ब्रह्मानुचिन्तनम् cont...
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् .
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः
त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः .. ८६..
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् .
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः
त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः .. ८६..
Forsaking all, with the heart
full of the most tender compassion, recalling
the sorrowful fate, let us
spend the nights in holy forests, in the glow of
the autumnal moonbeams,
meditating on Siva's feet, our sole shelter.
वितीर्णे = giving away
सर्वस्वे = all
तरुण =tender
करुणा = compassion
पूर्ण = filled with
हृदयाः = heart
स्मरन्तः = remembering
संसारे = cycles of creation and
dissolution
विगुण = undesirable
परिणामां = effects
विधिगतिं = destiny
वयं = we
पुण्य = holy
अरण्ये = forest
परिणत = full
शरत् = autumnal
चन्द्र = moon
किरणाः = rays/beams
त्रियामा = nights
नेष्यामः = spend
हर = Shiva
चरण = feet
चिन्ता = meditation
एक = only
शरणाः = refuge
कदा वाराणस्याममरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् .
अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् .. ८७..
कदा वाराणस्याममरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् .
अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् .. ८७..
When shall I spend my
momentary life on the banks of the heavenly river in Varanasi,
wearing just a loin-cloth,
holding my folded hands over my head, and weeping
loudly, " Oh! Lord of
Gauri! Conqueror of the demon Tripura! Ever auspicious and
having the third eye (of the
Supreme Light)! Have compassion on me! "
कदा = when
वाराणस्यां = in Varanasi
अमरतटिनीरोधसि = on the banks of the
celestial river
वसन् = stay
वसानः = dress
कौपीनं = loin cloth
शिरसि = on the head
निदधानः = raised
अञ्जलिपुटं = folded hands
अये = oh!
गौरीनाथ = Shiva (husband of Gauri)
त्रिपुरहर = slayer of Tripura
शम्भः = giver of supreme good
त्रिनयन = with three eyes
प्रसीद = have mercy
इति = thus
क्रोशन् = crying
निमिषं = a moment
इव = as if
नेष्यामि = spend
दिवसान् = days
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले .
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् .. ८८..
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले .
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् .. ८८..
After bathing in the waters
of the Ganga, worshipping you with the choicest fruits
and flowers,with my mind
meditating on you, seated on a bed of stone in a mountain-cave,
enjoying the bliss of the
Self, surviving on fruits, joyfully engrossed in the
spiritual preceptor's
instructions, Oh! Cupid's Enemy! when will you free me with your
grace, from the sorrow of
having served the rich?
स्नात्वा = after bathing
गाङ्गैः = by Ganges
पयोभिः = waters
शुचि = pure
कुसुम = flowers
फलः = fruits
अर्चयित्वा = offering
विभः = o Lord!
त्वां = to you
ध्येये = concentrating
ध्यानं = mind
निवेश्य =
क्षितिधर = mountain
कुहर = cave
ग्राव = stony
पर्यङ्कमूले = by the bed
आत्मारामः = blissful in the Self
फलाशी = eating fruits
गुरु = teacher
वचन = words
रतः = devoted to
त्वत् = your
प्रसादात् = grace
स्मरारे = O Thou Enemy of Cupid!
दुःखं = sorrow
मोक्ष्ये = freedom
कदा = when
अहं = I
स = with
मकर = shark
चरणे = feet [ "a shark on
the feet" (sign of uncommon
prosperity)]
पुंसि = man
सेवा = service
समुत्थं = released
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः .
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः .. ८९..
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः .
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः .. ८९..
When shall I be free from the
roots of action, leading a life of solitude,
dispassion, serenity, with my
hands serving as a bowl, and the sky for clothing?
एकाकी = alone
निःस्पृहः = free from desire
शान्तः = peaceful
पाणि = hand
पात्रः = vessel
दिगम्बरः = naked
शम्भो = O Shiva!
भविष्यामि = will become
कर्म = action
निर्मूलन = root out
क्षमः = capable
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ..
अत्यागेएऽपि तनोरखण्डपरमानन्दावबोधस्पृशां
अध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् .. ९०..
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् .
अत्यागेएऽपि तनोरखण्डपरमानन्दावबोधस्पृशां
अध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् .. ९०..
Using the hands as a bowl,
contented with the naturally pure food from alms, resting
in any place, constantly
viewing the world to be worth no more than a blade of grass,
experiencing uninterrupted
supreme joy even before the body falls, for such
aspirants alone the grace of
Shiva makes the path of liberation easy of attainment.
पाणिं = hand
पात्रयतां = used like a vessel
निसर्ग = nature
शुचिना = pure
भैक्षेण = by begging alms
संतुष्यतां = contented
यत्र = where
क्वापि = anywhere
निषीदतां = resting
बहुतृणं = almost a blade of grass
विश्वं = world
मुहुः = constantly
पश्यतां = seeing
अत्यागे = giving up
अपि = even
तनोः = of the body
अखण्ड = uninterrupted
परम = supreme
अनन्द = bliss
अवबोधस्पृशां = knowledge
अध्वा = path
कः = who
अपि = even
शिवप्रसाद = grace of Shiva
सुलभः = easy
संपत्स्यते = attain
योगिनां = of yogis
१० अवधूतचर्या .
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने .
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् .. ९१..
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने .
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् .. ९१..
The Way of Life of a Self-Realised
Ascetic:
Wearing a loin-cloth worn-out
and tattered into a hundred rags, with a wrap-around
in similar condition, free
from anxiety, eating food from alms begged without any
expectations, sleeping in a
forest or a cremation-ground, roaming freely without
hindrance, ever indrawn and
calm, and also established in the great joy of Divine
union, -------for such a one
even sovereignty of the three worlds is beneath comparison.
अवधूत = a self-realised ascetic
with the highest spiritual freedom
चर्या = the way of life
कौपीनं = loin cloth
शत = hundred
खण्ड = torn
जर्जरतरं = much worn out
कन्था = rag
पुनः = again
तादृशी = of the same condition
नैश्चिन्त्यं = free from all diturbing
thoughts
निरपेक्ष = without expectation
भैक्षं = food got by begging
अशनं = eating
निद्रा = sleep
श्मशाने = in a cremation ground
वने = in a forest
स्वातन्त्र्येण = freely
निरङ्कुशं = without hindrance
विहरणं = wandering
स्वान्तं = one's mind
प्रशान्तं = very peaceful
सदा = always
स्थैर्यं = steadfastness
योग = yoga
महोत्सवे = festive joy
अपि = also
च = and
यदि = when
त्रैलोक्य = three worlds
राज्येन = by sovereignty
किं = what
ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः .
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते .. ९२..
ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः .
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते .. ९२..
Will the wise ones show greed
for this universe, which is but a mere mirage?
Indeed, the ocean is not
agitated by the movements of a fish!
ब्रह्माण्डं = universe
मण्डली = reflection
मात्रं = mere
किं = what
लोभाय = for greed
मनस्विनः = wise
शफरी = a small fish
स्फुरितेन = by movement
अब्धिः = ocean
क्षुब्धः = agitated
न = not
खलु = indeed
जायते = become
मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भूः
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि .
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै-
र्भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे .. ९३..
मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भूः
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि .
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै-
र्भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे .. ९३..
Oh Mother Lakshmi! devote
yourself to someone else! Do not long for me! Those who
covet pleasures are under
your sway; what are you to us who are dispassionate? Now,
we want to subsist on alms
gathered and purified in a bowl instantly made from the
leaves of Palasa tree.
मातः = mother
लक्ष्मि = O Laxmi!
भजस्व = serve
कंचित् = someone
अपरं = else
मत् = me
काङ्क्षिणी = long for
मा = do not
स्म = indeed
भू = earthly
भोगेषु = in enjoyments
स्पृहयालवः = desiring
तव = your
वशे = captive
का = what
निःस्पृहाणां = free from desires
असि = are
सद्यः = immediately
स्यूत = put together
पलाश = palaasha
पत्र = leaf
पुटिका = ??
पात्रे = vessel
पवित्रीकृतैः = sanctified
भिक्षावस्तुभिः = articles obtained by
begging
एव = only
संप्रति = in the right way
वयं = we
वृत्तिं = attitude
समीहामहे = wish
महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः .
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिनृर्प इव .. ९४..
महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः .
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिनृर्प इव .. ९४..
With the earth for a bed, the
arms for a large pillow, the sky for a roof, the
gentle breeze for a fan, the
autumnal moon for a lamp, renunciation as conjugal bliss,
the sage sleeps in
contentment and tranquillity, like a sovereign of immense glory.
महा = great
शय्या = bed
पृथ्वी = earth
विपुलं = ample
उपधानं = pillow
भुजलता = arms
वितानं = canopy
च = and
अकाशं = sky
व्यजनं = fan
अनुकूलः = pleasant
अयं = this
अनिलः = breeze
शरत् = autumn
चन्द्रः = moon
दीपः = light
विरति = abnegation
वनिता = wife
सङ्गं = company
उदितः = elevated (rejoicing)
सुखी = blissful
शान्तः = peaceful
शेते = sleeps
मुनिः = sage
अतनु = not small (undiminished)
भूतिः = glory
नृप = king
इव = as if
भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः .
रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकन्थासनो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः .. ९५..
भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः .
रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकन्थासनो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः .. ९५..
Living on alms, unattached to
the company of people, ever acting with total freedom,
devoted to the path of
dispassion towards the exchange of wealth, such a one is a
true ascetic. Wearing
worn-out rags thrown in the streets, using a blanket received
by chance for a seat, without
pride or selfishness, the ascetic wishes solely for
the joy of the controlled
mind.
भिक्षाशी = eating alms
जनमध्य = society
सङ्गरहितः = unattached
स्वायत्तचेष्टः = free in actions
(independent)
सदा = always
हानादान = give and take
विरक्त = indifferent
मार्ग = path
निरतः = pursuing
कश्चित् = who but
तपस्वी = engaged in austerities
स्थितः = living
रथ्या = in the streets
कीर्ण = thrown away
विशीर्ण = shattered
जीर्ण = worn out
वसनः = garment
संप्राप्त = gotten by chance
कन्थ = blanket
असनः = seat
निर्मानः = without pride
निरहंकृतिः = without egoism
शम = self-control
सुखाभोग = enjoying the happiness
एकबद्ध = bound by only one
स्पृहः = desiring
चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतियगीश्वरः कोऽपि किम् .
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैः
न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः .. ९६..
चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतियगीश्वरः कोऽपि किम् .
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैः
न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः .. ९६..
" Is this person an
outcaste? or a twice-born? or a sudra? or an ascetic? or else
some master yogi with the
mind filled with philosophical discernment? " When people
address the ascetic thus,
doubting and debating garrulously, the Yogis themselves
walk awy, neither angry nor
pleased.
चण्डालः = outcaste
किं = what
अयं = this
द्विजातिः = twice-born (initiated in
scriptures)
अथवा = or
शूद्रः = servant
अथ = thus
किं = what
तापसः = ascetic
किं = what
वा = or
तत्त्व = truth
विवेक = discrimination
पेशल = expert
मति = mind
यगीश्वरः = supreme yogi
kaH - who
अपि = also
किं = what
इति = thus
उत्पन्न = arising
विकल्प = doubt
जल्प = argumentative
मुखरैः = garrulously
आभाष्यमाणा = accosted
जनैः = by people
क्रुद्धाः = angry
पथि = on the way
न = not
एव = only
तुष्ट = pleased
मनसः = mind
यान्ति = go
स्वयं = own way
योगिनः = yogis
The creator has provided for
serpents air as food, got without violence or effort.
Beasts are satisfied with
eating sprouting grass and laying on the ground. Likewise,
for people intellectually
able enough to cross the sea of birth-death cycles, some
such means of living has been
created. Those who seek this are able to bring to
final cessation the play of
their natural attributes.
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः .
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
तामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः .. ९७..
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः .
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
तामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः .. ९७..
हिंसाशून्यं = without killing
अयत्न = without effort
लभ्यं = obtainable
अशनं = for eating
धात्रा = by the Creator
मरुत् = air
कल्पितं = provided
व्यालानां = vicious
पशवः = beasts
तृण = grass
अङ्कुरभुजः = feeding on sprouts
तुष्टाः = contented
स्थलीशायिनः = lying on ground
संसार = transmigratory life
अर्णव = ocean
लङ्घनक्षम = capable to cross over
धियां = intelligence
वृत्तिः = inclined to
कृता = made
सा = that
नृणां = of people
तां = to them
अन्वेषयतां = seeking
प्रयान्ति = go
सततं = constantly
सर्वे = all
समाप्तिं = ending
गुणाः = qualities (inertia,
activity, and understanding)
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानभ्यसनविधिना योगनिद्रां गतस्य .
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये .. ९८..
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानभ्यसनविधिना योगनिद्रां गतस्य .
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये .. ९८..
Seated in the lotus-posture
on a stone in the Himalayas on the banks of the Ganga,;
attaining yogic sleep by the
practice of meditation on the Supreme Reality; with deer,
old with age and free from
fear, caressing their bodies against mine------- will
such fortune come to me?
गङ्गातीरे = on the banks of river
Ganges
हिमगिरि = Himalayas
शिला = stone
बद्ध = bound/sitting
पद्मासनस्य = lotus posture
ब्रह्म = transcendent truth
ध्यान = meditation
अभ्यसन = practice
विधिना = in the prascribed manner
योगनिद्रां = Samadhi (with
consciousness of the external world lost)
गतस्य = going/falling
किं = what
तैः = by them
भाव्यं = resulting from
मम = my
सुदिवसैः = happy days
यत्र = where
ते = they
निर्विशङ्काः = fearless
कण्डूयन्ते = rub
जरठहरिणाः = old deer
स्वाङ्गं = own bodies
अङ्गे = body
मदीये = my
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्णं वस्त्रमाशादशकमचपलं तल्पमस्वल्पमुर्वी .
येषां निःसङ्गताङ्गीकरण परिणतस्वान्तसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति .. ९९..
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्णं वस्त्रमाशादशकमचपलं तल्पमस्वल्पमुर्वी .
येषां निःसङ्गताङ्गीकरण परिणतस्वान्तसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति .. ९९..
The hands serving as a sacred
bowl, subsisting on the never-dwindling alms obtained
while roaming, the vast expanse
of the sky serving as a dress, and the earth for
a stable, spacious
bed---people with such dispassion are blessed indeed, for they
have renounced the poverty of
attitude seeking mundane pleasures and thus giving up
worldly contacts, and
inwardly contented in heart fulfilled by accepting solitude,
and thus able to uproot all
actions ( the roots of future rebirths and deaths).
पाणिः = hand
पात्रं = vessel
पवित्रं = pure
भ्रमण = wandering
परिगतं = obtained
भैक्षं = alms
अक्षय्यं = never running short
अन्नं = food
विस्तीर्णं = ample
वस्त्रं = cloth
आशा = space
दशकं = ten directions
अचपलं = fixed
तल्पं = bed
अस्वल्पं = spacious
उर्वी = wide earth
येषां = whose
निःसङ्गत = without associating
अङ्गीकरण = absorb
परिणत = matured
स्वान्त = inwardly
संतोषिणः = blissful
ते = they
धन्याः = blessed
संन्यस्त = forsaking
दैन्य = deprivation
व्यतिकर = contact
निकराः = best of objects
कर्म = actions
निर्मूलयन्ति = root out
मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः .
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि .. १००..
मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः .
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि .. १००..
Oh Mother Earth! Oh Wind, my
Father! Oh Fire, my friend! Oh Water, my good relative!
Oh Sky, my Brother! With
clasped hands this is my concluding salutations to you!
My association with you all
resulted in an accumulation of scintillating merits,
culminating in abundance of
pure knowledge, which helped me overcome the marvellous sway
of Unreality! May I now unite
with the Transcendent Truth!
मातः = O Mother
मेदिनि = Earth
तात = O Father
मारुत = Wind
सखे = O Friend
तेजः = Fire
सुबन्धः = O my good relative
जल = Water
भ्रातः = O Brother
व्योम = Sky
निबद्ध = tied to
एव = only
भवतां = with you all
अन्त्यः = last
प्रणाम = salutations
अञ्जलिः = clasped hands
युष्मत् = with you all
सङ्गवश = association with
उपजात = developed
सुकृत = good deeds, merits
स्फार = wide
स्फुरत् = trembling, resplendent
निर्मल = without blemish, pure
ज्ञान = knowledge
अपास्त = discard
समस्त = all
मोह = delusion
महिमा = wondrous power
लीये = merge
परब्रह्मणि = in the Transcendent
Reality
||कौपीन पंचकं ( शंकराचार्य) || कौपीन पंचकम्
Five Stanzas on the wearer of loin-cloth
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः |
विशोकमन्तःकरणे चरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||१||
Roaming ever in the grove of Vedanta,
Ever pleased with his beggar's morsel,
Wandering onward, his heart free from sorrow,
Blest indeed is the wearer of the loin-cloth | (1)
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः |
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||२||
Sitting at the foot of a tree for shelter,
Eating from his hands his meagre portion,
Spurning wealth like a patched-up garment,
Blest indeed is the wearer of the loin-cloth | (2)
स्वानन्दभावे परितुष्टिमन्तः
सुशान्तसर्वेन्द्रियवृत्तिमन्तः |
अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||३||
Satisfied fully by the Bliss within him,
Curbing wholly the cravings of his senses,
Delighting day and night in the bliss of Brahman,
Blest indeed is the wearer of the loin-cloth | (3)
देहादिभावं परिवर्तयन्तः
स्वात्मानमात्मन्यवलोकयन्तः |
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||४||
Witnessing the changes of mind and body,
Naught but the Self within him beholding,
Heedless of outer, of inner, of middle,
Blest indeed is the wearer of the loin-cloth | (4)
ब्रह्माक्षरं पावनमुच्चरन्तो
ब्रह्माहमस्मीति विभावयन्तः |
भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||५||
Chanting Brahman, the word of redemption,
Meditating only on `I am Brahman',
Living on alms and wandering freely,
Blest indeed is the wearer of the loin-cloth | (5)
||इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं संपूर्णम् ||
.. काशीपञ्चकम् .. .. काशीपञ्चकम् ..
मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च .
ज्ञानप्रवाहा विमलादिगङ्गा
सा काशिकाहं निजबोधरूपा .. १..
यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम् .
सच्चित्सुखैका परमात्मरूपा
सा काशिकाहं निजबोधरूपा .. २..
कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम् .
साक्षी शिवः सर्वगतोऽन्तरात्मा
सा काशिकाहं निजबोधरूपा .. ३..
काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका .
सा काशी विदिता येन तेन प्राप्ता हि काशिका .. ४..
काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा .
भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः .
विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति .. ५..
end
Comments
Post a Comment