Skip to main content

श्रीमद्भगवद्गीता:संग्रह अनुगीता इति वाक्यार्थः गीतार्थ संग्रह r


।। अनुगीता ।।
source : google
ज्सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः ।
केशवार्जुनयोः का नु कथा समभवद्द्विज ।। १।।
व्कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् ।
तस्यां सभायां रम्यायां विजहार मुदा युतः ।। २।।
ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप ।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ।। ३।।
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ।। ४।।
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते ।
माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ।। ५।।
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् ।
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ।। ६।।
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो ।
भवांश्च द्वारकां गन्ता नचिरादिव माधव ।। ७।।
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत ।
परिष्वज्य महातेजा वचनं वदतां वरः ।। ८।।
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ।। ९।।
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् ।
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ।। १०।।
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ।। ११।।
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ।। १२।।
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ।। १३।।
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम ।
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ।। १४।।
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ।। १५।।
ब्र्मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि ।
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ।। १६।।
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन ।
शृणुष्वावहितो भूत्वा गदतो मम माधव ।। १७।।
कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः ।
आससाद द्विजं कं चिद्धर्माणामागतागमम् ।। १८।।
गतागते सुबहुशो ज्ञानविज्ञानपारगम् ।
लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः ।। १९।।
जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः ।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ।। २०।।
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ।। २१।।
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ।। २२।।
सम्भाषमाणमेकान्ते समासीनं च तैः सह ।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ।। २३।।
तं समासाद्य मेधावी स तदा द्विजसत्तमः ।
चरणौ धर्मकामो वै तपस्वी सुसमाहितः ।
प्रतिपेदे यथान्यायं भक्त्या परमया युतः ।। २४।।
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।
परिचारेण महता गुरुं वैद्यमतोषयत् ।। २५।।
प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः ।
भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ।। २६।।
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः ।
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ।। २७।।
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ।। २८।।
न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः ।
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ।। २९।।
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।
काममन्युपरीतेन तृष्णया मोहितेन च ।। ३०।।
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ।। ३१।।
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।
सुखानि च विचित्राणि दुःखानि च मयानघ ।। ३२।।
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ।। ३३।।
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।
शारीरा मानसाश्चापि वेदना भृशदारुणाः ।। ३४।।
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।
पतनं निरये चैव यातनाश्च यमक्षये ।। ३५।।
जरा रोगाश्च सततं वासनानि च भूरिशः ।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ।। ३६।।
ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च ।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ।। ३७।।
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ।
आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा ।। ३८।।
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ।
इतः परं गमिष्यामि ततः परतरं पुनः ।
ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः ।। ३९।।
नाहं पुनरिहागन्ता मर्त्यलोके परन्तप ।
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ।। ४०।।
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।
अभिजाने च तदहं यदर्थं मा त्वमागतः ।
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ।। ४१।।
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ।
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ।। ४२।।
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च ।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ।। ४३।।
 वा ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् ।
इति 16
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ।। १।।
काज़्यप कथं शरीरं च्यवते कथं चैवोपपद्यते ।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ।। २।।
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ।। ३।।
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ।। ४।।
ब्र्एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ।। ५।।
सिद्ध आयुः कीर्तिकराणीह यानि कर्माणि सेवते ।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ।। ६।।
आयुः क्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ।। ७।।
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ।। ८।।
यदायमतिकष्टानि सर्वाण्युपनिषेवते ।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ।। ९।।
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ।। १०।।
व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।
सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् ।। ११।।
रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते ।
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ।। १२।।
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ।। १३।।
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।
जीवितं प्रोच्यमानं तद्यथावदुपधारय ।। १४।।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ।। १५।।
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च ।। १६।।
ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् ।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ।। १७।।
जातीमरणसंविग्नाः सततं सर्वजन्तवः ।
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ।। १८।।
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे ।
तादृशीमेव लभते वेदनां मानवः पुनः ।। १९।।
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः ।
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ।। २०।।
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ।। २१।।
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ।। २२।।
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
तैरेव न विजानाति प्राणमाहारसम्भवम् ।। २३।।
तत्रैव कुरुते काये यः स जीवः सनातनः ।
तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् ।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ।। २४।।
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
ततः स चेतनो जन्तुर्नाभिजानाति किं चन ।। २५।।
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ।। २६।।
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ।। २७।।
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ।। २८।।
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ।। २९।।
यथान्ध कारे खद्योतं लीयमानं ततस्ततः ।
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ।। ३०।।
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ।। ३१।।
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ।। ३२।।
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ।। ३३।।
इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः ।
अवाक्स निरये पापो मानवः पच्यते भृशम् ।
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ।। ३४।।
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् ।। ३५।।
तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ।। ३६।।
कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ।। ३७।।
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् ।
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ।। ३८।।
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।
यथावत्तां निगदतः शृणुष्वावहितो द्विज ।। ३९।।
इति 17
adhaya 18
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् ।
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ।। १।।
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ।। २।।
पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ।। ३।।
यथा कत्म समादिष्टं काममन्युसमावृतः ।
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ।। ४।।
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ।। ५।।
सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते ।
सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ।
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ।। ६।।
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः ।
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ।। ७।।
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् ।
उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् ।। ८।।
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् ।
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ।। ९।।
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।
एवमेव शरीराणि प्रकाशयति चेतना ।। १०।।
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् ।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ।। ११।।
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते ।
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ।। १२।।
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।
आवर्तमानो जातीषु तथान्योन्यासु सत्तम ।। १३।।
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ।। १४।।
संयमश्चानृशंस्यं च परस्वादान वर्जनम् ।
व्यलीकानामकरणं भूतानां यत्र सा भुवि ।। १५।।
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् ।
गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः ।। १६।।
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते ।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ।। १७।।
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः ।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ।। १८।।
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः ।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ।। १९।।
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु ।
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ।। २०।।
वर्तमानस्य धर्मेण पुरुषस्य यथातथा ।
संसारतारणं ह्यस्य कालेन महता भवेत् ।। २१।।
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते ।
सर्वं तत्कारणं येन निकृतोऽयमिहागतः ।। २२।।
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ।। २३।।
शरीरमात्मनः कृत्वा सर्वभूतपितामहः ।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ।। २४।।
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् ।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ।। २५।।
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ।। २६।।
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः ।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ।। २७।।
तस्य कालपरीमाणमकरोत्स पितामहः ।
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ।। २८।।
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ।। २९।।
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति ।
कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् ।। ३०।।
यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् ।
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ।। ३१।।
जाती मरणरोगैश्च समाविष्टः प्रधानवित् ।
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ।। ३२।।
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् ।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ।। ३३।।
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् ।
प्रोच्यमानं मया विप्र निबोधेदमशेषतः ।। ३४।।
ब्र्यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् ।
इति 18
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ।। १।।
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ।। २।।
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
अमानी निरभीमानः सर्वतो मुक्त एव सः ।। ३।।
जीवितं मरणं चोभे सुखदुःखे तथैव च ।
लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते ।। ४।।
न कस्य चित्स्पृहयते नावजानाति किं चन ।
निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः ।। ५।।
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् ।
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ।। ६।।
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ।। ७।।
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् ।
अस्वस्थमवशं नित्यं जन्म संसारमोहितम् ।। ८।।
वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः ।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ।। ९।।
अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् ।
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ।। १०।।
पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् ।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ।। ११।।
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् ।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ।। १२।।
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ।। १३।।
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ।। १४।।
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ।। १५।।
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ।। १६।।
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः ।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ।। १७।।
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ।। १८।।
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ।। १९।।
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ।। २०।।
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।
योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ ।। २१।।
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ।। २२।।
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ।। २३।।
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
विनिवृत्य जरामृत्यू न हृष्यति न शोचति ।। २४।।
देवानामपि देवत्वं युक्तः कारयते वशी ।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ।। २५।।
विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते ।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् ।। २६।।
दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः ।
न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ।। २७।।
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
नातः सुखतरं किं चिल्लोके क्व चन विद्यते ।। २८।।
सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति ।
तदैव न स्पृहयते साक्षादपि शतक्रतोः ।। २९।।
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन ।
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ।। ३०।।
दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।
पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः ।। ३१।।
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।
तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः ।। ३२।।
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।
तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः ।। ३३।।
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ।। ३४।।
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ।। ३५।।
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ।। ३६।।
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।
कथं रसत्वं व्रजति शोणितं जायते कथम् ।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ।। ३७।।
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ।। ३८।।
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ।। ३९।।
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् ।
किं वर्णं कीदृशं चैव निवेशयति वै मनः ।
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ।। ४०।।
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव ।
प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम ।। ४१।।
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् ।
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ।। ४२।।
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ।। ४३।।
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
मनसैव प्रदीपेन महानात्मनि दृश्यते ।। ४४।।
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ।। ४५।।
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।
आत्मानमालोकयति मनसा प्रहसन्निव ।। ४६।।
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।
आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् ।। ४७।।
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ।। ४८।।
वा इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः ।
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ।। ४९।।
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ।। ५०।।
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना ।। ५१।।
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् ।। ५२।।
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ।। ५३।।
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ।। ५४।।
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ।। ५५।।
एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।। ५६।।
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ।। ५७।।
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ।। ५८।।
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ।। ५९।।
एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन ।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ।। ६०।।

।। इति अनुगीता समाप्ता ।।
इति वाक्यार्थः 

ॐ शांताकारं भुजगशयनं पद्मनाभं सुरेशम् ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं योगीभिर्ध्यानगम्यम् ।
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।
इति 19
गीतार्थ संग्रह 
स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ।। १।।
ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते ।। २।।
मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ।। ३।।
प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः ।। ४।।
अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ।। ५।।
नित्यात्मासङ्गकर्मेहागोचरा साङ्खययोगधीः ।
द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये ।। ६।।
असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् ।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ।। ७।।
प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च ।
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ।। ८।।
कर्मयोगस्य सौकर्यं शैघ्रयं काश्चन तद्विधाः ।
ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ।। ९।।
योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धिस्स्वयोगस्य पारम्यं षष्ठ उच्यते ।। १०।।
स्वयाथात्म्यं प्रकृत्यास्य तिरोधिश्शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ।। ११।।
ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् ।
वेद्योपादेयभावानामष्टमे भेद उच्यते ।। १२।।
स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ।। १३।।
स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृध्द्यर्था विस्तीर्णा दशमोदिता ।। १४।।
एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम् ।
दत्तमुक्तं विदिप्राप्त्योर्भक्त्येकोपायता तथा ।। १५।।
भक्तेश्श्रैष्ठयमुपायोक्तिरशक्तस्यात्मनिष्ठता ।
तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते ।। १६।।
देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुर्वि वेकश्च त्रयोदश उदीर्यते ।। १७।।
गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ।। १८।।
अचिन्मिश्राद्विशुद्धाच्च चेतनात्पुरुषोत्तमः ।
व्यापनाद्भरणात्स्वाम्यदन्यः पञ्चदशोदितः ।। १९।।
देवासुरविभगोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ।। २०।।
अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ।। २१।।
ईश्वरे कर्तृताबुद्धिस्सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ।। २२।।
कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ।। २३।।
भक्तियोगः परैकान्तप्रीत्या ध्यानादिषु स्थितिः ।
त्रयाणामपि योगानां त्रिभिरन्योन्यसङ्गमः ।। २४।।
नित्यनैमित्तिकानां च पराराधनरूपिणाम् ।
आत्मदृष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ।। २५।।
निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तयैवाप्नोति तत्पदम् ।। २६।।
भक्तियोगस्तदर्थी चेत्समग्रैश्वर्यसाधकः ।
आत्मार्थी चेत्त्रयोऽप्येते तत्कैवल्यस्य साधकाः ।। २७।।
ऐकान्त्यं भगवत्येषां समानमधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत्तदेवात्यन्तमश्नुते ।। २८।।
ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ।। २९।।
भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ।। ३०।।
निजकर्मादि भक्त्यन्तं कुर्यात्प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येद्देवेतु तामभीः ।। ३१।।
एकान्तात्यन्तदास्यैकरतिस्तत्पदमाप्नुयात् ।
तत्प्रधानमिदं शास्त्रमिति गीतार्थसङ्ग्रहः ।। ३२।।
इति
हस्तामलक स्तोत्रम 
कस्त्वं शिशो कस्य कुतोऽसि गन्ताकिं नाम ते त्वं कुत आगतोऽसि ।एतन्मयोक्तं वद चार्भक त्वंमत्प्रीतये प्रीति विवर्धनोऽसि ।।१।।हस्तामलक उवाच ।नाहं मनुष्यो न च देव- यक्षौन ब्राह्मण- क्षत्रिय- वैश्य- शूद्राः ।न ब्रह्मचारी न गृही वनस्थोभिक्षुर्न चाहं निजबोध रूपः ।।२।।निमित्तं मनश्चक्षुरादि प्रवृत्तौनिरस्ताखिलोपाधिराकाशकल्पः ।रविर्लोकचेष्टानिमित्तं यथा यःस नित्योपलब्धिस्वरूपोऽहमात्मा ।।३।।यमग्न्युष्णवन्नित्यबोध स्वरूपंमनश्चक्षुरादीन्यबोधात्मकानि ।प्रवर्तन्त आश्रित्य निष्कम्पमेकंस नित्योपलब्धिस्वरूपोऽहमात्मा ।।४।।मुखाभासको दर्पणे दृश्यमानोमुखत्वात् पृथक्त्वेन नैवास्ति वस्तु ।चिदाभासको धीषु जीवोऽपि तद्वत्स नित्योपलब्धिस्वरूपोऽहमात्मा ।।५।।यथा दर्पणाभाव आभासहानौमुखं विद्यते कल्पनाहीनमेकम् ।तथा धी वियोगे निराभासको यःस नित्योपलब्धिस्वरूपोऽहमात्मा ।।६।।मनश्चक्षुरादेर्वियुक्तः स्वयं योमनश्चक्षुरादेर्मनश्चक्षुरादिः ।मनश्चक्षुरादेरगम्यस्वरूपःस नित्योपलब्धिस्वरूपोऽहमात्मा ।।७।।य एको विभाति स्वतः शुद्धचेताःप्रकाशस्वरूपोऽपि नानेव धीषुशरावोदकस्थो यथा भानुरेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ।।८।।यथाऽनेकचक्षुः- प्रकाशो रविर्नक्रमेण प्रकाशीकरोति प्रकाश्यम् ।अनेका धियो यस्तथैकः प्रबोधःस नित्योपलब्धिस्वरूपोऽहमात्मा ।।९।।विवस्वत प्रभातं यथा रूपमक्षंप्रगृह्णाति नाभातमेवं विवस्वान् ।यदाभात आभासयत्यक्षमेकःस नित्योपलब्धिस्वरूपोऽहमात्मा्र्र१०।।यथा सूर्य एकोऽप्स्वनेकश्चलासुस्थिरास्वप्यनन्यद्विभाव्यस्वरूपःचलासु प्रभिन्नः सुधीष्वेक एवस नित्योपलब्धिस्वरूपोऽहमात्मा ।।११।।घनच्छन्नदृष्टिर्घनच्छन्नमर्कम्यथा निष्प्रभं मन्यते चातिमूढः ।तथा बद्धवद्भाति यो मूढ- दृष्टेःस नित्योपलब्धिस्वरूपोऽहमात्मा ।।१२।।समस्तेषु वस्तुष्वनुस्यूतमेकंसमस्तानि वस्तूनि यन्न स्पृशन्ति ।वियद्वत्सदा शुद्धमच्छस्वरूपंस नित्योपलब्धिस्वरूपोऽहमात्मा ।।१३।।उपाधौ यथा भेदता सन्मणीनांतथा भेदता बुद्धिभेदेषु तेऽपि ।यथा चन्द्रिकाणां जले चञ्चलत्वंतथा चञ्चलत्वं तवापीह विष्णो ।।१४।।।।
इति श्रीमद् शङ्कराचार्यकृत  हस्तामलकसंवादस्तोत्रं संपूर्णम् ।।
दत्तात्रेय विरचिअत योगरहस्य             
योगाध्यायःज्ञानपूर्वो वियोगो योः ज्ञानेन सह योगिनः ।सा मुक्तिर्ब्रह्मणा च ऐक्यमनैक्यं प्राकृतैर्गुणैः ।। १। १।।
मुक्तिर्योगात्तथा योगः सम्यग्ज्ञानान्महीपते ।ज्ञानं दुःखोद्भवं दुःखं ममतासक्तचेतसाम् ।। १। २।।तस्मात्सङ्गं प्रयत्नेन मुमुक्षुः सन्त्यजेन्नरः ।सङ्गाभावे ममेत्यस्याः ख्यातेर्हाबिः प्रजायते ।। १। ३।।निर्ममत्वं सुखायैव वैराग्याद्दोषदर्शनम् ।ज्ञानादेव च वैराग्यं ज्ञानं वैराग्यपूर्वकम् ।। १। ४।।तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति ।यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ।। १। ५।।उपभोगेन पुण्यानामपुण्यानाञ्च पार्थिव ।कर्त्तव्यानाञ्च नित्यानामकामकरणात्तथा ।। १। ६।।असञ्चयादपूर्वस्य क्षयात्पूर्वार्ज्जितस्य च ।कर्मणो बन्धमाप्नोति शरीरं न पुनः पुनः ।। १। ७।।एतत्ते कथितं राजन्योगं चेमं निबोध मे ।यं प्राप्य ब्रह्मणो योगी शाश्वतान्नान्यतां व्रजेत् ।। १। ८।।प्रागेवात्मात्मना जेयो योगिनां स हि दुर्जयः ।कुर्वीत तज्जये यत्नं तस्योपायं शृणुस्व मे ।। १। ९।।प्राणायामैर्दहेद्दोषान्धारणाभिः च किल्विषम् ।प्रत्याहारेण विषयान्ध्यानेनानीश्वराङ्गुणान् ।। १। १०।।यथा पर्वतधातूनां दोषाः दह्यन्ति धाम्यताम् ।तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात् ।। १। ११।।प्रथमं साधनं कुर्यात्प्राणायामस्य योगवित् ।प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ।। १। १२।।लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।तस्य प्रमाणं वक्ष्यामि तदलर्क शृनुष्व मे ।। १। १३।।लघुः द्वादशमात्रस्तु द्विगुणः स तु मध्यमः ।त्रिगुणाभिस्तु मात्राभिः उत्तमः परिकीर्तितः ।। १। १४।।निमेषोन्मेषणो मात्राकालो लघ्वक्षरस्तथा ।प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रिकः ।। १। १५।।प्रथमेन जयेत्स्वेदम्मध्यमेन च वेपथुम् ।विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ।। १। १६।।मृदुत्वं सेव्यमानस्तु सिंहशार्दूलकुञ्जराः ।यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ।। १। १७।।वश्यं नत्तं यथेच्छातो नागं नयति हस्तिपः ।तथैव योगी स्वच्छन्दः प्राणं नयति साधितम् ।। १। १८।।यथा हि साधितः सिंहो मृगान् हस्ति न मानवान् ।तद्वन्निषिद्धपवनः किल्विषं न नृणाः तनुम् ।। १। १९।।तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।श्रूयतां मुक्तिफलद तस्यावस्थाचतुष्टयम् ।। १। २०।।धवस्तिः प्राप्तिः तथा संवित्प्रसादश्च महीपते ।स्वरुपं शृणु चैतेषां कथ्यमानमनुक्रमात् ।। १। २१।।कर्मणामिष्टदुष्टानां जायते फलसंक्षयः ।चेतसो अपकषायत्व यत्र सा धवस्तिरच्यते ।। १। २२।।ऐहिकामुष्मिकान् कामान् लोभमोहात्मकान् स्वयम् ।निरुध्यास्ते यदा योगी प्राप्तिः सा सार्वकालिकी ।। १। २३।।अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् ।विजानातीन्दुसूर्यर्क्षग्रहाणां ज्ञानसंपदा ।। १। २४।।तुल्यप्रभावस्तु सदा योगी प्राप्नोति संपदम् ।तदा संविदिति ख्याता प्राणायामस्य संस्थितिः ।। १। २५।।यान्ति प्रसादं येनास्य मनः पञ्च च बायवः ।इन्द्रियानीन्द्रियार्थाश्च स प्रसाद् इति स्मृतः ।। १। २६।।शृणूस्व च महीपाल प्राणायामस्य लक्षणम् ।युञ्जतश्च सदा योगं यादृग्विहितमासनम् ।। १। २७।।पद्मर्द्धासनं चापि तथा स्वस्तिकमासनम् ।आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ।। १। २८।।समः समासनो भूत्वा संहृत्य चरणावूभौ ।संवृतास्यः तथैवोरु सम्यग्विष्टभ्य चाग्रतः ।। १। २९।।
इति 1 पाष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः ।किञ्चिदुनमितशिरा दन्तैः दन्तान्न संस्पृशेत् ।। १। ३०।।संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ।रजसा तमसौ वृत्तिं सत्त्वेन रजसस्तथा ।स आद्य निर्मले तत्त्वे स्थितो युञ्जीत योगवित् ।। १। ३१।।इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च ।निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ।। १। ३२।।यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः ।सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ।। १। ३३।।स बाह्याभ्यन्तरं शौचं निपाद्याकण्ठनाभितः ।पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ।। १। ३४।।तथा वै योगयुक्तस्य योगिनो नियतात्मनः ।सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ।। १। ३५।।वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान्पृथक् ।व्योमादिपरमाणुञ्च तथात्मानमकल्मषम् ।। १। ३६।।इत्थं योगी यताहारः प्राणायामपरायणः ।जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ।। १। ३७।।दोषान्व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता ।विवर्धयति नारोहेत्तस्माद्भूमिमनिर्जिताम् ।। १। ३८।।प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः ।धारणेत्युव्यते चेयं धार्य्यते यन्मनो यया ।। १। ३९।।शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः ।प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ।। १। ४०।।उपायश्चात्र कथितो योगिभिः परमर्षिभिः ।येन ब्याध्यादयो दोषा न जायन्ते हि योगिनः ।। १। ४१।।यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः ।आपिबेयूस्तथा वायुं पिबेद्योगी जितश्रमः ।। १। ४२।।प्राण्नाभ्यां हृदये चात्र तृतीये च तथोरसि ।कण्ठे मुखे नासिकाग्रे नेत्रभ्रुमध्यमूर्द्धसु ।। १। ४३।।किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता ।दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ।। १। ४४।।तस्य नो जायते मृत्युर्न जरान च वै क्लमः ।न श्रान्तिरवसादोत्थ तुरीये सततं स्थितिः ।। १। ४५।।इयं वै योगभूमिः स्यात् सप्तैव परिकीर्त्तितः ।यत्र स्थिते ब्रह्मस्थितिं लभते नात्र संशयः ।। १। ४६।।नाध्मातः क्षूधितः श्रान्तो न च व्याकुलचेतनः ।युञ्जीत योगं राजेन्द्र१योगी सिद्ध्यर्थमादृतः ।। १। ४७।।नातिशीते न चोण्षे वै न द्वन्द्वेनानिलात्मके ।कालेस्वेतेषु युञ्जीत न योगं ध्यानतत्परः ।। १। ४८।।सशब्दाग्निजलाभ्यासे जीर्णगोष्ठे चतुष्पथे ।शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ।। १। ४९।।सभये कूपतीरे वा चैत्यवल्मीकसंचये ।देषेष्वेतेषु तत्त्वज्ञो योगाब्यासं विवर्जयेत् ।। १। ५०।।सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् ।नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ।। १। ५१।।दृळ्हता चित्तशुद्धिश्च जयते नात्र संशयः ।स्थानकालप्रभावेण निश्चयं विद्धि भूमिप ।तन्मयस्य कुतश्चिन्ता देशकालमयी तथा ।। १। ५२।।देशानिताननादृत्य मूळ्हत्वाद्यो युनक्ति वै ।विघ्नाय तस्य वै दोषा जायन्ते तन्निबोध मे ।। १। ५३।।भाधिर्यं जळता लोपः स्मृतेर्मूकत्त्वमान्धता ।ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ।। १। ५४।।प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् ।तेषां नाशाय कर्त्तव्यं योगिनां तन्निबोध मे ।। १। ५५।।स्निग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् ।वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे ।। १। ५६।।यबागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् ।तद्वत् कल्पे महाशैलं स्थिरं मनस् धारयेत् ।। १। ५७।।विघाते वचनो वाचं वाधिर्य्यं श्रवणेन्द्रियम् ।यथैवाम्रफलं ध्यायेत्तृष्णार्त्तो रसनेन्द्रिये ।। १। ५८।।यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् ।धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ।। १। ५९।।कीलं शिरसि संस्थाप्य काष्थं काष्ठेन ताडयेत् ।लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ।। १। ६०।।द्यावापृथिव्यौ वाय्वग्नी व्यापिनावपि धारयेत् ।अमानुषात्सस्त्वजाद्वा वाधास्त्वेताश्चिकित्सिताः ।। १। ६१।।अमानुयं सत्त्वमन्तर्योगिनं प्रविशेद्यदि ।वाय्वग्निधारणेनैनं देहसंस्थं विनिर्द्दहेत ।। १। ६२।।एवं सर्वात्मना रक्षा कार्य्या योगविदा नृप१।धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।। १। ६३।।प्रवृत्तिलक्षणाख्यानादेयागिनो विस्मयात् तथा ।विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ।। १। ६४।।अलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।कान्तिः प्रसादः स्वासौम्यता च योगप्रवृत्तेः प्रथमं हि चिहुम् ।। १। ६५।।अनुरागी जनो याति परोक्षे गुणकीर्त्तनम् ।न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ।। १। ६६।।शीतोष्णादिभिरत्युग्रैर्यस्य वाधा न विद्यते ।न भीतिमेति चान्यभ्यस्तस्य सिद्धिरुपस्थिता ।। १। ६७।।           इति योगाध्यायः               
योगसिद्धिःउपसर्गाः प्रवर्त्तन्ते दृष्टे ह्यात्मनि योगिनः ।ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ।। २। १।।काम्याः क्रियास्तथा कामान् मानुषानभिवाज्ञति ।स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ।। २। २।।देवत्वममरेशत्वं रसायनचयः क्रियाः ।मरुत्प्रपतनं यञ्जं जलाग्न्यावेशनं तथा ।श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ।। २। ३।।तथोपवासात्पूर्त्ताच्च देवताभ्यर्च्चनादपि ।तेभ्यश्चेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्चति ।। २। ४।।चित्तमिथं वर्त्तमानं यत्नादेयागी निवर्त्तयेत् ।ब्रह्मसङ्गि मनः कुर्व्वन्नुपसर्गात्प्रमुच्यते ।। २। ५।।उपसर्गैर्जितैरेभिरूपसर्गास्तुतः पुनः ।योगिनः सम्प्रवर्त्तन्ते सात्त्वराजसतामसाः ।। २। ६।।प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ ।पञ्चैते योगिनां योगविघ्नाय कटुकोदया ।। २। ७।।वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः ।प्रतिभान्ति यदस्त्येति प्रातिभः स तु योगिनः ।। २। ८।।शब्दार्थानखिलान् वेत्ति शब्दं गृह्नति चैव यत् ।योजनानां सहस्त्रेभ्यः श्रावणः सोऽभिधीयते ।। २। ९।।समन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः ।उपसर्गं तमप्यान्थर्दैवमुन्मत्तवद्बुधाः ।। २। १०।।भ्राम्यते यन्निरालम्बं सनो दोषेण योगिनः ।समस्ताचारविभ्रंशाद्भ्रमः स परिकीर्त्तितः ।। २। ११।।आवर्त्त इव तोयस्य ज्ञानावत्तो यदाकुलः ।नाशयेच्चित्तमावर्त्त उपसर्गः स उच्यते ।। २। १२।।एतैर्नाशितयोगास्तु सकला देवयोनयः ।उपसर्गैर्महाघोरैरावर्त्तन्ते पुनः पुनः ।। २। १३।।प्रावृत्य कन्वलं शुल्कं योगी तस्मान्मनोमयं ।चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ।। २। १४।।योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ।सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्द्ध्न धारयेत् ।। २। १५।।धरित्रीं धारयेद्योगी तत्सौख्यं प्रतिपद्यते ।आत्मानं मन्यते चोर्व्विं तद्बन्धञ्च जहाति सः ।। २। १६।।तथैवाप्सुरसं सूक्ष्मं तद्वद्रूपञ्च तेजसि ।स्पर्शं वायौ तथा तद्वद्विभ्रतस्तस्य धारणाम् ।व्योम्नः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ।। २। १७।।मनसा सर्व्वभूतानां मनस्याविशते यदा ।मानसीं धारणां विभ्रन्मनः सूक्ष्मञ्च जायते ।। २। १८।।तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् ।परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुतमम् ।। २। १९।।परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् ।सम्यग्विज्ञाय योऽलर्क१तस्यावृत्तिर्न विद्यते ।। २। २०।।एतासां धारणानन्तु सप्तानां सौक्ष्म्यमात्मवान् ।दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परं व्रजेत् ।। २। २१।।यस्मिन् यस्मिंश्च कुरुते भुते रागं महीपते१।तस्मिंस्तस्मिन् समासक्तिं सम्प्राप्य स विनश्यति ।। २। २२।।तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ।परित्यजति यो देही स परं प्राप्नुयात्पदम् ।। २। २३।।एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव ।भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ।। २। २४।।गद्धादिषु समासक्तिं सम्प्राप्य स विनश्यति ।पुनरावर्त्तते भूप१स ब्रह्मापरमानुषम् ।। २। २५।।सप्तैता धारणा योगी समतीत्य यदिच्छति ।तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर१।। २। २६।।देवानामसुराणां वा गन्धर्व्वोरगरक्षसाम् ।देहेषु लयमायाति सङ्गं नाप्नोति च क्वचित् ।। २। २७।।अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् ।। २। २८।।यत्र कामावसायित्वं गुणानेतांस्तथैश्वरान् ।प्राप्नोत्यष्टौ नरव्याघ्र१परं निर्व्वाणसूचकान् ।। २। २९।।सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः ।महिमाऽशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यतः ।। २। ३०।।प्राकाम्यस्य च व्यापित्वादीशित्वञ्चेश्वरो यतः ।वशित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ।। २। ३१।।यत्रेच्चास्थानमप्युक्तं यत्र कामावसायिता ।त्रैश्वर्य्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ।। २। ३२।।मुक्तिसंसूचकं भूप१परं निर्वाणमात्मनः ।ततो न जायते नैव वर्द्धते न विनश्यति ।। २। ३३।।नापि क्षयमवाप्नोति परिणामं न गच्छति ।छेदं क्लेदं तथा दाहं शोषं भुयादितो न च ।। २। ३४।।भुतवर्गादवाप्नोति शब्दाद्यैर्ह्रियते न च ।न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते ।। २। ३५।।यथा हि कनकं खन्तमपद्रव्यवदग्निना ।दग्धदोषं द्वितीयेन खन्तेनैक्यं व्रजेन्नृप१।। २। ३६।।न विशेषमवाप्नोति तद्वद्योगाग्निना यतिः ।निर्द्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ।। २। ३७।।यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् ।तदाख्यस्तन्मयो भुतो न गृह्येत विशेषतः ।। २। ३८।।परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः ।योगी याति पृथग्भावं न कदाचिन्महीपते१।। २। ३९।।यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति ।तथात्मा साम्यमभ्येति योगिनः परमात्मनि ।। २। ४०।।           इति योगसिद्धिः               
योगिचर्य्याअलर्क उवाच ।भगवन्१योगिनश्चर्य्यं श्रोतुमिच्छामि तत्त्वतः ।ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति ।। ३। १।।
दत्तात्रेय उवाच ।मानापमानौ यावेतौ प्राप्त्युद्वेगकरौ नृणाम् ।तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ।। ३। २।।
मानापमानौ यावेतौ तावेवान्थर्विषामृते ।अपमानोऽमृतं तत्र मानस्तु विषमं विषम् ।। ३। ३।।
चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ।। ३। ४।।आतित्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।म्हाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित् क्वचित् ।। ३। ५।।व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्रवर्ज्जने ।अदेत योगविद्भैक्ष्यं न तु त्रिष्वेव नित्यशः ।। ३। ६।।यथैवमवमन्यन्ते जनाः परिभवस्ति च ।तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् ।। ३। ७।।भैक्ष्यं चरेद्गृहस्थेषु यायावरगृहेषु च ।श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदृश्यते ।। ३। ८।।अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ।श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ।। ३। ९।।अत ऊर्द्धं पुनश्चापि अदुष्ठापतितेषु च ।भैक्ष्यचर्य्या विवर्णेषु जघन्या वृत्तिरिष्यते ।। ३। १०।।भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा ।फलं मूलं प्रियङ्गुं वा कणपिण्याकशक्तवः ।। ३। ११।।इत्येते च शुभाहारा योगिनः सिद्धिकारकाः ।तत्प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना ।। ३। १२।।अपः पूर्वं सकृत् प्राश्य तुष्णीन्भूत्वा समाहितः ।प्राणारेति ततस्तस्य प्रथमा ह्यान्थतिः स्मृता ।। ३। १३।।अपानाय द्वितीया तु समानायेति चापरा ।उदानाय चतुर्थी स्यात् व्यानायेति च पञ्चमी ।। ३। १४।।प्राणायामैः पृथक् कृत्वा शेषं भुञ्जीत कामतः ।अपः पुनः सकृत् प्राश्य आचम्य हृदयं स्पृशेत् ।। ३। १५।।अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च ।व्रतानि पञ्च भिक्षुणामहिंसापरमाणि वै ।। ३। १६।।अक्रोधो गुरुशुश्रुषा शौचमाहारलाघवम् ।नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः ।। ३। १७।।सारभूतमुपासीत ज्ञानं यत् कार्य्यसाधकम् ।ज्ञानानां व धा षेयं योगविघ्नकरा हिन्सा ।। ३। १८।।इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ।। ३। १९।।त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।विधाय बुद्ध्ह्या द्वाराणि मनो ध्याने निवेशयेत् ।। ३। २०।।शून्येष्वेवावकाशेषु गुहासु च वनेषु च ।नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ।। ३। २१।।वाग्दन्तः कर्मदन्तश्च मनोदन्तश्च ते त्रयः ।यस्मैते नियता दन्ताः स त्रिदन्ती महायतिः ।। ३। २२।।सर्वमात्ममयं यस्य सदसज्जगदीदृशम् ।गुणागुणमयं तस्य कः प्रियः को नृपाप्रियः ।। ३। २३।।विशुद्धबुद्धिः समलोष्ठ्रकाञ्चनः समस्तभूतेषु च तत्समाहितः ।स्थानं परं शाश्वतमव्यञ्च परं हि गत्वा न पुनः प्रजायते ।। ३। २४।।वेदाः श्रेष्ठाः सर्वयज्ञक्रियाश्च यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् ।ज्ञानाद्ध्यानं सङ्गरागव्यपेतं तस्मिन्प्राप्ते शाश्वतस्योपलब्धिः ।। ३। २५।।समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकान्तरतिर्यतेन्द्रियः ।समाप्नुयाद्योगमिमं महात्मा विमुक्तिमाप्नोति ततः स्वयोगतः ।। ३। २६।।           
इति योगिचर्य्या 
।।प्रमाण लक्षण ( माधव) ।।
।श्री गुरुभ्यो नमः हरिः ॐ ।।अशेषगुरुमीशेशं नारायणमनामयम्  ।संप्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम्  ्र्र्र्रयथार्थं प्रमाणम्  ।  ।तद्द्विविधम् ।  केवलमनुप्रमाणं च  ।  ।यथार्थज्ञानं केवलम्  ।  ।तत्साधनमनुप्रमाणम्  ।  ।केवलं चतुर्विधम् ।  ईशलक्ष्मीयोग्योगिभेदेन  ।  ।पूर्वद्वयमनादिनित्यम्  ।  ।स्वातंत्रपारतंत्राभ्यां तद्विशेषः ।  पूर्वंस्वपरगताखिलविशेष विषयम् ।  द्वितीयंईशेऽन्येभ्योऽधिकम् ।  ।असार्वत्रिकम् ।  अन्यत्र सर्वविषयम् ।  स्पष्टत्वे भेदः ।  ।योगिज्ञानं ऋजूनामनादिनित्यम् ।  ईशे जीवेभ्योऽधिकम् ।अन्यत्रालोचने सर्वविशयम् ।  क्रमेण वर्धमानम् ।आमुक्तेः ।  ततोऽव्ययम् ।  ।ततोऽर्वाक्क्रमेण ह्रसितम् ।  सादि च तात्त्विकेभ्योऽन्यत्र ।  ।अयोगिज्ञानं उत्पत्तिविनाशवत् ।  अल्पम् ।  ।अनुप्रमाणं त्रिविधम् ।  प्रतक्षमनुमानमागमं इति ।  ।निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम् ।निर्दोषोपपत्तिरनुमानम् ।  निर्दोषः शब्दः आगमः ।  ।अर्थापत्त्युपमे अनुमा विशेषः ।  ।अभावोऽनुमाप्रत्यक्षं च ।  ।परामर्शापरामर्शविशेषात् ।  ।संभवपरिशेषानुमा ।  ।आत्मान्योन्याश्रय चक्रकानवस्थाकल्पनागौरवश्रुतदृष्टहानादयोदूषणानुमा ।  ।उपक्रमोपसंहार तदैकरूपाभ्यासापूर्वताफलार्थवादाश्च ।  ।उपपत्तिविशेषाः ।  ।त एव सोपपत्तयो लिङ्गानि ।  ।समाख्या वाक्यप्रकरणस्थानानि च ।  लिङ्गविशेषाः ।  ।व्याप्तिरुपपपत्तिमूलम् ।  ।सा प्रतिज्ञाहेतुदृष्टांतरूपा ।  ।हेतुगर्भा प्रतिज्ञा केवलाऽपि ।  ।सिद्धौ प्रतिज्ञायां हेतुमात्रं च ।  ।दृष्टांतः स प्रतिज्ञो हेतुगर्भः ।  ।उपपत्तिदोषौ विरोधासङ्गति ।  ।न्यूनाधिके वाचनिके ।  ।संवादानुक्तियुतास्तु एव निग्रहाः ।  ।प्रत्यक्षं सप्तविधम् ।  साक्षि षडिन्द्रियभेदेन ।  ।मानस प्रत्यक्षजा स्मृतिः ।  ।स्मृत्यनुवादयोर्नाप्रामाण्यम् ।  ।यथार्थत्वानुभवात् ।  ।अहानेश्च ।  ।विरोधो मानस्ववाक्याभ्याम् ।  ।स्ववाक्यविरोधोऽपसिद्धांतजातिरूपेण ।  ।जातिर्न मेये मानापेक्षेत्यादिका ।  ।मेये मानापेक्षास्तीति च तेनैव न्यायेन सिद्धत्वात् ।  ।मानविरोधश्च ।  ।छलमसङ्गति ।  ।अन्यच्च ।  ।अन्यच्च ।  ।गृष्टिविवक्षया गामानयेत्युक्ते पृथिवी विवक्षयागवानयनमशक्यमितिवत् ।  ।त्रिविधो विरोधः ।  प्रतिज्ञाहेतुदृष्टांतभेदेन ।  ।प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोधः ।  ।हेतुस्वरूपासिद्धिरव्याप्तिश्चेति हेतुविरोधः ।  ।साध्यस्य साधनस्य वाऽननुगमो दृष्टांत विरोधः ।  ।प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः ।  ।स एवोपाधि दोषोऽपि ।  ।सर्व एते दृश्यत्वानुमाने दृष्टव्याः ।  ।प्रत्यक्षागमादिभिर्जगतः सत्यत्वात् ।  ।तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात् ।  ।अनिर्वचनीयस्य प्रतिवादिनोऽसिद्धत्वात् ।  ।अनिर्वचनीयस्येति ।  ।आत्मनोऽपि दृश्यत्वात् ।  ।शुक्तिरजतादेरनिर्वचनीयत्वाभावात् ।  ।अनिर्वचनीय दृश्यत्वाभावात् ।  ।मानसिद्धत्वादिति सप्रतिसाधनत्वात् ।  ।जगत्सत्यत्वग्राहि प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेअनुमानागमप्रामाण्य ग्राहिणोऽपि प्रत्यक्षत्वाविशेषादुत्तरक्षणेप्रामाण्यं न सेत्स्यतीति भेदादिवाक्यानामेव प्रामाण्यं स्यात् ।  ।तस्य साक्षिसिद्धत्वं चेज्जगत्सत्यत्वमपि साक्षिसिद्धम् ।  ।व्यभिचारिश्चेदागमार्थानुमानिर्दोषत्वाध्यवसाये च समः ।  ।अत उत्तरदिवसेऽभेदवाक्यस्य भेदोऽर्थः स्यात् ।  ।निर्दोषानुमायाः सदोषत्वम् ।  ।सदोषानुमायाः निर्दोषत्वम् ।  ।इत्यव्यवस्था ।  ।आश्रयसाध्यवधिकरणासिद्धयो न दूषणम् ।  ।अतिप्रसङ्गाभावात् ।  ।अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये ।  ।व्याप्तिरेव हि प्रयोजिका ।  ।असत्यपि व्याप्तिरस्त्येव ।  ।असदाश्रयस्य साधकत्वं नेत्यपि व्याप्तिं विनाकथं निवार्यते ।  ।असदाश्रयमित्यादि विशेषणत्वसंभवे कथमव्याप्तिः ।  ।न चात्यंताभावोऽपि सर्वधर्मरहितः ।  प्रमेयत्वाद्यनुभवात् ।  ।परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च ।  ।विमतं सकर्तृकमित्यत्र सर्वज्ञत्वस्य पक्षधर्मता बलेनसिद्ध्यङ्गीकारात् ।  ।परिशेषोऽर्थापत्तिरनुमानमित्यविशेषः ।  उपपत्तिमात्रत्वात् ।  ।उपपत्तेश्च व्याप्त्यपेक्षा सर्वथाङ्गीकार्येत्याग्रह मात्रेण भेदः ।  ।उपमानस्यापि व्याप्तिरूपत्वात् ।  ।न हि स्वसदृशेनासदृशं क्वचिद्दृष्टम् ।  ।योग्यानुपलब्धेश्च लिङ्गत्वम् ।  ।अविशेषात् ।  ।अविशेषात् ।  ।अविशेषात् ।  ।अविशेषात् ।  ।उक्तदोषेष्वेवाशेषानुमानदोषाणामंतर्भावः ।  ।साध्याविशिष्टोऽसिद्धिः ।  ।सिद्धसाधकोऽसङ्गतिः ।  ।न प्रमासाधनं प्रमाणम् ।  ।ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात् ।  ।न चाज्ञातपरिच्छित्तिरेव प्रमेत्यत्र किञ्चिन्मानम् ।  ।याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात् ।  ।न चानुभूतिरेव प्रमाणम् ।  स्मृत्यादावव्याप्तेः ।  ।वेदानुमानादि प्रामाण्यप्रसिद्धेश्च ।  ।स्मृतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् ।प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिः ।।     इति श्रुतेश्च ।  ।ऐतिह्यमागमभेदः ।  ।न च सम्यगनुभवसाधनं प्रमाणम् ।  ईश्वरज्ञानादावव्यप्तेः ।  ।अप्रामाण्ये प्रमाणाभावच्च ।  ।प्रामाण्यज्ञाने च ।  ।तत्राप्यङ्गीकारेऽनवस्थितेः ।  ।स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः ।  ।स्मृतेश्च प्रामाण्यानङ्गीकारेऽनुभूतं मयेत्यत्र प्रमाणाभावात् ।  ।लिङ्गत्वेन प्रामाण्ये कल्पनागौरवम् ।  ।दृष्टहानिश्च ।  ।स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निरासादनुभवविरोधः ।  ।तदनुभवाभाव इत्युक्तेऽनुभवः स्मृतिश्च नास्तीत्युक्तेकिमुत्तरम् ।  ।स्वसिद्धैः साधनं परसिद्धैर्दूषणम् ।  ।अतो न दूषणे अपसिद्धांतादि ।  ।इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेव ।  ।आनंदतीर्थमुनिना ब्रह्मतर्कोक्तमार्गतः ।मानलक्षणमित्युक्तं सङ्क्षेपाद्ब्रह्मसिद्धये ्र्र्र्रअशेषमानमेयैक साक्षिणेऽक्षयमूर्तये ।अजेश पुरुहूतेड्य नमो नारायणाय ते ्र्र्र्र          
इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचितं          प्रमाणलक्षनग्रन्थोत्तमं संपूर्णम्          
।।भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ।।
।।पातञ्जल- योग- सूत्राणि ।।
।।श्री पातञ्जल- योग- सूत्राणि ।।
।।महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ।।
।।प्रथमोऽध्यायः ।।
।।समाधि- पादः ।।अथ योगानुशासनम् ।।१।।योगश्चित्तवृत्तिनिरोधः ।।२।।तदा द्रष्टुः स्वरूपेऽवस्थानम् ।।३।।वृत्तिसारूप्यम् इतरत्र ।।४।।वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ।।५।।प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ।।६।।प्रत्यक्षानुमानागमाः प्रमाणानि ।।७।।विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ।।८।।शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।।९।।अभावप्रत्ययालम्बना वृत्तिर्निद्रा ।।१०।।अनुभूतविषयासम्प्रमोषः स्मृतिः ।।११।।अभ्यासवैराग्याभ्यां तन्निरोधः ।।१२।।तत्र स्थितौ यत्नोऽभ्यासः ।।१३।।स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ।।१४।।दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ।।१५।।तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ।।१६।।वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ।।१७।।विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ।।१८।।भवप्रत्ययो विदेहप्रकृतिलयानाम् ।।१९।।श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ।।२०।।तीव्रसंवेगानाम् आसन्नः ।।२१।।मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ।।२२।।ईश्वरप्रणिधानाद्वा ।।२३।।क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।।२४।।तत्र निरतिशयं सर्वज्ञबीजम् ।।२५।।स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ।।२६।।तस्य वाचकः प्रणवः ।।२७।।तज्जपस्तदर्थभावनम् ।।२८।।ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ।।२९।।व्याधिस्त्यानसंशयप्रमादालस्याविरति-
भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
चित्तविक्षेपास्तेऽन्तरायाः ।।३०।।दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ।।३१।।तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः ।।३२।।मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां
भावनातश्चित्तप्रसादनम् ।।३३।।प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ।।३४।।विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ।।३५।।विशोका वा ज्योतिष्मती ।।३६।।वीतरागविषयं वा चित्तम् ।।३७।।स्वप्ननिद्राज्ञानालम्बनं वा ।।३८।।यथाभिमतध्यानाद्वा ।।३९।।परमाणु परममहत्त्वान्तोऽस्य वशीकारः ।।४०।।क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु
तत्स्थतदञ्जनता समापत्तिः ।।४१।।तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ।।४२।।स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ।।४३।।एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ।।४४।।सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ।।४५।।ता एव सबीजः समाधिः ।।४६।।निर्विचारवैशारद्येऽध्यात्मप्रसादः ।।४७।।ऋतम्भरा तत्र प्रज्ञा ।।४८।।श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् ।।४९।।तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ।।५०।।तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः ।।५१।
।।इति पतञ्जलि- विरचिते योग- सूत्रे प्रथमः समाधि- पादः ।। 
।।द्वितीयोऽध्यायः ।।
।।साधन- पादः ।।तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।।१।।समाधिभावनार्थः क्लेशतनूकरणार्थश्च ।।२।।अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।।३।।अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।।४।।अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।।५।।दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।।६।।सुखानुशयी रागः ।।७।।दुःखानुशयी द्वेषः ।।८।।स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ।।९।।ते प्रतिप्रसवहेयाः सूक्ष्माः ।।१०।।ध्यानहेयास्तद्वृत्तयः ।।११।।क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।।१२।।सति मूले तद्विपाको जात्यायुर्भोगाः ।।१३।।ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ।।१४।।परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ।।१५।।हेयं दुःखम् अनागतम् ।।१६।।द्रष्टृदृश्ययोः संयोगो हेयहेतुः ।।१७।।प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं
भोगापवर्गार्थं दृश्यम् ।।१८।।विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ।।१९।।द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।।२०।।तदर्थ एव दृश्यस्यात्मा ।।२१।।कृतार्थं प्रति नष्टम् अप्यनष्टं तदन्यसाधारणत्वात् ।।२२।।स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ।।२३।।तस्य हेतुरविद्या ।।२४।।तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ।।२५।।विवेकख्यातिरविप्लवा हानोपायः ।।२६।।तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।।२७।।योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ।।२८।।यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ।।२९।।अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।।३०।।जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ।।३१।।शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।।३२।।वितर्कबाधने प्रतिपक्षभावनम् ।।३३।।वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका
मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ।।३४।।अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।।३५।।सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।।३६।।अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।।३७।।ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ।।३८।।अपरिग्रहस्थैर्ये जन्मकथंतासम्बोधः ।।३९।।शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ।।४०।।सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन- योग्यत्वानि च ।।४१।।संतोषाद् अनुत्तमः सुखलाभः ।।४२।।कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ।।४३।।स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ।।४४।।समाधिसिद्धिरीश्वरप्रणिधानात् ।।४५।।स्थिरसुखम् आसनम् ।।४६।।प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ।।४७।।ततो द्वन्द्वानभिघातः ।।४८।।तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ।।४९।।बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ।।५०।।बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ।।५१।।ततः क्षीयते प्रकाशावरणम् ।।५२।।धारणासु च योग्यता मनसः ।।५३।।स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।।५४।।ततः परमा वश्यतेन्द्रियाणाम् ।।५५।।
।।इति पतञ्जलि- विरचिते योग- सूत्रे द्वितीयः साधन- पादः ।।  
।।तृतीयोऽध्यायः ।।
।।विभूति- पादः ।।देशबन्धश्चित्तस्य धारणा ।।१।।तत्र प्रत्ययैकतानता ध्यानम् ।।२।।तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ।।३।।त्रयम् एकत्र संयमः ।।४।।तज्जयात् प्रज्ञालोकः ।।५।।तस्य भूमिषु विनियोगः ।।६।।त्रयम् अन्तरङ्गं पूर्वेभ्यः ।।७।।तद् अपि बहिरङ्गं निर्बीजस्य ।।८।।व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः ।।९।।तस्य प्रशान्तवाहिता संस्कारात् ।।१०।।सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ।।११।।ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ।।१२।।एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।।१३।।शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ।।१४।।क्रमान्यत्वं परिणामान्यत्वे हेतुः ।।१५।।परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ।।१६।।शब्दार्थप्रत्ययानाम् इतरेतराध्यासात्
सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।।१७।।संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ।।१८।।प्रत्ययस्य परचित्तज्ञानम् ।।१९।।न च तत् सालम्बनं तस्याविषयीभूतत्वात् ।।२०।।कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे
चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ।।२१।।सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा ।।२२।।मैत्र्यादिषु बलानि ।।२३।।बलेषु हस्तिबलादीनि ।।२४।।प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ।।२५।।भुवनज्ञानं सूर्ये संयमात् ।।२६।।चन्द्रे ताराव्यूहज्ञानम् ।।२७।।ध्रुवे तद्गतिज्ञानम् ।।२८।।नाभिचक्रे कायव्यूहज्ञानम् ।।२९।।कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।।३०।।कूर्मनाड्यां स्थैर्यम् ।।३१।।मूर्धज्योतिषि सिद्धदर्शनम् ।।३२।।प्रातिभाद्वा सर्वम् ।।३३।।हृदये चित्तसंवित् ।।३४।।सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः
परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ।।३५।।ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ।।३६।।ते समाधावुपसर्गा व्युत्थाने सिद्धयः ।।३७।।बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ।।३८।।उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ।।३९।।समानजयाज्ज्वलनम् ।।४०।।श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् ।।४१।।कायाकाशयोः सम्बन्धसंयमाल्लघुतूल- समापत्तेश्चाकाशगमनम् ।।४२।।बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ।।४३।।स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।।४४।।ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ।।४५।।रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ।।४६।।ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ।।४७।।ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ।।४८।।सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
सर्वज्ञातृत्वं च ।।४९।।तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ।।५०।।स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ।।५१।।क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ।।५२।।जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ।।५३।।तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ।।५४।।सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ।।५५।।।।इति पतञ्जलि- विरचिते योग- सूत्रे तृतीयो विभूति- पादः ।।  ।।चतुर्थोऽध्यायः ।।।।कैवल्य- पादः ।।जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ।।१।।जात्यन्तरपरिणामः प्रकृत्यापूरात् ।।२।।निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ।।३।।निर्माणचित्तान्यस्मितामात्रात् ।।४।।प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ।।५।।तत्र ध्यानजम् अनाशयम् ।।६।।कर्माशुक्लाकृष्णं योगिनस्त्रिविधम् इतरेषाम् ।।७।।ततस्तद्विपाकानुगुणानाम् एवाभिव्यक्तिर्वासनानाम् ।।८।।जातिदेशकालव्यवहितानाम् अप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ।।९।।तासाम् अनादित्वं चाशिषो नित्यत्वात् ।।१०।।हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ।।११।।अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् ।।१२।।ते व्यक्तसूक्ष्मा गुणात्मानः ।।१३।।परिणामैकत्वाद् वस्तुतत्त्वम् ।।१४।।वस्तुसाम्ये चित्तभेदात् तयोर्विभक्तः पन्थाः ।।१५।।न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ।।१६।।तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ।।१७।।सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ।।१८।।न तत् स्वाभासं दृश्यत्वात् ।।१९।।एकसमये चोभयानवधारणम् ।।२०।।चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ।।२१।।चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ।।२२।।द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ।।२३।।तदसंख्येयवासनाभिश्चित्रम् अपि परार्थं संहत्यकारित्वात् ।।२४।।विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ।।२५।।तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ।।२६।।तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।।२७।।हानम् एषां क्लेशवदुक्तम् ।।२८।।प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ।।२९।।ततः क्लेशकर्मनिवृत्तिः ।।३०।।तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयम् अल्पम् ।।३१।।ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।।३२।।क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ।।३३।।पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ।।३४।।।।इति पतञ्जलि- विरचिते योग- सूत्रे चतुर्थः कैवल्य- पादः ।।
।।इति श्री पातञ्जल- योग- सूत्राणि ।। 
।।षट्विंशत्तत्त्व सन्दोह ।।             
षट्त्रिंशत्तत्त्व सन्दोह            क्जबत्तचष्।लकजबततबततखब कबलमयजब यदयमनुत्तरमूर्तिर्निजेच्छयाखिलमिदं जगत्स्रष्टुं ।पस्पन्दे स स्पन्दः प्रथमश्शिवतत्त्वमुच्यते तज्ज्ञैः ।।१।।इह हि स्वतंत्रशिवाद्वयदर्शनेपरमेश्वरस्स्वतंत्रश्चिद्घनसंवित्स्वभावस्स्वयास्वातंत्र्याख्ययाशक्त्या सततं शिवादिधरण्यन्ततत्तद्भुवनभूततत्त्वात्मनाक्रीडनादिशीलत्वात् कृत्यपञ्चकविधायी वस्तुतःक्रमराहित्येऽपिविश्वसृष्टौ आभासनमात्रसारेणपारमार्थिककार्यकारणभावेनक्रममपि उद्भावयन् अनाख्यत्वेऽपि स्वेच्छयैव स्वात्मभित्तौतत्तच्छिवादितत्त्वाभिख्यामवभासयति । तथात्वेऽपिषट्त्रिंशत्तत्त्वमयकुलस्वरूपपरामर्शनाताखण्ड्येनस्वचमत्कारविमर्शसारामनुत्तर आनंदधनावस्थान्नोज्झतीतिवास्तवाशयावबोधनाय कश्चिंमहामाहेश्वरःपरमेशशक्तिपातानुगृहीतःतत्त्वक्रमप्रक्रियामार्याभिरेकविंशत्यासमुपनिबबन्ध यदयमित्यादिना । अनुत्तरमूर्तेभगवतःपरमेश्वरस्यप्रकाशघनस्वात्मैकात्भ्येनावस्थितं विश्वं सिसृक्षोःदर्पणनगरवत स्वेच्छयैव स्वात्मन्याद्याप्रोंमिमीलयिषावस्थाशिवतत्त्वव्यपदेश्या पञ्चशक्तिनिर्भरत्वात्स्वातंत्रियात्चिदादिप्राधान्येन क्रमशः शुद्धाध्वनितत्त्वसृष्ट्यवभासनंमायाविद्यादेस् संवित्प्रकाशघनपरमशिवात्व्यतिरेकानतिरेकविकल्पैरुपहतत्वात्स्वतंत्रियमेव केवलं विश्वोत्पत्तिसंहरणादौमूर्धाभिषिक्तंतत्तदनन्तशक्तिनियमानां क्रोडीकारित्वात् वक्ष्यमाणेऽपितत्तद्रूपोपग्रहणे स्वतंत्र्यामुक्तत्वान्नप्राच्यस्वभावापायः ।।१।।इच्छा सैवस्वच्छा संततसमवायिनी सती शक्तिः ।सचराचरस्य जगतो बीजं निखिलस्य निजनिलीनस्य ।।२।।तस्य स्वाभिन्ना स्वतंत्रेच्छाशक्तिरेवोद्भविष्यतो विश्वस्यस्वांतर्निलीनत्वात्बीजभूता शक्तितत्त्वतांयाति शक्तेश्शक्तिमद्धर्मत्वेऽपिनांयदर्शनाभिमतवत्तस्मात्व्यतिरेकःनैष्कर्म्येणात्रेच्छायास्स्वच्छत्वात्हृदयसारोर्मिप्रभृतिभिः संज्ञाभि तत्तद्दर्शनेषु अभिधानं ।परमेश्वर एव हि स्वैश्वर्योच्छलत्तयापूर्णाहन्ताचमत्कारतारतम्येनशक्तिदर्शामधिशेते इत्यत्रानन्दशक्तिप्राधान्यं ।।२।।स्वेच्छाशक्त्युद्गीर्णं जगदात्मतया समाच्छाद्य ।निवसन्स एव निखिलानुग्रहनिरतस्सदाशिवोऽमिहितः ।।३।।तस्यैव परमेश्वरस्य स्वस्वातन्त्र्योद्भासितस्य विश्वस्यविशुद्धसंविन्मात्राधिकरण्येन स्वात्मन्येवसमुल्लासनात्सदित्याख्यानात्सदाशिवतत्त्वावस्थातस्सभाविनस्समस्तभावराशेस्सम्यक्बहिरवबिभासयिषालक्षणक्रीडारसिकत्वातनुग्रहनिरततद्भूमिकांगृह्णातीत्यतो निवसन्नित्युक्तं ।।३।।विश्वं पश्चात्पश्यन् इदन्तया निखिलमीश्वरो जातः ।सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमतिः ।।४।।एवं क्रमावभासनात्विश्वस्य शुद्धसंविन्मात्राधिकरणएव स्फुटतया परामृश्यमानस्याहमंशेअभिषेचनात्स एव परमेश्वर ईश्वरतत्त्वदशामधिश्रयत्यत्रवेद्यजातस्य स्फुटावभासनाज्ज्ञानशक्त्युद्रेकः ।आन्तरदशाय उद्रिक्तत्वात्सदाशिवावस्थाबर्हिभावपरतोद्रेकात् तु ईश्वरावस्था इत्यनयोर्विशेषः ।प्ररूढभेदस्य इदन्तांशस्यसमधृततुलापुटन्यायेनाहमंशस्फुरणायांशुद्धविद्यातत्त्वं ।अत्र विश्वस्य स्फुटतरं परामर्शनात्क्रियाशक्तिः प्रधाना ।इयति च शुद्धस्वातंत्र्यमेव तत्तद्वैचित्र्येण प्रस्फुरतीतिशुद्धोध्वा ।।४।।माया विभेद बुद्धिर्निजांशजातेषु निखिलजीवेषु ।नित्यं तस्य निरङ्कुशविभवं वेलेव वारिधे रुन्धे ।।५।।अशुद्धे पुनरध्वनि परमेश्वरैवस्वात्मप्रच्छादनसामक्रीषयाधोरभट्टारकभूमिंमन्त्रमहेश्वररूपां गृहीत्वा दुर्घटसम्पादनसामर्थ्येनमायाशक्त्या स्वतोऽन्योन्यतश्च भिन्नमणुनां भोगसिद्धयेकलादिक्षित्यन्तं जडाजडवर्गं क्रमतोऽक्रमतोऽप्यवभासयतितत्र भिन्नभिन्नप्रथात्मकमयीयमलेन स्वाङ्गकल्पेष्वपिजडवेद्यवर्गेषु विभिन्नतया बुद्धिरेव मायाख्यं तत्त्वं येनतस्यनिरर्गलं स्वातंत्र्यं प्रतिहंयते वेलयेवाब्धितरङ्गाणांवैभवं ।।५।।स तया परिमितमूर्तिस्सङ्कुचितसमस्तशक्तिरेष पुमान् ।रविरिव संध्यारक्तस्संहृतशक्तिस्स्वभासनेऽप्यपटुः ।।६।।अविकार्यस्यापि तस्य चिदात्मनः स्वशक्तीनांसङ्कोचनपुरः सरं शक्तिदारिद्र्यमापन्नस्याण्वपरपर्याया पुरुषसंज्ञा संहृतशक्तित्वेन परिमितात्मास स्वात्मैश्वर्यामपि प्रत्यभिज्ञातुमपटुः सञ्चरतिविभिन्नयोनिषु ।यदापुनश्शक्तिपाततारतंयात्विज्ञापितैश्वर्यस्स्वाङ्गकल्पमेवविश्वं प्रत्यभिजानीयात् तदा जीवत् शिवभावं प्रत्यापद्यते ।।६।।संपूर्णकर्तृताद्या बह्व्यस्सन्त्यस्य शक्तयस्तस्य ।सङ्कोचात्सङ्कुचिताः कलादिरूपेण रूढयन्त्येवं ।।७।।शत्तयन्तरक्रोडीकारिण्या स्वातन्त्रशक्त्यावियुक्तत्वादेवपरमेश्वरस्य बहुशक्तित्वं सङ्कोचग्रहणादेवसर्वास्तच्छक्तयस्सङ्कुचितीभूय कलादितत्त्वपञ्चकेनप्ररोहमुपगच्छन्ती । ता यथासर्ता सर्वज्ञता तृप्तिः नित्यता स्वातन्त्र्यमित्येतत्पञ्चकंशुद्धाशुद्धभेदेन द्विधा परमेशविषयतया शुद्धंसंसारविषयतया तु अशुद्धं ।।७।।तत्सर्वकर्तृता सा सङ्कुचिता कतिपयार्थमात्रपरा ।किञ्चित्कर्तारममुं कलयन्ति कीर्त्यते कला नाम ।।८।।गोपितस्वरूपत्वान्निरुद्धशक्तेः परमेश्वरस्यसर्वकर्तृताशक्तिः प्राणादिपरिमितप्रमातृभावे किञ्चित्कर्तृतोद्वलनात्मना कलनेन कलातत्त्वात्मतां यातियद्वशात्किञ्चिदेव कर्तुमुत्सहते अणुः न सर्वत्र कर्तृत्वमिति ।।८।।सर्वज्ञतास्य शक्तिः परिमिततनुरल्पवेद्यमात्रपरा ।ज्ञानमुत्पादयन्ती विद्येति निगद्यते बुधैराद्यैः ।।९।।एवं तस्यैव सर्वज्ञताशक्तिस्सङ्कोचं गृहीतवतीकिञ्चिज्ज्ञेयमात्रपरत्वेन ज्ञानोत्पादनात्विद्यातत्त्वंविद्ययैव बुद्धिदर्पणे प्रतिफलिता भावा विविच्यंतेगुणसङ्कीर्णनतया तस्य विवेक्तुमक्षमत्वात्तस्मात्विद्ययैवार्थविवेकः ।।९।।नित्यपरिपूर्णतृप्तिः शक्तिस्तस्यैव परमिता तु सती ।भोगेषु रज्जयन्ती सततममुं रागतत्त्वतां याता ।।१०।।परमेश्वरस्य नित्यपरिपूर्णतृप्तिर्नाम शक्तिः पारमित्ययाता यत्र क्वचन उपादेयाद्यभिमतेकिञ्चन्मे भूयात् इति सामान्येन अभिष्वङ्गमात्रादापद्यतेरागतत्त्वं ।विशेषाभिष्वङ्गस्तु अस्यैव पल्लवितप्रायेत्येतदेव कलाविद्ययोःप्रागुक्तयोः किञ्चिद्भागे निमित्तं ।।१०।।सा नित्यतास्य शक्तिर्निकृष्य निधनोदयप्रदानेन ।नियतपरिच्छेदकरी क्लृप्ता स्यात्कालतत्त्वरूपेण ।।११।।अकालकलितस्य चिदात्मनो नित्यत्वाख्याशक्तिन्यग्भावमाश्रित्य कार्यारूषितकर्तृत्वकलनयआणुं तुट्यादिक्रमाभासनात्मना कालेन संयोज्यकालतत्त्वव्यपदेश्या कल्प्यते येनायमणुःभूतादिक्रियाक्रमकलितःकालवशतामपद्यते ।।११।।यास्य स्वतन्त्रताख्या शक्तिस्सङ्कोचशालिनी सैव ।कृत्याकृत्येष्ववशं नियतममुं नियमन्त्यभून्नियतिः ।।१२।।स्वतंत्र्यमेवास्य परप्रमातुस्सङ्कुचन्नियतितत्त्व तामाभासयतियतः कार्याकार्येषु नियमाधानात्विशिष्टे कार्ये विशिष्तं कारणं एवादध्यान् नानियतं इति ।एतेन कलादिना कञ्चुकेना वृतोऽयं शक्तिदारिद्र्यमनुभूयकलादिमुखेनैव स्ववैभवात् प्रतिवितीर्णकिञ्चिदंशः पशुरित्युच्यते ।।१२।।इच्छादित्रिसमष्टिश्शक्तिश्शान्तास्य सङ्कुचद्रूपा ।सङ्कलितेच्छाद्यात्यकसत्त्वादिक साम्यरूपिणी तु सती ।।१३।।बुद्ध्यादिसामरस्यस्वरूपचित्तात्मिका गता प्रकृतिः ।इच्छास्य रजोरूपाहङ्कृतिरासीदहं प्रतीतिकरी ।।१४।।अस्य शान्ताख्याशक्तिरक्षुब्धत्वातिच्छादीनांशक्तीनां गर्भीकरणात्समष्टिरूपा पारमित्यग्रहणाच्चगुणानामविभागावस्था प्रकृतितत्त्वं ।गुणानामिच्छादिशक्तित्रिकेनान्वारब्धत्वात्त्रित्वं यत्प्रक्षोभात्प्रकृतिकसर्गस्य प्रसरः । तत्र चित्तात्मके बुद्धयकृन्मनांसिसम्यावस्थामधिश्रियन्ति । अत्र तत्त्वक्रमप्रसरेशिवादिसकलान्तेषुप्रभातृवर्गेषु ज्ञानक्रियाशक्ती एव मुख्यमुपकरणं ते एवसङ्कुचिद्रूपे ईश्वरशुद्धविद्ये सङ्कुचिते विद्याकलेअत्यन्तसङ्कुचितेबुद्धिकर्मेन्द्रियाणि क्रियायाः सङ्कोचसीम्नि भूतसूक्ष्मादि इतिविज्ञेयं । अणोः रजः परिणामिनी इच्छशक्तिअहमित्याभिमानलक्षणा अहङ्कृतिः ।।१३-१४।।ज्ञानापि सत्त्वरूपा निर्णयबोधस्य कारणं बुद्धिः ।तस्य क्रिया तमोमयमूर्तिर्मनोच्यते विकल्पकरी ।।१५।।सत्त्वपरिणामिनी ज्ञानशक्तिरेवार्थाध्यवसायलक्षणाबुद्धिः । तमः परिणामिनी क्रियाशक्तिः ।विकल्पकरणलक्षणंमनस्तत्त्वमुच्यते ।।१५।।वामादिपञ्चभेदस्सैव सङ्कुचितविग्रहो देवः ।ज्ञानक्रियोपरागप्राधान्याद्विविधविषरूपोऽभूत् ।।१६।।सैव क्रीडासतत्त्वो वामोदेवादिपञ्चमूर्तितत्त्वात् सङ्कुचितोभूत्वा ज्ञानशक्त्युपरञ्जनप्रधानतयाज्ञानेन्द्रियतद्विषयशरीरतां क्रियाशक्त्युपाधिप्राधान्यात्कर्मेन्द्रियव्यापारवत्त्वं च उपादत्ते । शक्तिपञ्चकोपादानात्करणानां पञ्चधात्वं बोध्यं ।।१६।।श्रोत्रं चक्षुस्स्पर्शनजिह्वाघ्राणानि बोधकरणानि ।शद्बस्पर्शरूपरसगन्धौ चेति भूतसुक्ष्माणि ।।१७।।श्रोत्रादीनि ज्ञानेन्द्रियाणि शब्दादीनि तन्मात्राणि ।।१७।।अयमेवातिनिकृष्टो जातो भूतात्मनापि भूतेशः ।गगनमनिलश्च तेजस्सलिलं भूमिश्च पञ्चभूतानि ।।१८।।अत्यन्तसङ्कोचग्रहणातचिद्रूपतामवभास्याकाशदीनिपञ्चभूतानि ।।१८।।श्रोत्रादिकरणवेद्याश्शब्दाद्यास्तानि वेदकान्येषां ।वचनकरी वागासीत् पाणिस्स्यात्करणभूतादाने ।।१९।।शब्दादिज्ञानसाधनानि श्रोत्रादिकरणानिवचनादिक्रियासाधनानिवागादीनि कर्मेंद्रियाणि ।।१९।।गमनविसर्गानन्दत्रितये पादादिकं करणं ।गन्धवती भूमिस्स्यादापस्सांसिद्धिकद्रवास्तेजः ।।२०।।उष्णस्पर्शमरूपस्पर्शो वायुरम्बरं सशब्दं ।षट्त्रिंशत्तत्त्वमयं वन्दे कुलातिगं शंभुं ।।२१।।आदिना पायूपस्थौ गृह्येते । गंधवत्त्वं भूमेर्लक्षणंसांसिद्धिकद्रवत्वमब्लक्षणमुष्ण स्पर्शेन तेजोलक्ष्यते अरूपस्पर्शो वायुलक्षणं शब्दाकशस्येति प्रत्येकंमुख्यगुणनिर्देशः । तत्त्वानामुत्तरोत्तरं व्याप्यव्यापकभावेनभूमिर्व्याप्या जलादिशिवान्तं व्यापकानि पञ्चत्रिंशतेवंभूतसृष्टौ व्योमादिगुणा व्यामकत्वेनानुगतास्संति ।परमशिवतत्त्वस्यसर्वत्रानुगतत्वात्विश्वमयतदुत्तीर्णयामलकौलस्वरूपमेवभक्तानामिति वन्दनोपसंहारोक्ययोपक्षिप्तमिति शिवं ।।२० -२१।।          ।
।इति षट्त्रिशत्तत्त्वसंदोहश्श्रीमद्राजानकानन्दाचार्यविरचितविवरणोपेतः समाप्तः ।। 
सर्वशास्त्रार्थसंग्रहः
।।अथ प्रथमोऽध्यायः ।।             
।।श्री गुरुभ्यो नमः हरिः ॐ ।।ॐ विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः ।समन्वयादीक्षतेश्च पूर्णानंदोऽंतरः खवत् ।।१। १ ।।
प्रणेता ज्योतिरित्यादैः प्रसिद्धैरन्यवस्तुषु ।उच्यते विष्णुरेवैकः सर्वैः सर्व गुणत्त्वतः ।।१। २ ।।
सर्वगोऽत्ता नियंता च दृश्यत्त्वादुज्झितः सदा ।विश्वजीवांतरत्त्वादैर्लिङ्गैः सर्वैर्युतः स हि ।।१। ३ ।।सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः ।सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ।।१। ४ ।।
ज्ञेयो न वेदैः शूद्रादैः कन्दकोऽन्यश्च जीवतः ।पतित्त्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः ।।१। ५ ।।मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः ।अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः ।।१। ६ ।।अवान्तरं कारणं च प्रकृतिः शून्यमेव च ।इत्यादन्यत्र नियतैरपि मुख्यतयोदितः ।शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः ।।१। ७ ।।          
।।इति प्रथमोऽध्यायः ।।          
।।अथ द्वितीयोऽध्यायः ।।
ॐ श्रौतस्मृतिविरुद्धत्त्वात् स्मृतयो न गुणान्हरेः ।निषेद्धुं शक्नुयुर्वेदानित्यत्वान्मानमुत्तमम् ।।२। १ ।।असज्जीवप्रधानादिशब्दाब्रह्मैव नापरम् ।वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः ।।२। २ ।।स्वातन्त्र्यात्सर्वकर्तृत्त्वान्नायुक्तं तद्भवेच्छ्रुतिः ।भ्रान्तिमूलतया सर्व समयानामयुक्तितः ।।२। ३ ।।
न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत् ।आकाशादिसमस्तं च तज्जं तेनैव लीयते ।।२। ४ ।।सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा ।तदाभासो हरिः सर्व रूपेष्वपि समः सदा ।।२। ५ ।।मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवाः ।मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ।।२। ६ ।।
सर्व दोशोज्झितः तस्माद् भगवान् पुरुषोत्तमः ।उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वथा ।।२। ७ ।।          ।।इति द्वितीयोऽध्यायः ।।          
।।अथ तृतीयोऽध्यायः ।।
ॐ शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा ।मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ।।३। १ ।।
याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत् ।सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान् ।।३। २ ।।
सर्वदेशेषु कालेषु स एकः परमेश्वरः ।तद्भक्तिस्तारतम्येन तारतम्यं विमुक्तिगम् ।।३। ३ ।।सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः ।यथा क्रमं बहुगुणैर्ब्रह्मणत्त्वखिलैर्गुणैः ।।३। ४ ।।
उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम् ।ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरं ।।३। ५ ।।
सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः ।न लिप्यते ज्ञानावंश्च सर्वदोषैरपि क्वचित् ।।३। ६ ।।
गुणदोषैः सुखस्यापि वृद्धि ह्रासौ विमुक्तिगौ ।नॄणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम् ।।३। ७ ।।          
।।इति तृतीयोऽध्यायः ।।          
।।अथ चतुर्थोऽध्यायः ।।
ॐ विष्णुर्ब्रह्म तथाऽदित्यत्येवं नित्यमुपासनम् ।कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम् ।।४। १ ।।प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः ।अनिष्टस्योऽभयस्यापि सर्वस्यान्यस्य भोगतः ।।४। २ ।।उत्तरेषोत्तरेष्वेवं यावद्वायुं विमुक्तिगाः ।प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा ।।४। ३ ।।
वायुर्विष्णुं प्रविश्यैव भोगश्चैवोत्तरोत्तरम् ।उत्क्रम्य मानुषा मुक्तिं यान्ति देहक्षयात्सुराः ।।४। ४ ।।अर्चिरादि पठा वायुं प्राप्य तेन जनार्दनम् ।यान्त्युत्तमा नरोच्चाद्या ब्रह्मलोकात्सहाऽमुना ।।४। ५ ।।यथासङ्कल्पभोगाश्च चिदानन्द शरीरिणः ।जगत्सृष्ट्यादिविशयं महासामर्थ्य मप्यृते ।।४। ६ ।।यथेष्टशक्तिमंतश्च विना स्वाभाविकोत्तमान् ।अनन्यवशगाश्चैव वृद्धिह्रास विवर्जिताः ।दुःखादिरहितं नित्यं मोदंतेऽविरतं सुखम् ।।४। ७ ।।
पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसंग्रहः ।कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ।।४। ८ ।।
नमो नमोऽशेषदोषदूर पूर्णगुणात्मने ।विरिञ्चिशर्वपूर्वेड्य वंद्याय श्रीवराय ते ।।४। ९ ।।          
।।इति चतुर्थोऽध्यायः ।।
इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचितं          ब्रह्मसूत्राणुभाष्यं सम्पूर्णम्          ।।भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ।।

Comments

  1. https://lm.facebook.com/l.php?u=http%3A%2F%2Fne.sciencegraph.net%2Fwiki%2F%25E0%25A4%25B8%25E0%25A5%2587%25E0%25A4%25A2%25E0%25A4%25BE%25E0%25A4%2588&h=ATM8UNBPJ2m0WrAQ1mHwekzZvqmIJuT6RyqcJONhtXUZZFXGuAWjjEkoNVoMrATl4gMie6MtvrxenvHeLsN7lGGhzqukizw90FFeeJebfOPeYtHnk8IPpIHyON0rMnshjEHUc-qLeXjIVMDhOdA&enc=AZMvAwfY21byS8BgRAVFcvaukVaBReOs3eG_si-9ct6t1KwU9S4-B-6LjzekOPqHaTF4MkqMceotpN_ojrxtZ_pI59bKasstVkbDoAGzThh2aA-LePHirIMVpezhkuMKuf2hlhOnGAeqsmnkpWNj7uRmZAG_iQLVSVaB-UC1jVCqttRwutvvVs_DN1mEcAKYfLJyxq_ThLdF81ZjzKHQVnWNBNvI5eRoHIEOvygU8HGsdbOYom1Z6_R3YWm5-J_25ZL4VNkuzBeox3OcxFiutES9&s=1

    ReplyDelete
  2. read
    1.सेढाई
    https://ne.wikipedia.org/s/fxd
    स्वतन्त्र विश्वकोश, नेपाली विकिपिडियाबाट
    2.https://ne.wikibooks.org/w/index.php?title=%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%B2%E0%A4%BE%E0%A4%AA%3ASubject%3AHistory&action=edit,ne.wikibooks.org/w/index.php?title=वार्तालाप%3ASubject%3AHistory&action=edit and https://ne.wikibooks.org/wiki/सेढाई
    3.https://ne.wikipedia.org/s/tdx
    स्वतन्त्र विश्वकोश, नेपाली विकिपिडियाबाट
    4.सेढाई
    नेपाली विकिपुस्तकबाट, स्वतन्त्र पुस्तकालय
    सन्दर्भ सामग्रीहरू[सम्पादन]
    personnel collection and interview of sedhay people and visit different sedai vellage.2045 Bs to till now.
    नेविगेशन मेनू
    सन्दर्भ सामाग्रीहरु
    १.महाभारत विभिन्न पर्वहरु,वेद,उपनिषद,धम्र्ग्रथ,सुक्ति उक्त्हिरु । २. योग इकाई ,मधुमेह मुक्त भारत अभियान १. गुरु योगी नरहरि नाथ यात्रा वृतान्त ४. नया करार भजन संग्रह र हितोपदेश,नेपाल वाईवल सोसाईटी ५. बिभिन्न मितिका पञ्चाङ्गहरु ६.निजि यात्रा र सेढाई सम्बन्धि खोज ६. इतिहास, डा. सूर्यमणि अधिकारी ८. बिभिन्न भाषका कुमाई सम्बन्धि लेख रचना ७. गोरखा पत्र जात जाती ८.इन्टरनेटका विविध जात कला धर्म संस्कृती सम्बन्धि लेख रचना ९.सेढाई बन्धु समाजको प्रकासित पुस्तक

    ReplyDelete

Post a Comment

Popular Posts

Labels

Send a message

Name

Email *

Message *