचनेअन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ||
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा
वित्थं तन्वि!वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः || १५||
अनुष्टुभ्सति प्रदीपे सत्यग्नौ सत्सु नानामणिष्वपि |विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् || १६||
शार्दूलविक्रीडितउद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलतेरागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ||
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थाऽपि करोति तापमधिकं रोमावली केन सा ?|| १७||
अनुष्टुभ्
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः |
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा || १८||
अनुष्टुभ्
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता |
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा || १९||
वसंततिलका
तस्याः स्तनौ यदि घनौ, जघनं च हारि
वक्त्रं च चारु तव चित्त किमाकुलत्वम् ||
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः || २०||
वसन्ततिलकासंमोहयन्ति मदयन्ति विडम्बयन्तिनिर्भर्त्सयन्ति रमयन्ति विषादयन्ति ||
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति || २१||
रत्थोद्धतातावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः |यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः || २२||
मालिनीवचसि भवति सङ्गत्यागमुद्दिश्य वार्ताश्रुतिमुखमुखराणां केवलं पण्डितानाम् ||
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ?|| २३||
आर्यास्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतिम् |यस्मात्तपसोऽपि फलं स्वर्गस्तस्यापि फलं तथाप्सरसः || २४||
अनुष्टुभ्अजितात्मसु सम्बद्धः समाधिकृतचापलः |भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते || २५||
स्रग्धरासन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेएन्द्रियाणांलज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ||
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति || २६||
शार्दूलविक्रीडित
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः
तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ||
शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः
तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् || २७||
उपजाति
सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ||
अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं ते पिबतीव चन्द्रः || २८||
शिखरिणी
असाराः सन्त्वेते विरसविरसाश्चैव विषया
जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति ||
तथाप्यन्तस्तत्त्वे प्रणिहितधियामप्यनबलः
तदीयो नाख्येयः स्फुरति हृदये कोऽपि महिमा || २९||
वसंततिलकाविस्तारितं मकरकेतनधीवरेणस्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ||
येनाचिरात्तदधरामिषलोलमर्त्य-
मत्स्याद्विकृष्य स पचत्यनुरागवह्नौ ||३०||
अनुष्टुभ्कामिनीकायकान्तारे स्तनपर्वतदुर्गमे |मा सञ्चर मनःपान्थ !तत्रास्ते स्मरतस्करः || ३१||
शिखरिणीन गम्यो मन्त्राणां न च भवति भैषज्यविषयोन चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ||
भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं धूर्णयति च || ३२||
अनुष्टुभ्तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता |यावज्ज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः || ३३||
शार्दूलविक्रीडितस्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसम्पत्करींये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ||
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे || ३४||
शिखरिणी
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ||
क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः
शुनीमन्वेति श्वा !हतमपि च हन्त्येव मदनः || ३५||
वसंततिलका
मत्तेभकुम्भदलने भुवि सन्ति शूराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ||
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कंदर्पदर्पदलने विरला मनुष्याः || ३६||
हरिणी
परिमलभृतो वाताः शाखा नवाङ्कुरकोटयोमधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ||
विरलसुरतस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ?|| ३७||
द्रुतविलंबितमधुरयं मधुरैरपि कोकिलाकलरवैर्मलयस्य च वायुभिः ||
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधाऽपि विषायते || ३८||
शार्दूलविक्रीडितआवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाःकर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ||
गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः सितांशो कराः
केषांचित्सुखयन्ति धन्यहृदयं चैत्रे विचित्राः क्षपाः || ३९||
शार्दूलविक्रीडितपान्थस्त्रीविरहाग्नितीव्रतरतामातन्वती मञ्जरीमाकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ||
अप्येते नवपाटलीपरिमलप्राग्भारपाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ||४०||
आर्याप्रियपुरतो युवतीनां तावत्पदमातनोति हृदि मानः |भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः || ४१||
आर्या
सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते |
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा || ४२||
वसन्ततिलका
अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ||
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति || ४३||
शिखरिणी
स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरसः सीधु विशदम् ||
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाधार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः || ४४||
दोधकतरुणीवैषोहीपितकामा विकसितजातीपुष्पसुगन्धिः |उन्नतपीनपयोधरभारा प्रावृट् कुरुते कस्य न हर्षम् ?|| ४५||
मालिनीवियदुपचितमेघं भूमयः कन्दलिन्योनवकुटजकदम्बामोदिनो गन्धवाहाः ||
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति || ४६||
आर्याउपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः |क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ?|| ४७||
शिखरिणीइतो विद्युद्वल्लीविलसितमितः केतकितरोःस्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ||
इतः केकीक्रिडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ?|| ४८||
शिखरिणीअसूचीसं_चारे तमसि नभसि प्रौढजलदध्वनिप्राये तस्मिन् पतति दृशदां नीरनिचये ||
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् || ४९||
शार्दूलविक्रीडित
आसारेषु न हर्म्यतः प्रिततमैर्यातुं यदा शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ||
जाताः शीकरशीतलाश्च मरुतश्चात्यन्तखेदच्छिदो
धन्यानां बत दुर्सिनं सुदिनतां याति प्रियासङ्गमे || ५०||
स्रग्धरा
अर्धं नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ||
संभोगाक्लान्तकान्ताशिथिलभुजलताऽऽवर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मंदभाग्यः || ५१||
शार्दूलविक्रीडित
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतःकाश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः ||
पीनोरुस्तनकामिनीजनकृताश्लेषा गृह्याभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते || ५२||
स्रग्धराप्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफेकाले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ||
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् || ५३||
स्रग्धराचुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधानावक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ||
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोंऽशुकानि
व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः || ५४||
शार्दूलविक्रीडितकेशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिपन्आतन्वन् पुलकोद्गमं प्रकटयन्नावेगकम्पं गतैः ||
वारंवारमुदारसीत्कृतकृतो दन्तच्छदान्पीडयन्
प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते || ५५||
उपजातिविश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् |स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् || ५६||
हरिणी
प्रणयमधुराः प्रेमोद्गाढा रसादलसास्ततो
भणितिमधुरा मुग्धप्रायाः प्रकाशितसंमदाः ||
प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् || ५७||
उपजाति
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोलाः ||
आलिङ्गितायां पुनरायताक्ष्यां
आशास्महे विग्रहयोरभेदम् || ५८||
रथोद्धता
मालती शिरसि जृम्भणोन्मुखी
चन्दनं वपुषि कुङ्कुमान्वितम् ||
वक्षसि प्रियतमा मनोहरा
स्वर्ग एव परिशिष्ट आगतः || ५९||
शार्दूलविक्रीडित
प्राङ्मामेति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथीकृततनु प्रध्वस्तधैर्यं पुनः ||
प्रेमार्द्रं स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो
निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् || ६०||
मालिनी
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिदुन्मीलितानाम् ||
उपरिसुरतखेदस्विन्नगण्डस्थलीनां
अधरमधु वधूनां भाग्यवन्तः पिबन्ति || ६१||
अनुष्टुभ्
उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ||
तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः || ६२||
आर्या
आमीलितनयनानां यत्सुरतरसोऽनु संविदं भाति |
मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् || ६३||
वसंततिलका
मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे
कान्तापयोधरतटे रसखेदखिन्नः ||
वक्षो निधाय भुजपञ्जरमध्यवर्ती
धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः || ६४||
अनुष्टुभ्
एतत्कामफलं लोके यद्द्वयोरेकचित्तता |
अन्यचित्तकृते कामे शवयोरेव सङ्गमः || ६५||
शालिनी
एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा |
एको वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा || ६५- अ||
उपजाति
मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ||
सेव्या नितम्बाः किमु भूधरणामुत स्मरस्मेरविलासिनीनाम् || ६६||
अनुष्टुभ्
आवासः क्रियतां गाङ्गे पापवारिणि वारिणि |
स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि || ६७||
मालिनी
दिशः वनहरिणीभ्यः स्निग्धवंशच्छवीनां
कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ||
शुकयुवतिकपोलापाण्डु ताम्बूलवल्ली-
दलमरूणनखाग्रैः पाटितं वा वधूभ्यः || ६९||
स्रग्धरा
संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवलुलितधियां यातु कालः कथञ्चित् ||
नोचेन्मुग्धाङ्गनानां स्तनजघनभराभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यतानाम् || ७०||
शिखरिणी
भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो
विशित्रालापानां वयमपि कवीनामनुचराः ||
तथाप्येतद् ब्रूमो न हि परहितात्पुण्यमधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् || ७१||
मालिनी
किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः
द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ||
अभिनवमदलीलालालसं सुंदरीणां
स्तनभरपरिखिन्नं यौवनं व वनं वा || ७२||
स्रग्धरा
रागस्यागारमेकं नरकशतमहादुःखसम्प्राप्तिहेतुः
मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ||
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति || ७३||
शार्दूलविक्रीडित
शृंगारद्रुमनीरदे प्रसृमरक्रीडारस स्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति ||
तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने || ७४||
स्रग्धरा
राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थै प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ||
गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनां
यावच्चाक्रम्य रूपं झटिनि न जरया लुप्यते प्रेयसीनाम् || ७५||
शार्दूलविक्रीडित
जान्त्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ||
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवाकाङ्क्षया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ?|| ७६||
अनुष्टुभ्
वेश्याऽसौ मदनज्वाला रूपेन्धनविवर्धिता |
कामिभिर्यत्र हूयन्ते यौवनानि धनानि च || ७७||
आर्या
कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि |
चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ?|| ७८
स्रग्धरा
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब
व्यासङ्गध्वस्तधैर्यं कथममलधियो मानसं संविदध्यु: ?||
यद्येताः प्रोद्यदिन्दुद्युतिनि वयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ?|| ७९||
शार्दूलविक्रीडित
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ||
कः कुर्वीत शिरः प्रमाणमलिनं म्लानं मनस्वी जनो
यद्वित्रस्तरकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः || ८०||
अनुष्टुभ्
संसारोदधिनिस्तार पदवी न दवीयसी |
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणा || ८१||
इंद्रवज्रा
सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यमेतत् |
नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः || ८२||
शार्दूलविक्रीडित
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः
पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ||
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् !|| ८३||
अनुष्टुभ्
स्मृता भवति तापाय दृष्ट्वा चोन्मादवर्धिनी |
स्पृष्टा भवति मोहाय !सा नाम दयिता कथम् ?|| ८४||
अनुष्टुभ्
तावदेवामृतमयी यावल्लोचनगोचरा |
चक्षुःपथादतीता तु विषादप्यतिरिच्यते || ८५||
अनुष्टुभ्
नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् |
सैवामृतरुता रक्ता विरक्ता विषवल्लरी || ८६||
स्रग्धरा
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां
दोषाणां संविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ||
स्वर्गद्वारस्य विघ्नौ नरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः || ८७||
शार्दूलविक्रीडित
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर-
द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ||
किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते || ८८||
उपजाति
लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ||
रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव वृथा षडङ्घ्रिः || ८९||
शिखरिणी
यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिवरं
मुखाब्जं तन्वङ्ग्याः किल वसति तत्राधरमधु ||
इदं तत्किम्पाकद्रुमफलमिवातीव विरसं
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् || ९०||
शार्दूलविक्रीडित
अग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं
भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते ||
चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं
नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता || ९१||
अनुष्टुभ्
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् |
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ?|| ९२||
वैतालीय
मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् |
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते || ९३||
मालिनी
इह हि मधुरगीतं नृत्यमेतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् |
इति हतपरमार्थैरिन्द्रियैर्भाम्यमाणः
स्वहितकरणदक्षैः पञ्चभिर्वञ्चितोऽसि || ९४||
मन्दाक्रान्ता
शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ||
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव || ९५||
शार्दूलविक्रीडित
उन्मीलत्त्रिवलितरङ्गनिलया प्रोत्तुङ्गपीनस्तन-
द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ||
कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् || ९६||
हरिणी
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिकुटिलाद्योषित्सर्पाद्विलासफणाभृतः ||
इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधे-
श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः || ९७||
पुष्पिताग्रा
इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मान्मथा विकाराः |
यदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा || ९८||
वसन्ततिलका
धन्यास्त एव तरलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ||
क्षामोदरोपरिलसत्त्रिवलीलतानां
दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् || ९९||
आर्या
विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् |
हृदयमपि विघट्टितं चेत्सङ्गो विरहं विशेषयति || १००||
रथोद्धता
किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथाऽपि किम् ||
इत्युदीर्य नवमेघदर्शने
न प्रयाति पथिकः स्वमन्दिरम् || १०१||
हरिणी
विरमत बुधा योषित्सङ्गात् सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ||
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् || १०२||
शिखरिणी
यदा योगाभ्यासव्यसनवशयोरात्ममनसो-
रविच्छिन्ना मैत्री स्फुरति यमिनस्तस्य किमु तैः ||
प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः
सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ?|| १०३||
शिखरिणी
सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरसश्चातिसुरभिः ||
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे || १०४||
मंदाक्रान्ता
बाले लीलामुकुलितममी सुंदरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ||
सम्प्रत्यन्त्ये वयसि विरतं बाल्यमास्था वनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः || १०५||
शिखरिणी
इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ?||
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वलज्ज्वालाः शांतास्तदपि न वराकी विरमति || १०६||
शार्दूलविक्रीडित
किं कन्दर्प !शरं कदर्थयसि रे कोदण्डझङ्कारितै ?
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ||
मुग्धे !स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं
चेतः सम्प्रति चंद्रचूडचरणध्यानामृते वर्तते ||१०७||
शिखरिणी
यदाऽऽसीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा सर्वं नारीमयमिदमशेषं जगदभूत् |
इदानीमस्माकं पटुतरविवेकाञ्जनदृशां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते || १०८||
भर्तृहरिकृत शतकत्रयी
google useful site:
http://sanskritdocuments.org/all_sa/http://sanskritdocuments.org/all_sa/
Comments
Post a Comment